पूर्वम्: ३।४।८७
अनन्तरम्: ३।४।८९
 
सूत्रम्
वा छन्दसि॥ ३।४।८८
काशिका-वृत्तिः
वा छन्दसि ३।४।८८

अपित्त्वं विकल्प्यते। लाऽदेशः छन्दसि विषये हिशब्दो वा अपिद् भवति। युयोध्यस्मज्जुहुराणमेनः। प्रीणाहि। प्रीणीहि।
न्यासः
वा च्छन्दसि। , ३।४।८८

"अपित्त्वं विकल्प्यते"( इति)। "लादेशः" इति। तस्यानन्तरत्वात्। आदेशस्तु तेन व्यवहितत्वादनन्तरो न भवति विकल्प्यते। "युयोधि" इति। "यु{मिश्रणेऽमिश्रणे च" धा।पा} मिश्रणे" (धा।पा।१०३३), "बहुलं छन्दसि" २।४।७६) इति शपः श्लुः, "श्लौ" (६।१।त१०) इति द्विर्वचनम्। अत्रापि पित्त्वेन ङित्त्वं नास्ति, तेन गुणो न भवति। "अङितश्च" ६।४।१०३ इति घिभावः। "प्रीणीहि" इति। "प्रीञ् {तर्पणे कान्तौ च" -धा।पा।}(धा।पा।१४७४) क्र्यादित्वात् श्ना। अत्राप्यपित्त्वे सति पूर्ववदीत्वम्॥