पूर्वम्: ३।४।९०
अनन्तरम्: ३।४।९२
 
सूत्रम्
सवाभ्यां वामौ॥ ३।४।९१
काशिका-वृत्तिः
सवाभ्याम् वामौ ३।४।९१

लोटः इत्येव। सकारवकाराभ्याम् उत्तरस्य लोट्सम्बन्धिन एकारस्य यथासङ्ख्यं च अम् इत्येतावादेशौ भवतः। आमो ऽपवादः। पचस्व। पचध्वम्।
लघु-सिद्धान्त-कौमुदी
सवाभ्यां वामौ ५२०, ३।४।९१

सवाभ्याम् परस्य लोडेतः क्रमाद्वामौ स्तः। एधस्व। एधेथाम्। एधध्वम्॥
न्यासः
सवाभ्यां वामौ। , ३।४।९१

"पचस्व" इति। "थासः से" ३।४।८० इति कृते वकारः। "पचध्वम" इति। टेरेत्वे कृतेऽमादेशः॥
बाल-मनोरमा
सवाभ्यां वामौ ९८, ३।४।९१

सवाभ्यां। सश्च वश्च सवौ। ताभ्यामिति विग्रहः। अकारावुच्चारणार्थौ। वश्च अम्च वाऽमौ। "लोटो लङ्व"दित्यास्माल्लोट इति "आमेत"इत्यस्मादेत इति चानुवर्तते। तदाह--सकारेति। "आमेत"इत्यस्यापवादः। एधस्वेति। "एध-सेट इत्यत्र एकारस्य "व" इति वकाराकारसङ्घात आदेशः। एधेथामिति। आथाम्। टेरत्वं। शप्। "आतो ङि" इत्याकारस्य इय्। गुणः। यलोपः "आमेत" इत्याम्। एधध्वमिति। ध्वमि, शप्, टेरेत्वे कृते सवाभ्यामिति वकारात्परत्वादेकारस्य अम्।