पूर्वम्: ३।४।९१
अनन्तरम्: ३।४।९३
 
सूत्रम्
आडुत्तमस्य पिच्च॥ ३।४।९२
काशिका-वृत्तिः
आडुत्तमस्य पिच् च ३।४।९२

लोटः इत्येव। लोट्सम्बन्धिनः उत्तमपुरुषस्य आडागमो भवति, स च उत्तमपुरुषः पिद् भवति। करवाणि, करवाव, करवाम। करवै, कर्वावहै, करवामहै।
लघु-सिद्धान्त-कौमुदी
आडुत्तमस्य पिच्च ४२०, ३।४।९२

लोडुत्तमस्याट् स्यात् पिच्च। हिन्योरुत्वं न, इकारोच्चारण सामर्थ्यात्॥
न्यासः
आडुत्तमस्य पिच्च। , ३।४।९२

"स चोत्तमपुरुषः पिद्भवतिट" इति। अथाट एव पित्त्वं कस्मान्न क्रियते? निरर्थकत्वात्। पित्त्वं ह्रनुदातार्थं वा स्यात्, गुणवृद्ध्यर्थं वा; तत्राटोऽनुदात्तत्वमागमत्वादेव सिद्धम्, गुणवृद्ध्योस्तु नैवासौ निमित्तम्; अप्रत्ययत्वात्। तस्मादाटं प्रति पित्त्वमनर्थकमित्युत्तमस्यैव विधीयते। "करवाणि" इति। पित्त्वादुत्तमस्य ङित्वं नास्ति, तेन गुणो भवति। "करवै" इति। "एत ऐ" ३।४।९३, "आटश्च" ६।१।८७ इति वृद्धिः॥
बाल-मनोरमा
आडुत्तमस्य पिच्च ५३, ३।४।९२

भव नि इति स्थिते-- आडुत्तमस्येति। "लोटो लङ्व"दित्यतो लोट इत्यनुवर्तते। तदाह--लोडुत्तमस्येति। स्तवानि स्तवावेत्यादौ सार्वधातुकपिदिति ङित्त्वनिवृत्त्यर्थं पिद्वचनम्। यद्यपि मिपस्थानिकस्य नः पित्त्वात्तदागमस्यापि सिद्धं पित्त्वं, तथापि वस्मसोराडागमस्याऽङित्तवार्थं पिदिति वचनम्। ननु स्तुहि भवानीत्यत्र "एरु" रित्युत्वं कुतो न स्यादित्यत आह-हिन्योरुत्वं नेति। सामथ्र्यादिति। अन्यथा-- "हु-नु" इत्येव विदध्यादिति भावः। भवानीति। आडागमे सवर्णदीर्घः। न चाऽत्र लङ्वद्भावादितश्चेति लोपः शङ्क्यः, इकारोच्चारणसामथ्र्यात्। अन्यथा "मो न" इत्येव विदध्यात्। एवं हेरपि बोध्यम्। यद्यपि भवानीत्यादवतो दीर्घो यञि इत्येव दीर्घसिद्धेराडागमविधिव्र्यर्थस्तथापि स्तवानीत्याद्यर्थमावश्यकमिहापि न्याय्यत्वादुपन्यस्तम्। भवावेति। लोटो वस्। गुणावादेशौ। आडागमः। सवर्णदीर्घः। लङ्वद्भावात् "नित्यं ङित" इति सकारलोपः। एवं मसि भवामेति रूपम्। इति लोट्प्रक्रिया।

तत्त्व-बोधिनी
आडुत्तमस्य पिच्च ४१, ३।४।९२

"स" इति तच्छब्देन यस्याऽ‌ऽडागमः स परामृश्यत इत्याहुः॥