पूर्वम्: ३।४।९२
अनन्तरम्: ३।४।९४
 
सूत्रम्
एत ऐ॥ ३।४।९३
काशिका-वृत्तिः
एत ऐ ३।४।९३

लोट उत्तमस्य इति वर्तते। लोडुत्तमसम्भन्धिनः एकारस्य ऐकाराऽदेशो भवति। आमो ऽपवादः। करवैक् करवावहै, करवामहै। इह कस्मान् न भवति, पचावेदम्, यजावेदम्? बहिरङ्गलक्षणत्वाद् गुणस्य।
लघु-सिद्धान्त-कौमुदी
एत ऐ ५२१, ३।४।९३

लोडुत्तमस्य एत ऐ स्यात्। एधै। एधावहै। एधामहै॥ आटश्च। ऐधत। ऐधेताम्। ऐधन्त। ऐधथाः। ऐधेथाम्। ऐधध्वम्। ऐधे। ऐधावहि। ऐधामहि॥
न्यासः
एत ऐ। , ३।४।९३

"आमोऽपवादः" इति। "आमेतः" ३।४।९० इति प्राप्तस्य। "पचावेदं यजावेदम्" इति। "लोटो लङ्()वत्" ३।४।८५इति सलोपे सति "आद्गुणः" ६।१।८७ इति वृद्धिः॥
बाल-मनोरमा
एत ऐ ९९, ३।४।९३

उत्तमपुरुषैकवचने इटि टेरेत्वे शपि "आमेत" इत्येकारस्य आमि प्राप्ते--एत ऐ। "ऐ" इति लुप्तप्रथमाकम्। "लोटो लङ्व"दित्यस्माल्लोट इति, "आडुत्तमस्य पिच्चे"त्यस्मादुत्तमस्येति चानुवर्तते। तदाह--लोडुत्तमस्येति। एधै इति। एध - ए इति स्थिते एकारस्य ऐत्वे,आडुत्तमस्येत्याडागमे, आटश्चेति वृद्धौ, वृद्धिरेचीति वृद्धिः। एधावहै एधामहै इति। वहिमह्रोष्टेरेत्वे शपि एकारस्य ऐत्वे आटि सवर्णदीर्घः। इति लोटप्रक्रिया।