पूर्वम्: ३।४।९३
अनन्तरम्: ३।४।९५
 
सूत्रम्
लेटोऽडाटौ॥ ३।४।९४
काशिका-वृत्तिः
लेटो ऽडाटौ ३।४।९४

लेटो ऽडाटावागमौ भवतः पर्यायेण। जोषिषत्। तारिषत्। मन्दिषत्। पताति दिद्युत्। प्रजापतिरुदधिं च्यावयाति।
न्यासः
लेटोऽडाटौ। , ३।४।९४

"पर्यायेण" इति। अथ युगपदेव कस्मान्न भवतः? एवं मन्यते-- टितावेतौ विधीयेते, टित्त्वञ्चादिविधानार्थंम्। न च युगपद्()द्वयोरादित्वं भवति, एकेनैवादिदेशस्यावष्टब्धत्वान्न युक्तं यौगपद्यमिति। "जोषिषत्" इत्यादीव्युदाहरणानि "सिब्बहुलं लेटि" ३।१।३४ इत्यत्र व्युत्पादितानि। अत्रापि व्युत्पाद्यन्ते। "जोषिषत्" इति-- "जुषी प्रीतिसेवनयोः" (धा।पा।१२८८), सिप इकार उच्चारणार्थः, अनेनाट्, "इतश्च लोपः परस्मैपदेषु" ३।४।९७ इतीकारलोपः "आर्धधातुकस्येड्वलादेः" ७।२।३५ इतीट्, लघूपधगुणः, "आदेशप्रत्यययोः" ८।३।५९) इति षत्वम्। "तारिषत्" इति-- "तृ प्लवनतरणयोः" (धा।पा।९६९), "सार्वधातुकार्धधातुकयोः" ७।३।८४ इति व्यत्ययेन धात्वकारस्य दीर्घः। शेषं पूर्ववत्। "मन्दिवत्" इति--"मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु" (धा।पा।१३) इदितो नुम्" ७।१।५८। "पदाति" इति। "पद गतौ" (धा।पा।११६९) दिवादावनुदात्तेत् , व्यत्ययेन परस्मैपदम्; शप्प्रत्ययश्च, अटा सहाकः सवर्णे ६।१।९७ दीर्घत्वम्, तिप्। इकारलोपोऽत्र न भवति; तद्विधौ "वैतोऽन्यत्र" ३।४।९६ इत्यतो वाग्रहणानुवृत्तेः। "च्यावयति" इति। "च्युङ् ज्युङ प्रुङ प्लुङ गतौ" (धा।पा।९५५--९५८), हेतुमण्णिच्॥