पूर्वम्: ३।४।९४
अनन्तरम्: ३।४।९६
 
सूत्रम्
आत ऐ॥ ३।४।९५
काशिका-वृत्तिः
आत ऐ ३।४।९५

लेटः इत्येव। लेट्सम्भन्धिनः आकारस्य ऐकाराऽदेशो भवति। प्रथमपुरुषमध्यमपुरुषाऽत्मनेपदद्विवचनयोः। मन्त्रयैते। मन्त्रयैथे। करवैते। करवैथे। आटः कस्मान् न भवति? विधानसामर्थ्यात्।
न्यासः
आत ऐ। , ३।४।९५

"मन्त्रयैते" इति। "मत्रि {गुप्तपरिभाषणे-धा।पा।} (धा।पा।१६७९), चुरादिणिच्, शप्,{गुणायादेशः" इति मु।पाठः।} गुणायादेशौ। "आटः कस्मान्न भवति" इति। पदाति विद्युदित्यादौ। "विधानसामथ्र्यात्" इति। यद्याट ऐत्वं स्यात् ऐडागममेव विदध्यात्, एवं प्रक्रियालाघवं भवतीति मन्यते॥