पूर्वम्: ३।४।९६
अनन्तरम्: ३।४।९८
 
सूत्रम्
इतश्च लोपः परस्मैपदेषु॥ ३।४।९७
काशिका-वृत्तिः
इतश् च लोपः परस्मैपदेसु ३।४।९७

लेटः इत्येव। लेट्सम्भन्धिनः इकारस्य परस्मैपदविषयस्य लोपो भवति। वानुवृत्तेः पक्षे श्रवणम् अपि भवति। जोषिषत् तारिषत्। मन्दिषत्। न च भवति। पताति दिद्युत्। प्रजापतिरुदधिं च्यावयाति परस्मैपदग्रहणम्, इड्वहिमहिडां मा भूत्।
न्यासः
इतश्च लोपः परस्मैपदेषु। , ३।४।९७

"परस्मैपदग्रहणम्" इत्यादि। ननु च टेरेत्वमिडादिषु बाधकं भविष्यति, तत् किं परस्मैपदग्रहणेन? नैतदस्ति; टेरेत्वस्यावकाश अन्येषु लकारादिषु, इतो लोपस्य च परस्मैपदेषु; उभयप्रसङ्गे परत्वादितो लोपः स्यात्॥