पूर्वम्: ३।४।११७
अनन्तरम्: ४।१।२
 
प्रथमावृत्तिः

सूत्रम्॥ ङ्याप्प्रातिपदिकात्॥ ४।१।१

पदच्छेदः॥ ङ्याप्प्रातिपदिकात् ५।१ ५।४।१६०

समासः॥

ङी च आप् च प्रातिपदिकं च, ङ्याप्प्रातिपदिकम् तस्मात् ॰ समाहारः द्वन्द्वः

अर्थः॥

ङी इत्यनेन ङीप्, ङीष्, ङीन् इत्येते प्रत्ययाः सामान्येन गृह्यन्ते, एवम् आप्-शब्देन अपि टाप्, डाप्, चाप् इत्येते प्रत्ययाः।
अधिकारः अयम्, आपञ्चमाध्यायपरिसमाप्तेः, इतोऽग्रे ङ्यन्तात्, आबन्तात्, प्रातिपदिकात् च वक्ष्यमाणाः प्रत्ययाः भवन्ति॥

उदाहरणम्॥

उदाहरणानि अग्रेमसूत्रे द्रष्टव्यानि
काशिका-वृत्तिः
ङ्याप्प्रातिपदिकात् ४।१।१

अधिकारो ऽयम्। यदित ऊर्ध्वम् अनुक्रमिष्यामः आऽपञ्वमाध्यायपरिसमाप्तेः ङ्याप्प्रातिपदिकादित्येवं तद् वेदितव्यम्। स्वाऽदिषु कप्पर्यंतेषु प्रकृतिरधिक्रियते। ङीब्ङीष्ङीनां सामान्येन ग्रहणं ङी इति, टाब्डाप्चापाम् आपिति, प्रातिपदिकम् उक्तम् अर्थवत्, कृत्तद्धितसमासाश्च १।२।४६ इति, तेषां समाहारनिर्देशो ङ्याप्प्रातिपदिकातिति। यद्यपि च प्रत्ययपरत्वेन पारिशेष्यादियम् एव प्रकृतिर् लभ्यते, तथा अपि वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणप्रत्ययविधौ तत्संप्रत्ययार्थं ङ्याप्प्रातिपदिकग्रहणं कर्तव्यम्, इतरथा हि समर्थविशेषणम् एतत् स्यात्। अथ ङ्याप्ग्रहणं किम्, न प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणं भवति इत्येव सिद्धम्? न एतदस्ति। स्वरूपविधिविषये परिभाषेयं प्रातिपदिकस्वरूपग्रहणे सति लिङ्गविशिष्तग्रहणं भवति इति। तथा च युवा खलतिपलितवलिनजरतीभिः २।१।६६ इति ज्ञापकमस्यास्तादृशम् एव। किं च तदन्तात् तद्धितविधानार्थं ङ्याब्ग्रहणम्, कालितरा, हरिणितरा, खट्वातरा, मालातरा इति। विप्रतिषेधाद् धि तद्धितबलीयस् त्वं स्यात्।
लघु-सिद्धान्त-कौमुदी
ङ्याप्प्रातिपदिकात् ११९, ४।१।१

न्यासः
ङ्याप्प्रातिपदिकात्। , ४।१।१

"अधिकारोऽयम्" इति। स्वरितेनासञ्जितत्वात्। "आ पञ्चमाध्यायपरिसमाप्तेः" इति। अनेनाधिकारस्यावधिं दर्शयति। ततः परं नायमनुवत्र्तते; अस्वरितत्वात्। "स्वादिषु कप्पर्यन्तेषु" इति। अधिकारस्य विषमाचष्टे। "ङी इति ङीप्ङीष्ङीनां सामान्येन ग्रहणम्" इत्यादि। "ङी" इति विशेषकराननुबन्धानुत्सृज्य यत् सामान्यं ङीमात्रं तदिह गृह्रते। "टाब्डाप्चापामाप्" इति। सामान्येन ग्रहणमिति प्रकृतेन सम्बन्धः। ननु च ङ्यादीनां बहुत्वाद्बहुवचनेन भवितव्यम्, तत्कथं "ङ्याप्प्रातिपदिकात्" ४।१।१ इत्येकवचनेन निर्देश इत्याह --"तेषाम्" इत्यादि। समाहारद्वन्देनेह ङ्यादीनामयं निर्देशः कृत इत्यर्थः। इतरेतरयोगे हि द्वन्द्वे स्याद्बहुवचनम्। न चायमितरेतरयोगे द्वन्द्वः,किं तर्हि? समाहारे। तस्य चैकार्थत्वादेकवचनमेव युक्तम्। "समाहारनिर्देशः" इति वचनमितरेतरयोगनिवृत्त्यर्थम्,सामासन्तरनिवृत्त्यर्थञ्च, अन्यथा हि ङ्यापोः प्राप्तिपदिकं ङ्याप्प्रातिपदिकमित्यपि षष्ठीसमास आशङ्क्येत। ततो ङ्यन्तमाबन्तञ्च समासप्रातिपदिकं यत् ततः स्याद् राजकुमार्यादिभ्यः न तु केवलेभ्यः कुमार्यादिभ्यः। ङ्यापोस्तु विधानेनैव प्रातिपदिकं प्रकृतिः स्यात्। तस्मात् समाहार द्वन्द्वेनायं निर्देशः। तत्र तु त्रयं प्रकृतित्वेनाधिक्रियते, तेन सर्वतो भवति। अथ कथं पुनरत्र विग्रहः? केचिदाहुः-- "ङीश्च आप्च प्रातिपदिकञ्चेति। ननु च "अप्रत्ययः" (१।२।४५) इति प्रातिपदिकसंज्ञाप्रतिषेधाद् ङीश्चेति विभक्त्युत्पत्तिर्न स्यात्? उच्यते; नायं प्रत्ययः, अपि तु प्रत्ययानुकरणमिदम्। एवमपि "प्रकृतिवदनुकरणं भवति" (व्या।प।११३) इति स्यादेव प्रतिषेधः? नैष दोषःच अनुकरणं द्वैधम्-- अर्थस्य, शब्दमात्रस्य चेति। ज्ञापितमाचार्येणैतद् द्वेधा निर्देशात् -- "परिव्यवेभ्यः क्रियः" १।३।१८ , "विपराभ्यां जेः" १।३।१९ इतीयङादेशस्य करणाकरणाभ्याम्। अतोऽत्र शब्दमात्रमनुकृतम्, न त्वर्थसहितम्। तेनात्र "अप्रत्ययः" १।२।४५ इति नास्त्येव प्रतिषेधः। प्रकृतिवदतिदेशस्त्वर्थवत्यनुकरणे। ननु चेवमपि हल्ङ्यादिलोपेन (६।१।६८) भाव्यम्? उच्यते; ङ्यन्तात् सुलोपः, न ङीमात्रात्। व्यपदेशिवद्भावात् स्यादिति चेत्? न; "व्यपदेशवद्भावोऽप्रातिपदिकेन" (शाक।प।६५) इत्युच्यते, प्रातिपदिकञ्चदम्। तस्मात् "ङीश्च" इति। अथ प्रत्ययविधिविषयैषा परिभाषा पूर्वादिनिः" ५।२।८५ "सपूर्वाच्च" (५।२।८७) इत्यत्र ज्ञापितत्वात्? न चायं प्रत्ययविधिः, कस्तर्हि? लोपविधिरिति, अतः परिभाषा न प्रवत्र्तत इत्यस्त्येव व्यपद#एशिवद्भाव इति ततः प्रवत्र्तते लोपशास्त्रम्। अतः सुलोपेन भवितव्यम्-- ङी चेति। सामान्येन परिभाषाप्रवृत्तिमाश्रित्य ङीश्चेति विग्रहः। अन्यस्त्वाह-- "प्रयोगस्य एव कुमारी, गौरीत्यादिषु य ईकारः सोऽत्रानुकृत एव लुप्तविभक्तिकः,तेन ङी इत्येव भवति। यद्येवम्, कुतो ङकारः सामान्यग्रहणार्थ आसज्यते? ननु चानुक्रियमाणेनार्थेनार्थवत्त्वात् पुनरपि विभक्त्युत्पत्तिः प्राप्नोति, ततश्च ङीश्चेति भवितव्यम्? नैतदस्ति; प्राक्कालभाविनी या विभक्तिस्तां प्रत्ययलक्षणेनाश्रित्याप्रत्यय १।२।४५ इति प्रतिषेधात्। अथापि स्यात्-- "न ङिसम्बुद्ध्योः" ८।२।८ इति ज्ञापकात् प्रत्ययलक्षणेनाप्रत्यय १।२।४५ इति प्रातिपदिकसंज्ञा न प्रतिषिध्यते" इति। असदेतत्; नलोपविधिविषयमेवैतज्ज्ञापकम्। अतोऽत्र नास्त्येव प्रत्ययलक्षणेन प्रातिपदिकसंज्ञाप्रतिषेध इति स्थितमेतत्। ननु च प्रत्ययत्वे सति "परश्च" ३।१।२ इति वचनात् परे भवन्तः स्वादयः पूर्वां प्रकृतिमाक्षिप्य भवन्ति, न ह्रन्यथा परत्वमुपपद्यते, तस्य परत्वस्य पूर्वापेक्षत्वात्, न च ङ्यादिभ्योऽन्या प्रकृतिरुपपद्यते। तत्र ङ्याप्प्रातिपदिकग्रहणमन्तरेणापि पारिशेष्यादियमेव प्रकृतिर्लभ्यते तथा हि, प्रकृत्यन्तरं धातुरिति-- तिङन्तञ्च, वाक्यञ्च। प्रत्यया अपि स्वादयः, टाबादयः अणादयश्च। तत्र धातोस्तावत् स्वादिभिर्न भवितव्यम्, ते ह्रेकत्वादिष्वर्थेषु विधीयमानास्तद्वन्तं शब्दमाक्षिपन्ति। न च धातुरेकत्वादिमान्। अथाप्यविशेषणोत्पद्यन्ते, उत्पन्नानां तु नियमः क्रियते? तथापि न #ऐव तेषां धातोरुत्पत्तिर्युक्ता; सामान्यविहितानां स्वादीनां विशेषविहितैस्तव्यदादिभिर्बाधितत्वात्। टाबादयस्तर्हि धातोर्भवेयुरिति चेत्? स्यादेतत्। असति ङ्याप्प्रातिपदिकग्रहणेऽकारान्तेभ्यो धातुभ्यो जुगुप्सादिभ्यः "अतः" ४।१।४ इति टाप् स्यात्, अपिद्भ्यो वञ्चुप्रभृतिभ्यः "उगितश्च" ४।१।६ इति ङीप् स्यात्, नकारान्तेभ्यो मन्प्रभृतिभ्यः "ऋन्नेभ्यो ङीप्" (४।१।५) इति ङीप्प्रत्ययः इति? एतच्च नास्ति ; यतः स्त्रियां टाबादयो विधीयन्ते, क्रियावचनश्च धातु#ः। क्रियायाश्चासत्त्वभूतत्वाल्लिङ्गेन योगो नास्ति; तस्य द्रव्यधर्मत्वात्। एतेन तिङन्ताद्वाक्याच्च टाबादीनामुत्पत्तिः प्रतिक्षिप्ता; तयोरपि क्रियाप्रधानत्वात्। अणादीनामपि नैव धातोरुत्पत्तिरुपपद्यते। ते ह्रपत्यादिनार्थेन सम्बन्धे सति विधीयन्ते। धातुवाच्यस्यार्थस्यासत्त्वभूतत्वाद्यथा स्त्रीत्वेन योगो न सम्भवति, तथाप्यपत्यादिना ह्रर्थेन। एतेन तिङन्ताद्वाक्याच्चाणादीनामुत्पत्तिर्निरस्ता; तदर्थस्यापि क्रियाप्रधानस्यापत्यादिना सम्बन्धाभावात्। देवदत्तस्य पचति यस्तस्यापत्त्यमिति सत्यपि सम्बन्धे "तिङश्च" ५।३।५६ इति ज्ञापकान्न भवति। येऽपत्यादिनार्थेन सम्बन्धे तद्धिता विधीयन्ते तेऽनन्तरोक्तया नीत्या मा भून्, ये तु स्वार्थे विधीयन्ते तैर्युक्तमेव भवितुमिति चेत्? वात्र्तमेतत्; यथैव हि स्वादीनां सामान्यविहितानां विशेषविहितैस्तव्यदादिभिर्बाधितत्वात् तदुत्पत्तिर्नोपपद्यते तथा स्वार्थिकानामपि सामान्यविहितानां स्वार्थिकैस्तुमुन्नादिभिर्विशेषविहितैर्बाधितत्वान्नोपपद्यत एव। तिङन्तात् तर्हि के स्युरिति चेत्? ज्ञापकान्न भविष्यन्ति। यदयं क्वचित् तद्धितविधौ तिङ्गर्हणं करोति-- "अतिशायने तमबिष्ठनौ" ५।३।५५ "तिङश्च" ५।३।५६ इति, क्वचित् तद्धितविधौ तिङ्ग्रहणं करोति-- "अतिशायने तमबिष्ठनौ" ५।३।५५ "तिङश्च" ५।३।५६ इति, तज्ज्ञापयति-- तिङन्तात् तद्धिता न भवन्तीति। वाक्यात् तर्हि भवेयरिति चेत्? अनभिधानान्न भविष्यन्ति। न हि "देवदत्तस्या()आकः" इत्युक्ते वाक्यार्थगता अज्ञातादयोऽर्थाः कप्रत्ययेन द्योत्यन्ते, किं तर्हि? अ()आशब्दगता एव। स्वादिभिरपि नैव तिङन्ताद्भवितव्यम्, तेषां ह्रेकत्वादयोऽर्थाः,ते च तिङभिरेवोक्ताः। न चोक्तर्थानां प्रयोगे युक्तः; "उक्तार्थानामप्रयोगः" (व्या।प।६०) इति वचना। ननु चोक्तार्थानामपि प्रयोगो दृश्यते, यथा-- एको द्वौ बहव इति चेत्? युक्तोऽत्र प्रयोगः वचनग्रहणात्। "प्रातिपदिक" इत्यादौ हि सूत्रे वचनग्रहणस्यैतत् तेषां भवति; तत्रास्याः परिभाषाया उपस्थानात्। तेन लिङ्गविशिष्टानामपि सर्वादीनां सर्वनामकार्यमुपपद्यते। यद्येवम्, इममेव न्यायमाश्रित्य शक्यं ङ्याब्ग्रहणमकर्त्तुम्? नैतदस्ति; न हि प्रातिपदिकसंज्ञा लिङ्गविशिष्टस्यार्थवतः शब्दरूपस्य भवितुमर्हति; "अप्र्तयय" १।२।४५ इति प्रतिषेधात्। न च प्रातिपदिकसंज्ञाविधौ सर्वेऽर्थवन्तः संज्ञिनः स्वरूपेण शक्या दर्शयितुम्; तेषामानन्त्यात्। यद्येवम्, "णाविष्ठवत् प्रातिपदिकस्य" (वा।८१३) इत्यत्रापि तर्हीयं परिभाषा नोपतिष्ठते; स्वरूपाग्रहणात्, ततश्च लिङ्गव्शीष्टेष्वष्ठवद्भावो न स्यात्। तत्र को दोषः? कुमारीमाचष्टे कुमारीयतीत्यत्र टिलोपो न स्यात्? नैष दोषः; बहुलमिष्ठवद्भाव इष्यते, तथा च चुरादौ पठ()ते "प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च" (चुरा।ग।सू।१८६) इति। तस्माद्बहुलवचनाल्लिङ्गविशिष्टस्यापीष्ठवद्भावो भविष्यति। "किञ्च" इत्यादना प्रयोजनान्तरं समुच्चिनोति। तदिति ङ्यापोः प्रत्यवर्शः। ङ्यन्तादाबन्ताच्च तद्धितविधानं यथा स्यादित्येवमर्थं च ङ्याब्ग्रहणम्। "कालितरा" इति। कालशब्दाज्जनपदादिसूत्रेण ४।१।४२ ङीप्, तदन्तात् "द्विवचनविभज्योपपदे" ५।३।५७ इत्यादिना तरप्, "घरूपकल्प" ६।३।४२ इत्यादिना ह्यस्वः। "हरिणितरा" इति। हरितशब्दात् "वर्णादनुदात्तात् तोपधातो नः" ४।१।३९ इति ङीप्, तकारस्य नकारः, "अट्कुप्वाङ्" ८।४।२ इत्यसति ङ्याब्ग्रहणे परत्वादातिशयिकः स्यात्। अ()स्मस्तु सति ङ्यापोस्तद्धितविधाने प्रकृतित्वेनाश्रयणात् पूर्वं ङ्याब्भ्यां भवितव्यमिति तदन्तात् तद्धितविधिः सिध्यति। ननु चान्तरङ्गः स्त्रीप्रत्ययः, बहिरङ्गास्तदिताः, तथा हि-- "समर्थानां प्रथमाद्वा" ४।१।८२ इत्यधिकाराद्विभक्त्यन्ताते उत्पद्यन्ते, विभक्तयश्च कर्माद्यपेक्षाः, कर्मादयश्च बाह्रक्रियानिमित्तत्वाद्बहिरङ्गाः ततश्च निमित्तस्य बहिरङ्गत्वात् तद्धिता अपि बहिरङ्गाश्रया एव भवन्ति; लिङ्गस्य तु सम्बन्ध्यन्तरानपेक्षत्वादन्तरङ्गत्वञ्च, अतस्तन्निमित्ता अपि टाबादयोऽन्तरङ्गा भवन्ति, ततश्चान्तरङ्गत्वादेव टाबादिभिस्तावद्भवितव्यम्, पश्चात् तदन्तात् तद्धितैरित्यपार्थकं ङ्याब्ग्रहणम्? नैतदस्ति; तदन्तात् तद्धितविमधानार्थं ङ्याब्ग्रहणमित्यत्र हि वाक्ये तद्धितग्रहणेन स्वार्थिका ये तद्धितास्त एव विवक्षिताः। इममेवार्थं सूचयितुं कालितरा, हरिणितरेति स्त्रीप्रत्ययान्तात् स्वार्थिक एव तरप्प्रत्यय उदाह्मतः। स्वार्थिकेषु च "समर्थानाम्" ४।१।८२ इत्येतन्नानुवत्र्तते। तथा हि क्ष्यति वृत्तिकारः-- "स्वार्थिकप्रत्ययावधिश्चायमधिकारः "प्राग्दिशो विभक्तिः" ५।३।१ इति यावत्। स्वार्थिकेषु ह्रस्योपयोगो नास्ति" इति। एवञ्च सति विभक्त्युत्पत्तिमनपेक्ष्य प्रातिपदिकादेव स्वार्थिकैर्भवितव्यमिति कुतस्तेषां बहिरङ्गत्वम् ! नन्वेवमपि कालितरेत्याद्यनुदाहरणम्; तरप्प्रत्ययस्य बहिरङ्गत्वात्। स हि यद्यपि विभक्त्युत्पतिं()त नापेक्षते, प्रतियोगिनं तु बाह्रार्थमपेक्षत एव, स्त्रीप्रत्ययस्य तु न कश्चित् प्रतियोग्यपेक्षेति तस्यान्तरङ्गत्वम्? नैष दोषः; उदाहरणदिगियं वृत्तिकारेण दर्शिता। एतानि त्वत्रोदाहरणानि दर्शयितव्यानि-- एनिका, श्येनिका, रोहिणिकेति। अत्र हि यदि पूर्वं तद्धितः स्यात् तदेतश्यतरोहितशब्देभ्योऽज्ञाताद्यर्थविवक्षायां कप्रत्यये "वर्णादनुदात्तात् तोपधात् तो नः" ४।१।३९ इत्यनेन ङीब्नकारौ न स्याताम्। यदि तर्हि ङ्याबन्तात् तद्धितविधानार्थं ङ्याब्ग्रहणम्, समासान्ता अपि तदन्तादेव स्युः, ततश्च बहवो गोमन्तोऽस्यां नगर्यामिति स्यात्, बहुव्रीहौ कृते "उगितश्च" ४।१।६ इति ङीप्, ततश्च "नद्यृतश्च" ५।४।१५३ इति कपि बहुगोमतीकेति रूपं स्यात्, बहुगोमत्केति चेष्यते? नैष दोषः; न हि समासान्ताः समासादुत्पद्यन्ते। किं तर्हि? अकृत एव समासे तदर्थादुत्तरपदात्। तथा हि "न कपि" ७।४।१४ इत्यत्र वक्ष्यति वृत्तिकारः-- "गोस्त्रियोरुपसर्जनस्य" १।२।४८ इत्ययमपि ह्यस्वः कपि न भवति, समासार्थे ह्रुत्तरपदे कपि कृते पश्चात् समासेन भवितव्यमिति स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवति" इति। न च बहवो गोमन्तोऽस्यां नगर्यामित्यत्र वाक्ये समासार्थमुत्तरपदं स्त्रियां वत्र्तत इति प्राक्कपैव भवितव्यम्, पश्चात् समासेन, ततः स्त्रीप्रत्ययेन प्रत्ययानुपूव्र्या बहुगोमत्केति सिद्धं भवति। यिद तह्र्रकृत एव समासे तदर्थादुत्तरपदात् समासान्ता भवन्ति, तदा "नञस्तत्पुरुषात्" (५।४।७१) इत्यत्र "नञढः परे वक्ष्यमाणा य ऋगादयस्तदन्तात् तत्पुरुषात् समासान्ता न भवन्ति" इत्येष वृत्तिग्रन्थो विरुध्यते, तेब्यस्तत्पुरुषसमासार्थेभ्यः समासान्ता न भवन्तीति वक्तव्यं स्यात्? नञः प्रकृतत्वात् स एव विज्ञायते। "तत्पुरुषात्" ५।४।७१ इत्यत्रापि तत्पुरुषशब्दस्तादथ्र्यात् तत्पुरुषार्थ उत्तरपदे वत्र्तते। तत्र पुनः ऋगादेः श्रुतत्वादृगादिरेव विज्ञायते, तदन्तात् तत्पुरुषादिति च व्यधिकरणे पञ्चम्यौ। ततोऽयमर्थः नञः परे य ऋगादयस्ते समीपभूता यस्य नञस्तस्मात् परं यत्तत्पुरुषार्थमृगादिपदं ततः समासान्तो न भवतीति। अथ वा-- अवयववचनोऽन्तशब्दः, समानाधिकरण एव पञ्चम्यौ; तादथ्र्यात्। ऋगाद्यन्तं तत्पुरुषार्थं युदत्तरपदं तदेव। तदन्तात् तत्पुरुषार्थादित्युक्तम्। ततश्चायमर्थः नञः परे य ऋगादयस्तदन्तात् तत्पुरुषार्थादुत्तरपदात् समासान्ता न भवन्तीति। तत् पुनस्तदन्ततत्पुरुषार्थम्। उत्तरपदं सामथ्र्यादृगाद्येव विज्ञायते। "बहुव्रीहौ संख्येये डजबहुगणात्" ५।४।७३ इत्यत्र तर्हि योऽयं वृत्तिग्रन्थः-- "संख्येये योऽयं बहुव्रीह#इर्वत्र्तते तस्मादबहुगणान्ताड्डच्प्रत्ययो भवति" इति, तस्य विरोधः? नास्ति विरोधः; अत्र हि बहुव्रीह्रर्थमुत्तरपदमेव तादथ्र्याद्बहुव्रीहिरित्युक्तं भवति। तदयमर्थः-- संख्येये यद्बहुव्रीह्रर्थमुत्तरपदं वत्र्तते तस्माड्ड्च्प्रत्ययो भवतीति। अनया दिशाऽप्यन्य एवञ्जातीया विरोधाः परिहत्र्तव्याः। तदेवं स्थितमेवैतत्-- तदन्तात् तद्धितविधानार्थं ह्राब्ग्रहणमिति, विप्रतिषेधात् तद्धितविधानार्थं ङ्याब्ग्रहणमिति, विप्रतिषेधात् तद्धितवलीयस्त्वमिति। यद्येवम्, "युनस्तिः" ४।१।७७ "ऊङुतः" ४।१।६६ इत्येतयोरपि त्यूङोग्र्रहणं कस्मान्न विज्ञायते, तदन्तात् तद्धितोत्पत्तिर्यथा स्यात्-- युवतितरा, ब्राहृबन्धूतरेति? "नद्याः शेषस्यान्यतरस्याम्" ६।३।४३ इत्यूङो विकल्पेन ह्यस्वत्वं न कत्र्तव्यम्; ह्राब्ग्रहणस्योपलक्षणार्थत्वात्। "स्त्रियाम्" ४।१।३ इति प्रकृत्य येषां विधानं तदुपलक्षणार्थमिह ङ्याब्ग्रहमम्। अतस्त्यूङोरपि ग्रहणमिह कृतमेव वेदितव्यम्। ङ्याब्ग्रहणं यद्युपलक्षणार्थम, अन्यतरस्यैव ग्रहणं कत्र्तव्यम्, एकेनापि हि स्त्रीप्रत्यया उपलक्ष्यन्त एव? सत्यमेतत् ; वैचित्र्यार्थं तु द्वयोग्र्रहणम्। "यावादिभ्यः कन्" ५।४।२९, "लोहितान्मणौ" ५।४।३०, "वर्णे चानित्ये" ५।४।३१ इत्यनेन तु विकल्पेन स्वार्थिकेन स्त्रीप्रत्ययस्य बाधनमिष्यते। तत्र यदा बाधा तदा लोहितशब्दात् कनि टापि कृते चेत्वे लोहितिकेति भवितव्यम्; यदा तु न बाधा तदा " वर्णादनुदात्तात्तोपधात् तो नः" ४।१।३९ इति ङीब्नकारयोः कनि च "केऽणः" ७।४।१३ इति ह्यस्वत्वे कृते लोहिनिकेति भवितव्यम्। तस्माद्वक्तव्यमेवैतत्-- लोहिताल्लिङ्गबाधनं वेति
बाल-मनोरमा
ङ्याप्प्रातिपदकात् १८१, ४।१।१

ङ्याप्प्रातिपदिकात्। चतुर्थाध्यायस्यादिमं सूत्रमिदम्। ङी च, आप् च, प्रातिपदिकं चेति समाहारद्वन्द्वः। ङी इति ङीप्()ङीष्ङीनां सामान्येन ग्रहणम्। आबिति टाप्()डाप्()चापां ग्रहणम्। प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम्। तदाह--ङ्यन्तादित्यादिना। "आ पञ्चमे"त्य वधिनियमे तु व्याख्यानमेव शरणम्। ननु प्रातिपदिकादित्येव सूत्र्यताम्। ङ्याब्ग्रहणं मास्तु। प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहण"मिति परिभाषया ऊङप्रत्ययान्तात् ()आश्रूशब्दादिव दण्डिनी अजा खट्()वेत्यादिभ्योऽपि ङ्याबन्तेभ्यः सुबादिप्रत्ययसम्भवादित्यत आह--प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापीति। स्त्रीलिङ्गबोधकङीबादिप्रत्ययविशिष्टस्येत्यर्थः। यथा स्यादिति। यथेति योग्यतायाम्। ङ्याबन्तादेव तद्धितः प्राप्तुं योग्यः। स च ङ्याब्ग्रहणे सत्येव स्यादित्यर्थः। व्यवच्छेद्यं दर्शयति-ङयाब्भ्यां प्राङ्भाभूदिति। ततश्च लोहनिका आर्यका च सिध्यति। तथाहि--लोहितशब्दस्तावत् "वर्णाना तणतिनितान्तानाम्" इति फिट्()सूत्रेणाद्युदात्तः। ततश्च ओकार उदात्तः। "अनुदात्तं पदमेकवर्ज"मिति परिशिष्टौ इकारा।ञकारावनुदात्तौ। तथाच "वर्णादनुदात्तात्तोपधात्तो नः" इत#इ मणौ विद्यमानाल्लोहितशब्दात्स्त्रीत्वविवक्षायां ङीप्, तत्संनियोगेन तकारस्य नकारादेशश्च प्राप्तः। "लोहितान्मणौ" इति स्वार्थिकः कनपि प्राप्तः। तत्र स्वार्थिकत्वादन्तरङ्ग परश्च कन् नत्वसंनियोगशिष्टं ङीपं बाधित्वा प्रवर्तेत। ततश्च ङीपो न प्रसक्तिः। कोपधत्वेन तोपधत्वाऽभावात्। ततश्च लोहितकशब्दात् "अजाद्यतः" इति टापि "प्रत्ययस्था"दित्यादिना इत्वे लोहितिकेत्येव स्यात्, न तु लोहिनिकेति। इष्यते तु रूपद्वयमपि। "ङ्याप्प्रातिपदिका"दित्यत्र ङीब्ग्रहणे तु तत्सामथ्र्यादन्तरङ्गं परमपि कनं बाधित्वा नत्वसंनियोगशिष्टे ङीपि कृते, लोहिनीशब्दात्कनि, "केऽणः" इति ह्यस्वे, लोहिनिकेति रूपम्। "वर्णादनुदात्ता"दित्यस्य वैकल्पिकतया नत्वसंनियोगशिष्टङीबभावे तु लोहिताशब्दात्कनि, ह्यस्वे, पुनः कान्ताट्टापि, प्रत्ययस्थादितीत्वे लोहितिकेत्यपि सिध्यति। तथा आर्यशब्दात्स्वार्थिके कनि, समुदायोत्तरटापैव स्त्रीत्वबोधनसम्भवादेकाज्द्विर्वचनन्यायेन कनन्तादेव टापि, कनः पूर्वं टाबभावात्, आत्स्थानिकस्य अतोऽभावादुदीचामातःस्थाने इति इत्वविकल्पस्याऽप्रवृत्तौ, प्रत्ययस्थादिति नित्यमित्वे आर्यिकेत्येव स्यात्, आर्यकेति न स्य#आत्। इष्यते तूभयमपि। "ङ्याप्प्रातिपदिका"दित्यत्र आब्ग्रहणे तु तत्सामथ्र्यात्स्वार्थिकं कनं बाधित्वा टापि, ततः कनि, "केऽण" इति ह्यस्वे, पुनः कनन्ताट्टापि , "उदीचामातः स्थाने" इतीत्वविकल्पे रूपद्वयं सिध्यति। वस्तुतस्तु ङ्यापोग्र्रहणं मास्तु, सुबन्तादेव तद्धितोत्पत्तिः। सुपः प्रागेव च ङ्यापौ प्रवर्तेते। स्वार्थद्रव्यलिङ्गसङ्ख्याकारककुत्सादिप्रयुक्तकार्याणां क्रमिकत्वात्। तथाहि-स्वार्थः=प्रवृत्तिनिमित्तं जात्यादि। तज्ज्ञानं पूर्वं भवति, विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात्। ततस्तदाश्रयज्ञानम्, धर्मित्वेन प्रधानत्वाल्लिङ्गादिभिराकाङ्क्षितत्वाच्च। ततः स्वमात्रापेक्षत्वाल्लिङ्गस्य ज्ञानम्। ततो विजातीयक्रियापेक्षकारकापेक्षया सजातीयपदार्थापेक्षसङ्ख्याज्ञानम्। ततः कारकरूपविभक्त्यर्थापेक्षा भवति। तन्निवृत्तौ कुत्सादिज्ञानमिति कुत्सित इति सूत्रभाष्ये स्थितम्। शब्दरत्ने च परिष्कृतमेतत्।

तत्त्व-बोधिनी
ङ्याप्प्रातिपदिकात् १५०, ४।१।१

ङ्याप्प्रातिपदिकात्। समाहारद्वन्द्वादेकवचनम्। "ङी"ति ङीप्ङीष्ङीनां सामान्यग्रहणम्। "आ"विति च टाप्डाप्चापाम्। आपञ्चमपरिसमाप्तेरिति। ननु "घकालतनेषु"--इति ज्ञापकात्सुबन्तात्तद्धितोत्पत्तिरित्यभ्युपगतेः किमर्थस्तद्धितेषु प्रातिपदिकाधिकार इति चेदत्राहुः--असति त्वधिकारे "अत इ"ञित्यत्राऽत इत्येतत्सुबन्तस्यैव विशेषणं स्यात्, ततश्च दक्षस्यापत्यमित्यत्रैव इञ्स्यान्न तु दक्षयोर्दक्षाणामित्यत्र। किञ्च "वद्धाच्छः" इत्यत्र "वृद्ध"-मित्येतत्सुबन्तविशेषणं मा भूत्। अन्यथा जानन्तीति ज्ञाः, "इगुपधे"तु कः। "ज्ञानामय"मित्यत्र सुबन्तस्य वृद्धत्वाच्छो न भवति, किन्त्वणेव भवति। शब्दकौस्तुभे त्वसत्यस्मिन्नधिकारे वाक्यादपि कप्रत्ययादयः स्युः। ततो विशिष्यस्य प्रातिपदिकतया [सकल]सुब्लोपे स्पष्टमेवानिष्टमिति स्थितम्। लिह्गविसिष्टस्येति। लिङ्गबोधकप्रत्ययविशिष्टस्यापीत्यर्थः। परिभाषायाः प्रयोजनः-()आश्रूः। प्रत्ययान्तत्वेनाऽप्रातिपदिकत्वेऽपि इह स्वादयः। न च "()आशुरः ()आ()ओ"ति निर्देशादेव स्वादिसिद्धिरिति वाच्यम्। निर्देशस्य शब्दपरत्वात्। "विपाराभ्यां जेः""ङेर्यः" इतिवत्। किंच कुमारीमाचष्टे कुमारयति। "णाविष्ठव"दिति टिलोपः। एवं यामिन्य इवांचरन्ति अहानि "यामिनयन्ती"त्यत्राचारे क्विबपि फलम्। ङ्याब्भ्यां प्रागिति। तेन "एनिका" "आर्यका" च सिध्यति। तथाहि "न सामिवचने" इति ज्ञापयिष्यमाणोऽत्यन्तस्वार्थिकः क एतार्याशब्दाभ्यां ङ्यापौ बाधेत, ततश्च "एतिका" "आर्यिके"त्येव रूपं स्यात्। ङ्याब्ग्रहणसामथ्र्यात्तु ङीबन्तात्कनि "एनिके"-त्यपि सिध्यति। "वर्णादनुदात्ता"दित्यस्य वैकल्पिकत्वात्। आबन्तात्कनि तु "उदीचामातः स्थाने" इतीत्त्वविकल्पादार्यका आर्यिकेति रूपद्वयं सिध्यति। वस्तुतस्तु ङ्यापोग्र्रहणं मास्तु, "घकालतनेषु"--इत्यलुग्विधानसामथ्र्यात्सुबन्तात्तद्धितोत्पत्तिरिति हि निष्कर्षः। तथा च सुपः प्रागेव ङ्यापौ प्रवर्तेते। स्वार्थद्रव्यलिङ्गसङ्ख्याकारकप्रयुक्तकार्याणां क्रमिकत्वस्वीकारादित्यवधेयम्।