पूर्वम्: ४।१।९९
अनन्तरम्: ४।१।१०१
 
सूत्रम्
हरितादिभ्योऽञः॥ ४।१।१००
काशिका-वृत्तिः
हरिताऽदिभ्यो ऽञः ४।१।१००

हरितादिर्बिदाद्यन्तर्गणः। हरितादिभ्यो ऽञन्तेभ्यो ऽपत्ये फक् प्रत्ययो भवति। इञो ऽपवादः। हरितस्य अपत्यं हारितायनः। कैन्दासायनः। ननु च गोत्रे इति वर्तते। न च गोत्रादपरो गोत्रप्रत्ययो भवति एको गोत्रे ४।१।९३ इति वचनात्? सत्यम् एतत्। इह तु गोत्राधिकारे ऽपि सामर्थ्याद् यूनि प्रत्ययो विज्ञायते। गोत्राधिकारस् तु उत्तरार्थः।
न्यासः
हरितादिभ्योऽञः। , ४।१।१००

"न च" इत्यादि चोद्यम्। "सत्यमेतत्" इत्यादि परिहार उच्यते। गोत्रे योऽञ् विहितस्तदन्तेभ्यो हरितादिभ्यः फक्। न च गोत्रप्रत्ययादपरो गोत्रप्रत्यययः सम्भवति। तत्र सामथ्र्यादगोत्राधिकारेऽपि यूनि प्रत्ययो विज्ञायते। यद्येवम्, गोत्राधिकारः किमर्थः? इत्याह-- "गोत्राधिकार उत्तरार्थः" इति॥
बाल-मनोरमा
हरितादिभ्योऽञः १०८६, ४।१।१००

"हरितादिभ्योऽञ" इत्यादि स्पष्टम्।