पूर्वम्: ४।१।१०४
अनन्तरम्: ४।१।१०६
 
सूत्रम्
गर्गादिभ्यो यञ्॥ ४।१।१०५
काशिका-वृत्तिः
गर्गाऽदिभ्यो यञ् ४।१।१०५

गोत्रे इत्येव। गर्गादिभ्यो गोत्रापत्ये यञ् प्रत्ययो भवति। गार्ग्यः। वात्स्यः। मनुशब्दो ऽत्र पठ्यते। तत्र कथम् मानवी प्रजा? गोत्रे इत्युच्यते। अपत्यसामान्ये भविष्यति। कथम् अनन्तरो रामो जामदग्न्यः, व्यासः पाराशर्यः इति? गोत्ररूपाध्यारोपेण भविष्यति। अनन्तरापत्यविवक्षायां तु ऋष्यणैव भवितव्यं जामदग्नः, पाराशरः इति। गर्ग। वत्स। वाजा ऽसे। संकृति। अज। व्याघ्रपात्। विदभृत्। प्राचीनयोग। अगस्ति। पुलस्ति। रेभ। अग्निवेश। शङ्ख। शठ। घूम। अवट। चमस। धनञ्जय। मनस। वृक्ष। विश्वावसु। जनमान। लोहित। शंसित। बभ्रु। मण्डु। मक्षु। अलिगु। शङ्कु। लिगु। गुलु। मन्तु। जिगीषु। मनु। तन्तु। मनायी। भूत। कथक। कष। तण्ड। वतण्ड। कपि। कत। कुरुकत। अनडुः। कण्व। शकल। गोकक्ष। अगस्त्य। कुण्डिन। यज्ञवल्क। उभय। जात। विरोहित। वृषगण। रहूगण। शण्डिल। वण। कचुलुक। मुद्गल। मुसल। पराशर। जतूकर्ण। मान्त्रित। संहित। अश्मरथ। शर्कराक्ष। पूतिमाष। स्थूण। अररक। पिङ्गल। कृष्ण। गोलुन्द। उलूक। तितिक्ष। भिषज्। भडित। भण्डित। दल्भ। चिकित। देवहू। इन्द्रहू। एकलू। पिप्पलू। वृदग्नि। जमदग्नि। सुलोभिन्। उकत्थ। कुटीगु।
लघु-सिद्धान्त-कौमुदी
गर्गादिभ्यो यञ् १०११, ४।१।१०५

गोत्रापत्ये। गर्गस्य गोत्रापत्यं गार्ग्यः। वात्स्यः॥
न्यासः
गर्गादिभ्यो यञ्। , ४।१।१०५

"कथं मानवी प्रजा"इति। गर्गादिषु पाठाद्यञा भवितव्यम्, ततश्च मानवीति न सिध्यतीति। लोहितादिलक्षणे हि यञन्तात्तु ष्फे विहिते मानव्यायनीति भवितव्यमित्यभिप्रायः। गोत्रमित्युच्यते, गोत्रे हि यञ् प्रत्यय उच्यते, नापत्यसामान्ये। तेन तत्रौत्सर्गिकोऽण् मानवीति भविष्यति। "कथम्" इत्यादि। यदि गोत्रमित्युच्यते, ततो यथा गर्गशब्दादनन्तरापत्ये यञ् न भवति, तथा च जमदग्निपराशरशब्दाभ्यामपि न भवितव्यम्, तत्कथमनन्तरो रामो जामदग्न्यः, व्यासः पाराशर्य इत्यत्र यञ् भवति? "गोत्ररूपाध्यारोपेण भविष्यति" इति। यदानन्तरापत्ययोरपि गोत्ररूपयो रामव्यासयोर्विवक्षितत्वाद्गोत्ररूपाध्यारोपः क्रियते, तदा यञ् भवतीत्यदोषः। असतो न युक्ता विवक्षेत्येतच्च न सम्भावनीयम्; दृश्यते ह्रसतोऽपि विवक्षा, यथा-- विन्ध्यो वर्द्धितकः, समुद्रः कुण्डिकेति। यदा तह्र्रनन्तरापत्यविवक्षा भवति, तदा केन भवितव्यमित्याह-- "अन्तरापत्यविवक्षायां तु" इत्यादि। "वाजाऽसे"इति। वाजशब्दो यञमुत्पादयति। असे, असमास इत्यर्थः। वाज्यः असमास इति किम्? सौवाजिः॥
बाल-मनोरमा
गर्गादिभ्यो यञ् १०९१, ४।१।१०५

गर्गादिभ्यो यञ्। गाग्र्यो वात्स्य इति। गर्गस्य गोत्रपत्यमिति, वत्सस्य गोत्रापत्यमिति च विग्रहः। "रामो-जामदग्न्यः", "पाराशर्यो व्यास" इत्यादौ त्वनन्तरापत्ये गोत्रात्वारोपाद्यञित्याहुः।

तत्त्व-बोधिनी
गर्गादिभ्यो यञ् ९१२, ४।१।१०५

गर्गादिभ्यो। गर्ग, वत्स, व्याघ्रपाद, पुलिस्त, बभ्रु, मण्डु, वतण्ड, कपि, कत शकल, कण्व, अगस्ति, कुण्डिन, यज्ञवल्क, पराशर, जमदग्नि--इत्यादि। कथं तर्हि "रामो जामदग्न्यः"इति। अनन्तरापत्ये ह्रयम्। सत्यम्। अनन्तरेऽपि गोत्रत्वारोपाद्बोध्यः।