पूर्वम्: ४।१।१०७
अनन्तरम्: ४।१।१०९
 
सूत्रम्
वतण्डाच्च॥ ४।१।१०८
काशिका-वृत्तिः
वतण्डाच् च ४।१।१०८

आङ्गिरसे इत्येव। वतण्डशब्दादाङ्गिरसे ऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति। वातण्ड्यः। आङ्गिरसे इति किम्? वातण्डः। किम् अर्थम् इदं यावता गर्गादिष्वयं पठ्यते? शिवादिषु अपि अयं पठ्यते। तत्र आङ्गिरसे शिवाद्यणो ऽपवादार्थं पुनर् वचनम्। अनाङ्गिरसे तु उभयत्र पाठसामर्थ्यात् प्रत्ययद्वयम् अपि भवति। वातण्ड्यः, वातण्डः।
न्यासः
वतण्डाच्च। , ४।१।१०८

किमर्थमिदम्? अनर्थकमिदमित्यर्थः। किं कारणमित्याह-- "यावता" इत्यादि। "शिवादिष्वपि" इत्यादिना प्रयोजनं दर्शयति। यदीदं नोच्येत, ततो गर्गादिपाठादाङ्गिरसे यथा यञ् भवति, तथा शिवादिषु पाठादणपि स्यात्। तस्मादाङ्गिरसे यञा शिवाद्यणो बाधनं यथा स्यादित्येवमर्थं पुनर्वचनम्। अथ गर्गादिपाठादेव सिद्धे, आङ्गिरसे नियमार्थमेतदिति कस्मान्नोक्तम्? अशक्यमेवं वक्तुम्; प्रयोजनाभावे हि नियमार्थं भवति। इह चास्ति प्रयोजनम्, तच्च दर्शितमेव॥
बाल-मनोरमा
वतण्डाच्च १०९५, ४।१।१०८

वतण्डाच्च। वतण्डस्य गर्गादौ शिवादौ च पाठाद्यञणोः प्राप्तयोराङ्गिरसे यञेवेति नियमार्थमिदम्।

तत्त्व-बोधिनी
वतण्डाच्च ९१६, ४।१।१०८

वतण्डाच्च। यञणोः प्राप्तयोराङ्गिरस यञेवेति नियमार्थं सूत्रम्।