पूर्वम्: ४।१।११२
अनन्तरम्: ४।१।११४
 
सूत्रम्
अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः॥ ४।१।११३
काशिका-वृत्तिः
अवृद्धाभ्यो नदीमानुषीभ्यस् तन्नामिकाभ्यः ४।१।११३

वृद्धिर् यस्य अचाम् आदिस् तद् वृद्धम् १।१।७२। अवृद्धाभ्यः इति शब्दधर्मः, नदीमानुषीभ्यः इति अर्थधर्मः, तेन अभेदात् प्रकृतयो निर्दिश्यन्ते। तन्नामिकाभ्यः इति सर्वनाम्ना प्रत्ययप्रकृतेः परामर्शः। अवृद्धानि यानि नदीनां मानुषीणां च नामधेयानि, तेभ्यो ऽपत्ये अण् प्रत्ययो भवति। ढको ऽपवादः। यमुनाया अपत्यं यामुनः। इरावत्याः अपत्यम् ऐरावतः। वैतस्तः। नार्मदः। मानुषीभ्यः खल्वपि शिक्षितायाः अपत्यं शैक्षितः। चिन्तितायाः अपत्य चैन्तितः। अवृद्धाभ्यः इति किम्? चन्द्रभागायाः अपत्यं चान्द्रभागेयः। वासवद्त्तेयः। नदीमानुषीभ्यः इति किम्? सौपर्णेयः। वैनतेयः। तन्नामिकाभ्यः इति किम्? शोभनायाः, शौभनेयः।
न्यासः
अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः। , ४।१।११३

शास्त्रान्तरे परिभाषितमपि वृद्धमस्ति-- अपत्यमन्तर्हितं वृद्धमिति; इह शास्त्रेऽपि परिभाषितं वृद्धमस्ति "वृद्धिर्यस्याचामादिस्तद्()वृद्धम्" १।१।७२ इति, अतो वृद्धप्रतिषेधे कस्यचित् सन्देहः स्यात्-- कस्य वृद्धस्यायां प्रतिषेधः, किंस्वित् यदिह परिभाषितं तस्यायं प्रतिषेधः? उत यच्छास्त्रान्तरेण परिभाषितं तस्येति? अतस्तन्निरासाय "वृद्धिर्यस्य" ९१।१।७३) इत्यादिनेह शास्त्रे यत् परिभाषितं तस्यायं प्रतिषेध इति दर्शयति। कुतः पुनरेतदवसितम्-- इह वृद्धं यत् परिभाषितं तस्यायं प्रतिषेध इति दर्शयति। कुतः पुनरेतदवसितम्-- इह वृद्धं यत् परिभाषितं तस्यायं प्रतिषेध इति? नदीमानुषीनामधेयस्य गोत्रप्रत्ययान्तस्यासम्भवात्। नदीग्रहणे त्विह लौकिक्येव नदी गृह्रते, न तु पारिभाषिकी। कुत एतत्? लौकिकार्थवृत्तिना मानुषीशब्देन साहचर्यात्। अथ स्वरूपग्रहणमेव नदीमानुषीशब्दयोः कस्मान्न भवति? वृद्धप्रतिषेधात्। स्वरूपग्रहणे हि वृद्धप्रतिषेधोऽनर्थकः स्यात्; प्रसङ्गाभावात्। बहुवचननिर्देशाच्च न स्वरूपग्रहणम्। स्वरूपग्रहणे ही नदीमानुषीशब्दयोर्द्वित्वाद्()द्विचनेनैव निर्देशं कुर्यात्। "अवृद्धाभ्यिति शब्दधर्मः स्यात्। यदि तर्ह्रर्थधर्मोऽयम्, कथं नदीमानुषीभ्य इत्यनेन प्रकृतयो निर्दिश्यन्ते, अर्थधर्म एव ह्रेवं निर्दिष्टो भवति, न प्रकृतयः? इत्यत आह-- "तेन" इत्यादि। तेनार्थभेदोपचारात्। नदीमानुष्यभिधायिन्यः प्रकृतयो निर्दिश्यन्ते। "प्रत्ययप्रकृतिः" इति। प्रत्ययस्य प्रकृतिरिति षष्ठीसमासः। "ढकोऽपवादः" इति। अवृद्धादीनां नदीनां मनुषीणां नामधेयानां स्त्रीप्रत्ययान्तत्वात्। "वैतस्तः, नार्मदः" इति। वितस्तानर्मदाशब्दाभ्यामण्। "शैक्षितः" इति। शिक्षिताशब्दात्। "सौपर्णेयः, वैनतेयः" इति। सुपर्णाविनताशब्दौ पक्षिणीनामधेये, न नदीमानुष्यौ। "शौभनेय-" इति। शोभनाशब्दो वत्र्तते नदीमानुष्यर्थः, न तु संज्ञात्वेन, किं तर्हि? विशेषणत्वेन॥
बाल-मनोरमा
अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ११००, ४।१।११३

अवृद्धाभ्यो नदी। नदीमानुषीशब्दापेक्षमवृद्धाभ्य इति स्त्रीत्वम्। वस्तुतस्तु "अवृद्धेभ्यो नदीमानुषीनामभ्य" इत्येव सूत्रयितुमुचितमिति व्याचष्ट--अवृद्धेभ्य इत्यादि। ननु "तस्यापत्य"मित्येकसिद्धे किमर्थमिदमित्यत आह--ढकोऽपवाद इति। चिन्तिता नाम काचिन्मानुषी। वासवदत्तेय इति। वासवदत्ता नाम काचिन्मनुष्यस्त्री। तस्या अपत्यमिति विग्रहः। वृद्धसंज्ञकत्वादणभावे ढगिति भावः। वैनतेय इति। विनताया अपत्यमिति विग्रहः। विनता नाम गरुडमाता, सा न मानुषी, नापि नदीति भावः। शौभनेय इति। शोभनाशब्दोऽयं न नदीमानुषीनामेति भावः।

तत्त्व-बोधिनी
नदीमानुषीब्यस्तन्नामिकाभ्यः ९२०, ४।१।११३

अवृद्धाभ्यो। "अवृद्धेभ्यो नदीमानुषीनामभ्यः"इत्येव सूत्रयितुं युक्तमित्याशयेन व्याचष्टे--अवृद्धेभ्य इत्यादिना। आत्रेय इति। परत्वादयमृष्यणं बाधत ऐति भावः।