पूर्वम्: ४।१।११७
अनन्तरम्: ४।१।११९
 
सूत्रम्
पीलाया वा॥ ४।१।११८
काशिका-वृत्तिः
पीलाया वा ४।१।११८

तन्नामिकाणो बाधके द्व्यच इति ढकि प्राप्ते अण् प्रत्ययः पक्षे विधीयते। पीलायाः अपत्ये वा अण् प्रत्ययो भवति। पीलायाः अपत्यं पैलः, पैलेयः।
न्यासः
पीलाया वा। , ४।१।११८

बाल-मनोरमा
पीलाया वा ११०५, ४।१।११८

पीलाया वा। "अपत्येऽ"णिति शेषः। पीला नाम काचिन्मानुषी। तन्नामिकाणमिति। वाग्रहणाऽभावे त्वनेनाऽणा नित्यमेव ढको बाधः स्यात्। नच महाविभाषयाऽणः पाक्षिकत्वात्तदभावे ढक्भवत्येवेति वाच्यं, महाविभाषया अपवादे निषिद्धे उत्सर्गो न प्रवर्तत इति ज्ञापनात्।

तत्त्व-बोधिनी
पीलाया वा ९२५, ४।१।११८

पक्षे इञिति। पूर्वसूत्राद्वाग्रहणानुवृत्तेरिति भावः।