पूर्वम्: ४।१।११
अनन्तरम्: ४।१।१३
 
सूत्रम्
अनो बहुव्रीहेः॥ ४।१।१२
काशिका-वृत्तिः
अनो बहुव्रीहेः ४।१।१२

अन्नन्ताद् बहुव्रीहेः स्त्रियां ङीप् प्रत्ययो न भवति। अनुपधालोपी बहुव्रीहिरिह उदाहरणम्। उपधालोपिनो हि विकल्पं वक्ष्यति। सुपर्वा, सुपर्वाणौ, सुपर्वाणः। सुशर्मा, सुशर्माणौ, सुशर्माणः। बहुव्रीहेः इति किम्? अतिक्रान्ता राजानम् अतिराजी।
न्यासः
अनो बहुव्रीहिः। , ४।१।१२

"अनुपधालोपो बहुव्रीहिरिहोदाहरणम्" इति। कथं पुनरेतत्लभ्यते, यावता नात्र विशेष उपात इत्याह-- "उपधालोपिनो हि" इत्यादि। यस्मात् "अन उपधालोपिनोऽन्यतरस्याम्" ४।१।२८ इत्युपधालोपिनो विकल्पं वक्ष्यति, तस्मात् पारिशेष्यादनुपधालोपो बहुव्रीहिरस्यावकाश इति। तस्य चोदाहरणम्-- "सुपर्वा" इत्यादि। शोभनमस्याः पर्वं शोभनं चर्मास्या इति बहुव्रीहिः। अयञ्च "न संयोगाद्वमन्तात्" इत्यल्लोपो न भवति। "अतिराजी" इति। "अत्यादयः क्रान्ताद्यर्थे द्वितीयया" (वा।९१) इति "कुगतिप्रादयः" २।२।१८ इति तत्पुरुषोऽयम्॥
बाल-मनोरमा
अनो बहुव्रीहेः ४५४, ४।१।१२

अनो बहुव्रीहेः। "अन" इति "बहुव्रीहे"रित्यस्य विशेषणम्, तदन्तविधिः। नेति ङीविति च पूर्ववदनुवर्तते। तदाह--अन्नन्तादिति। बहुयज्वेति। बहवो यज्वानो यस्या इति विग्रहः। नान्तलक्षणङीप प्रतिशेधे राजवद्रूपाणि। "न संयोगा"दिति निषेधान्नायमुपधालोपी। अतोऽत्र "अन उपधालोपिनः" इति विकल्पो न प्रवर्तितुमर्हति।

तत्त्व-बोधिनी
अनोबहुव्रीहेः ४०९, ४।१।१२

अनो बहुव्रीहेः। ननु "राजयुध्वे"त्यादिसिद्धयेऽवश्यं वक्तव्येन "वनो न हशः"इत्यनेनैबेष्टलसिद्धेः किमनेन सूत्रेण()। मैवम्। अन्नन्ताद्बहुव्रीहेः "डाबुभाभ्या"मिति ङाब्विधानार्थमेतत्सूत्रस्याऽवश्यारब्धव्यत्वात्। तथा चाऽनेन ङीपि निषिद्धे तत्संनियोगेन प्राप्तो "वनो र चे"ति यो रेफः सोऽपि दुर्लभ एवेति "वनो न हशः"इति वार्तिकमबहुव्रीह्रर्थमिति फलितम्। बहुयज्वानाविति। "न संयोगो"दिति निषेधान्नायमुपधालोपि। तेनाऽत्र "अन उपधालोपिन"इति वक्ष्यमाणविकल्पो न प्रवर्तते।