पूर्वम्: ४।१।१२०
अनन्तरम्: ४।१।१२२
 
सूत्रम्
द्व्यचः॥ ४।१।१२१
काशिका-वृत्तिः
द्व्यचः ४।१।१२१

स्त्रीभ्यः इत्येव। द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् प्रत्ययो भवति। तन्नामिकाणो ऽपवादः। दत्ताया अपत्यं दात्तेयः। गौपेयः। द्व्यचः इति किम्? यामुनः।
न्यासः
द्व्यचः। , ४।१।१२१

"तन्नामिकाणोऽपवादः"इति। ये द्व्यचः स्त्रीप्रत्ययान्ता नदीमानुषीनामधेयभूतास्तेभ्यो विशेषविहितत्वात् तन्नामिकाण् भवति। ततस्तद्बाधनार्थं ढग्विधीयते॥
बाल-मनोरमा
द्व्यचः ११०८, ४।१।१२१

द्व्यचः। ननु "स्त्रीभ्यो ढ"गित्येव सिद्धे किमर्थमिदमित्यत आह--तन्नामिकेति। दात्तेय इति। दत्ता नाम काचिन्मानुषी, तस्या अपत्यमिति विग्रहः। ननु पृथाया अपत्यं पार्थ इति कथम्, तन्नामिकाऽणं बाधित्वा "द्व्यचः" इति ढक्प्रसङ्गादित्यत आह--पार्थ इत्यत्रेति। शिवादित्वादपत्य एवाऽणित्यन्ये।