पूर्वम्: ४।१।१२४
अनन्तरम्: ४।१।१२६
 
सूत्रम्
भ्रुवो वुक् च॥ ४।१।१२५
काशिका-वृत्तिः
भ्रवो वुक् च ४।१।१२५

भ्रूशब्दादप्त्ये ढक् प्रत्ययो भवति, तत्सन्नियोगेन च वुगागमः। भ्रौवेयः।
न्यासः
भ्रुवो वुक्च। , ४।१।१२५

बाल-मनोरमा
भ्रुवो वुक् च १११२, ४।१।१२५

भ्रुवो वुक् च। चाड्ढगिति। भ्रूशब्दादपत्ये ढक् स्यात्प्रकृतेर्वुगागमश्च। वुकि ककार इत्। उकार उच्चारणार्थछः। कित्त्वादन्तावयवः। भ्रौवेय इति। भ्रूर्नाम काचित्, तस्या अपत्यमिति विग्रहः। ढकि एयादेसे प्रकृतेर्वुकि आदिवृद्धिः। वुगभावे तु ऊकारस्य वृद्धौ आवादेसे "भ्रावेय" इति स्यात्।