पूर्वम्: ४।१।१२७
अनन्तरम्: ४।१।१२९
 
सूत्रम्
चटकाया ऐरक्॥ ४।१।१२८
काशिका-वृत्तिः
चटकाया ऐरक् ४।१।१२८

चटकायाः अपत्ये ऐरक् प्रत्ययो भवति। चाटकैरः। चटकाच् च इति वक्तव्यम्। चटकस्य अपत्यं चाटकैरः। स्त्रियाम् अपत्ये लुग् वक्तव्यः। चटकाया अपत्यं स्त्री चटका।
न्यासः
चटकाया ऐरक्। , ४।१।१२८

"चटकाया अपत्यं स्त्री चटका" इति। "लुक् तद्धितलुकि" १।२।४९ इति लुकि कृते पुनष्टाप् कत्र्तव्यः। पुंल्लिङ्गादपि स्त्रियामिष्यत एव लुक्। एवम् "चटकादैरक्" इत्येतत् सूत्रमासीत्, इदानीं प्रमादाच्च "चटकायाः" इति पाठः॥
बाल-मनोरमा
चटकाया ऐरक् १११८, ४।१।१२८

चटकायाः। चटकाशब्दादपत्ये ऐरक्()प्रत्ययः स्यादित्यर्थः। ननु स्त्रीलिङ्गनिर्देशात्पुंलिङ्गान्न स्यादित्यत आह--चटकादिति। सूत्रे "चटकाया" इत्यपनीय "चटका"दिति वाच्यमित्यर्थः। तर्हि स्त्रीलिङ्गान्न स्यादत आह--लिङ्गेति।

स्त्रिया अपीति। स्त्रीलिङ्गादप्यैरगित्यर्थः। तयोरिति। चटकस्य चटकायटाश्चेत्यर्थः। ननु चटकेति कथं, जातित्वान्ङीष्प्रसङ्गादित्यत आह--अजादित्वादिति।