पूर्वम्: ४।१।१३२
अनन्तरम्: ४।१।१३४
 
सूत्रम्
ढकि लोपः॥ ४।१।१३३
काशिका-वृत्तिः
ठकि लोपः ४।१।१३३

पितृष्वसुः अपत्यप्रत्यये ढकि परतो लोपो भवति। पैतृष्वसेयः। कथं पुनरिह ढक् प्रत्ययः? एतदेव ज्ञापकं ढको भावस्य।
न्यासः
ढकि लोपः। , ४।१।१३३

"कथं पुनः" इत्यादि। ढग्विधौ टाबादिस्त्रीप्रत्ययान्तग्रहणात् पितृष्वसृशब्दस्य चास्त्रीप्रत्ययान्तत्वात्। ततो ढको भावमसम्भावयतः प्रश्नः। "एतदेव" इत्यादि। यदेतत् पितृष्वसृशब्दं प्रति ढको निमित्तत्वेनाश्रयणम्, एतदेव पितृष्वसृशब्दत् तस्य भावं ज्ञपायति। न ह्रसतो निमित्तभाव उपपद्यते॥
बाल-मनोरमा
ढकि लोपः ११२३, ४।१।१३३

ढकि लोपः। "पितृष्वसु"रित्यनुवर्तते। अलोऽन्त्यपरिबाषयाऽन्त्यस्य लोपः। तदाह--पितृष्वसुरन्त्यस्य लोप इति। ननु पितृष्लसुरपत्ये ढक एक दुर्लभत्वात्कथं तस्मिन्परे लोपविधिरित्यत आह--अत #एवेति। शुब्राआदित्वाड्ढगित्यन्ये। पैतृष्वसेय इति। ढकि अन्त्यस्य ऋकारस्य लोपे आदिवृद्धिः। "मातृपितृभ्यां स्वसे"ति षत्वम्।