पूर्वम्: ४।१।१३८
अनन्तरम्: ४।१।१४०
 
सूत्रम्
कुलात् खः॥ ४।१।१३९
काशिका-वृत्तिः
कुलात् खः ४।१।१३९

उत्तरसूत्रे पूर्वप्रतिषेधादिह तदन्तः केवलश्च दृश्यते। कुलशब्दान्तात् प्रातिपदिकात् केवलाच् च अपत्ये खः प्रत्ययो भवति। आढ्यकुलीनः। श्रोत्रियकुलीनः। कुलीनः।
न्यासः
कुलात्खः। , ४।१।१३९

"उत्तरसूत्रे" इत्यादि। उत्तरसूत्रे हि पूर्वपदप्रतिषेधाद्यस्यां परिभाषायां प्रातिपदिकश्रुतिरस्ति, साऽत्र नोपतिष्ठत इत्येषोऽर्थो ज्ञायते। यदि ह्रुपतिष्ठेत, तदा ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेव (व्या।प।८९) स पूर्वपदान्न भविष्यतीत्यपूर्वपदादिति प्रतिषेधोऽनर्थकः स्यात्। सामान्यापेक्षञ्च ज्ञापकम्; तेन "व्यपदेशिवद्भावोऽप्रातिपदिकेन" (शाक।प।६५), "ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नेष्यते" (व्या।प।८९) इत्येतयोरपीह परिभाषयोरुपस्थानं न भवति। ततश्च कुलशब्दान्तं प्रातिपदिकं कुलशब्दो गृह्रते॥
बाल-मनोरमा
कुलात्खः ११४६, ४।१।१३९

कुलात्खः। "अपत्ये" इति शेषः। कुलीन इति। खस्य ईनादेशः। ननु "समासप्रत्ययविधौ" इति तदन्तविधिनिषेधादाढ()कुलीन इति कथमित्यत आह--तदन्तादपीति। आढ()कुलीन इति। आढ()कुलशब्दात्कर्मधारयात्खः। कुले आध्यत्वप्रतीतिरत्र फलम्। कुलीनशब्देन कर्मधारये तु तदप्रतीतिरिति भेदः।

तत्त्व-बोधिनी
कुलात्खः ९५२, ४।१।१३९

कुलीन इथि। लिङ्गादिति। अन्यथा "ग्रहणवते"ति तदन्तविधिप्रतिषेधादपूर्वपदग्रहणं व्यर्थं स्यादिति भावः। आढ()कुलीन इति। आढ()श्चासौ कुलीनश्चेति कुलीनविशेषणत्वे कुलस्याढ()त्वं न प्रतीयते। किं च ईकार उदात्त इति स्वरेऽपि विशेषोऽस्तीति भावः।