पूर्वम्: ४।१।१३
अनन्तरम्: ४।१।१५
 
सूत्रम्
अनुपसर्जनात्॥ ४।१।१४
काशिका-वृत्तिः
अनुपसर्जनात् ४।१।१४

अधिकारो ऽयम्। उत्तरसूत्रेषु उपसर्जने प्रतिषेधं करोति। यदिति ऊर्ध्वम् अनुक्रमिष्यामो ऽनुपसर्जनातित्येवं तद् वेदितव्यम्। टिड्ढाणञिति ङीप्। कुरुचरी। मद्रचरी। अनुपसर्जनातिति किम्? बहुकुरुचरा, बहुमद्रचरा मधुरा। जातेः इति ङीष्। कुक्कुटीइ। शूकरी। अनुपसर्जनातिति किम्? बहुकुक्कुटा, बहुशूकरा मधुरा। कथं पुनरुपसर्जनात् प्रत्ययप्रस्ङ्गः? तदन्तविधिना। ज्ञापितं च एतदस्त्यत्र प्रकरणे तदन्तविधिः इति। तथा च प्रधानेन तदनतविधिर् भवति। कुम्भकारी। नगरकारी। न च अणिति कृद्ग्रहणं, तद्धितो ऽप्यणस्ति।
न्यासः
अनुपसर्जनात्। , ४।१।१४

इहानुपसर्जनादिति विधिर्वानेनोत्तरत्र क्रियते-- उपसर्जनादन्यस्मादनुपसर्जनान्ङीबादयो भवन्तीति? प्रतिषेधो वा-- उपसर्जनान्न भवतीति? तत्र यद्याद्यः पक्ष आश्रीयेत "कुक्कुटीपादः" इति न सिध्येत्; पूर्वपदस्योपसर्जनत्वात्। उपसर्जनत्वं त्वस्य "षष्ठी" २।२।८ इति समासशास्त्रे प्रथमानिर्देशात्। कुक्कुटीत्येतदपि न सिध्येत्; प्रधानं ह्रनुपसर्जनम्, न चात्र जातिः प्रधानम्, अप्रधानापेक्षया हि प्रधानं भवति, न चात्र किञ्चिदप्रधानमस्ति यदपेक्षया जातेः प्राधान्यं स्यात्। तस्माद्विधिपक्षोऽयं दुष्ट इति मत्वा प्रतिषेधपक्षमाश्रित्याह -- "उत्तरसूत्रेषूपसर्जनप्रतिषेधं करोति" इति। "कुरुचरी" इति। कुरुषु चरतीति "चरेष्टः" ३।२।१६ इति टः। "उपपदमतिङ" २।२।१९ इति तत्पुरुषसमास इत्यस्योत्तरपदप्रधानत्वादप्रथमानिर्दिष्टत्वाच्च समासशास्त्रे चरशब्द इहोपसर्जनं न भवतीति। "बहुकुरुचरा" इति। बहवः कुरुचरा अस्यामिति। अस्यान्यपदार्थप्रधानत्वात् प्रथमानिर्दिष्टत्वाच्च शास्त्रे समासपदानामत्रावयव उपसर्जनम्। "{जातेः इति ङीष्--काशिका"} जातेर्ङीष्" इति। "जातेरस्त्रीविषयादयोपधात्" ४।१।६३ इत्यनेन। "बहुकुक्कुटा" इति। बहुव्रीहिः। अत्र#आपि पूर्ववज्जातिशब्द उपसर्जनम्। ननु च बहुकुरुचरेत्यत्र समुदायः स्त्रियां वत्र्तते, नावयवः न च समुदायष्टित्, किं तर्हि? अवयवः तत्र टित उच्यमान ईकारः केन पुनः समुदायादटितः स्यात्? बहुकुक्कुटेत्यत्रापि समुदायः स्त्रियां वत्र्तते, नावयवः। न च समुदायो जातिवचनः, किं तर्हि ; अवयवः। तत्र जातिवाचिन उच्यमानः प्रत्ययः केनाजातिवाचिनः समुदायात् स्यात्, यत्प्रतिषेधार्थमिदमुच्यत इति मन्यमान आह-- "कथम्" इत्यादि। "तदन्तविधिना" इति। परिहारः। तत्रैतत् स्यात्-- "ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते" (व्या।प।८९) इति, अत आह-- "ज्ञापितञ्च" इत्यादि। "शूद्रा चामहत्पूर्वा जातिः" ग।सू।४०।४।१।४) इत्यत्र महत्पूर्वेत्यनेनास्मिन् प्रकरणे तदन्तविधिरिति ज्ञापितमेतत्। "तथा च" इति। एवं सतीत्यर्थः यस्मात् पूर्वं तदन्तविधिरिह प्रकरणेऽस्तीति ज्ञापितमेतत्; अनेन च सूत्रेणोपसर्जनेन तदन्तविधिः प्रतिषिध्यते, नानुपसर्जनेन, एवञ्च सति प्रधानेन तदन्तविधिर्भवत्येव। तेन कुम्भकारी, नगरकारीति सिद्धं भवति। तत्र हि कारशब्दोऽणन्तः प्रधानम्। तदन्तात् समासात् "टिड्()ढाणञ्" ४।१।१५ इतीकारः स्यादेव। ननु चाणित्यत्राणिति कृद्()ग्रहमम्, ततश्च "कृद्()ग्रहमे गतिकारकपूर्वपदस्यापि ग्रहणम्" (व्या।प।१२६) इत्यनया परिभाषयैव कुम्भकारशब्दात् कारान्तादीकारः सिध्यति, ततो नेदं तदन्तविधिज्ञापनस्य प्रयोजनमित्यत आह-- "न च" इत्यादि। कथं न? इत्याह-- "तद्धितोऽप्यणस्ति" इति। तस्याप्यत्र ग्रहणम्, अन्यथा ह्रौपगवीति न सिध्येत्। तस्मान्नेदं कृद्ग्रहणम्, किं तर्हि? कृदकृद्ग्रहणम्। तत्र यदि तदन्तविधिर्न ज्ञाप्यते, तदाणिति प्रत्ययग्रहणम्, "प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य च ग्रहमं भवति" (पु।प।वृ।४४) इतीहैव स्यात्-- औपगवीति, इह तु न स्यात्-- कुम्भकारीति, अत्र हि धातोरण् विहितः, तदन्तश्च स्त्रियां न वत्र्तते; तावन्मात्रस्य कारशब्दस्य प्रयोगाभावात्। या वा स्त्रीयां वत्र्तते सोपपदम्, न तस्मात् प्रत्ययो विहितः। तदन्तविधौ तु ज्ञापिते कारशब्दान्तादपीकारः सिध्यति॥
तत्त्व-बोधिनी
अनुपसर्जनात् ४१६, ४।१।१४

अधिकारोऽयमिति। स्वरितत्वप्रतिज्ञानादिति भावः। अभिव्याप्येति। अतएव "बहुयुवा शाले"त्यत्र "यूनस्ति"रिति न पर्वर्तत इति प्राञ्चः। न चाऽत्र नलोपस्याऽसिद्धत्वान्नन्तलक्षणो ङीप्स्यादिति शङ्क्यं, "नलोपः सुप्स्वरे"ति नियमेन ङीपं प्रत्यसिद्धत्वाऽभावादित्येके। अन्ये तु--- "उत्तरपदत्वे चापदादिविधौ प्रतिषेधः" इति प्रत्ययलक्षणनिषेधेनाऽन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाऽभावान्नलोपस्याऽप्रसत्तया ङीप् स्यादेव। परन्तु "अनो बहुव्रीहेः"इति निषेधान्ङीबभावे डान्बिधान्ङीबभावे भवत इत्याहुः। अयमेवेति। अनुपसर्जनाधिकार एवेत्यर्थः।

तत्त्व-बोधिनी
डिड्ढाणञ्द्वयसज्दन्घञ्मात्रच्तयप्ठक्ठञ्कञ्क्करपः ४१७, ४।१।१४

टिड्ढाण्ञ्। टिड्ढादयः प्रत्ययास्तैः तदन्तं गृह्रते, तच्चाऽनुवर्तमानस्य प्रातिपदिकस्य विशेषणम्। "अजाद्यतः"इतिसूत्रादनुवर्तमानमप्यत इत्येतत् प्रातिपदिकविशेषणम्। अतएव तदन्तविधिरतो व्याचष्टे "टुदन्तं प्रातिपदिक"मिति व्याख्यानं सङ्गच्छत एव। "स्तनन्धयी"त्यत्र तु प्रत्ययस्य टित्त्वाभावेऽपि धातोष्टित्त्वस्याऽचरितार्थत्वात्समुदायात्स्यादेव ङीबिति वक्ष्यति। अन्ये तु--ढादय एव प्रत्ययाःस टिदिति तु प्रत्ययाऽप्रत्ययसाधारणं, तेन टिद्यात्प्रतिपदिकं ढाद्यन्तं च यत्प्रातिपदिकमित्यर्थः। टित्त्वं तु प्रातिपदिकस्य क्वचित्स्वतः, क्वचित्प्रतिकृतं भवति, अवयवधर्मस्य समुदाये उपचारात्। तत्र आद्यस्योदाहरणम्---कुरुचरीति। द्वितीयस्योदहारणं--नदडिति। पचादिषुटितोऽस्य पाठात्स्वत एव टित्त्वम्। तृतीयन्तु "धेटष्टित्त्वात्स्तनन्धयी"ति कृदन्ते उदाहरिष्यतीत्याहुः। कुरुचरीति। कुरुषु चरतीत्यधिकरणोपपदे "चरेष्टः"इति कर्तरि टः। उपसर्जनत्वान्नेहेति। बहवः कुरुचरा सा यास्यां सा बहुकुरुचरेति बहुब्राईहिरिन्यपदार्थप्रधानास्तथा च टुजन्तस्योपसर्जनत्वान्ङीन्बेत्यर्थः। वक्ष्यमाणेति। ब्राऊञो लृटि "लृटः सद्वे"ति शनच्। "ब्राउवो वचि"रिति वच्यादेशः। "वच परिभाषणे"इत्यस्मात्कर्मणि वा लृटः शानच्। "स्यतासी"इति स्यः। कुत्वषत्वे। "आने मुक्िति मुक्। टित्त्वादुगित्त्वाच्चेति। स्थानिवद्भावेनेत्यर्थः। न चाऽल्विधित्वात्कथमिह स्थानिवद्भाव इति शङ्क्यम्, "न ल्यपि"इति ज्ञापकादनुबन्धकार्येषु "अनल्विधौ"इति निषेधस्याऽप्रवृत्तेः। अतएव "रमया"मित्यादौ परत्वान्ङेरामि कृते स्थानिवद्भावेनाऽ‌ऽमो ङित्वात् "याडापः"इति याडागमः सिध्यति। ज्ञापनान्न भवतीति। लिङादेशपरस्मैपदानां स्थानिवद्भावेनैव ङित्त्वालाभात्तदागमस्य यासुटो ङित्त्वं व्यर्थं सत् "लाश्रयानुबन्धकार्यमादेशानां ने"ति सामान्यतो ज्ञापयतीति भावः। "पिच्च ङिन्ने"त्यदादिगणे वक्ष्यमाणत्वात्तिबादिष्वौपदेशिकेन पित्त्वेनातिदेशिकं ङित्त्वं बाध्यत इति यासुटो ङित्त्वास्य वैयथ्र्याऽभावान्न तज्ज्ञापयतीति शङ्कमानं प्रत्याह--श्नः शानच शित्त्वेनेत्यादि। सौपर्णेयीति। "कद्रूश्च वै सुपर्णी"ति श्रुतिः। सुपर्णीशब्दादपत्येऽर्थे "समाया यः" "ढश्छन्दसी"ति विहितस्तयोरेव ढयोग्र्रहणेन भवितव्यं न तु ढकः। सत्यम्। शिलाया ढस्य स्वभावान्नपुंसक एव पर्वृत्तेः स्त्रियामसंभवात्। सभाया ढस्य च "सभेयी"ति स्त्रियां छन्दसि प्रयोगाऽदर्शमनादन्यस्य हि निरनुन्धस्याऽसम्भवादगत्या सानुबन्धको गृह्रते। ऐन्द्रीति। इन्द्रो देवता अस्याः। "साऽस्य देवते"त्यण्।इन्द्रस्येयमिति वा विग्रहः। "तस्येद"मित्यण्। अत्र व्याचक्षते---"कृद्धहणे गतिकारकपूर्वस्ये"त्यस्य प्रवृत्त्यभाषेऽपि अण्णन्तस्य प्रातिपदिकविशेषणातदन्तान्तमपि गृह्रत इति कुम्भकारशब्दान्ङीप्स्यादेव। अस्तु वा कारशब्दादेव ङीप्, तथापि "कुम्भकारी"ति रूपं सिध्यत्येव। न च कारशब्दादेव ङीप्, तथापि "कुम्भकारी"ति रूपं सिध्यत्येव। न च कारशब्दान्ङीपि तदन्तात् "स्त्रीभ्यो ढक्िति ढक्प्रत्यये कौम्भकारेयो न सिध्येदिति वाच्यम्, अनुपसर्जनस्त्रीप्रत्यये तदादिनियमाऽभावात्तत्सिद्धेः। नापि नियमाऽभावे "कारी"शब्दात्कदाचिड्ढकि "कुम्भकारेय"इति रूपं स्यादिति शङ्क्यम्। "समर्थः पदविधि "रिति वक्ष्यमाणत्वेनाऽसमर्थधात्तद्धितानुत्पत्तेरिति मनोरमायान्तु इह सूत्रेऽनेकं वाक्यं, तत्राऽनुपसर्जनमण्, तस्य योऽकारस्तदन्तादिति व्याख्यानान्नेह--आपिशलमधीते आपिशला ब्राआहृणीति। अत्र हि प्रोक्तर्थे योऽण्श्रीयमाणः, स उपसर्जनम्। यस्तु प्रधानोऽध्येत्रण् "प्रोक्ताल्लुक्िति स लुप्तः। वर्णप्राधान्यान्न प्रत्ययलक्षणमतष्टाबेव भवतीति स्थितम्। नन्वेवमापिशलेति रूपसिद्द्यर्थमनुपसर्जनग्रहणस्यावश्यकत्वेन सामर्थ्योपक्षयात्कथमेतस्य तदन्तविधिज्ञापकेति चेत्; अत्राहुः--स्वरितत्वप्रतिज्ञयी अधिकारोऽयमित्यधिकारत्वाश्रयणादनुपसर्जनग्रहणं व्यर्थम्। अञन्तस्याद्युदात्तत्वेन ङीम्ङीनो स्वरे विशेषाऽभावात्। मैवम्। उत्सस्यापत्यं स्त्री ओत्सीत्यत्राऽञन्तलक्षणं ङीपं बाधित्वा परत्वाज्जातिलक्षणे ङीषि प्राप्ते तद्बाधनार्थं तस्यावश्यकत्वात्। न चैवं "शाङ्र्गरवाद्यञः"इति ङीनास सिद्धमिदं रूपमित्यञ्ग्रहमिह न कर्तव्यमिति वाच्यं, तत्र "जाते"रित्यनुवृत्तेः। अन्यथा शाङ्र्गरवस्य स्त्री शाङ्र्गरवी, औत्सस्य स्त्री औत्सीत्यादौ पुंयोगेऽपि परत्वान्ङीन्स्यान्न तु ङीष्। इष्यते तु पुंयोगे ङीषेव। तस्माद्भवाद्यर्थस्य जातित्वेनाऽपरिभाषणाद्भावाद्यर्थे ङीबर्थमिहाप्यञ्ग्रहणमावश्यकमेवेति दिक्। ऊरुद्वयसीत्यादि। ऊरू प्रमाणमस्याः सा। "प्रमाणे द्वयसज्दन्घञ्मात्रचः"। यद्यत्र "न लोके"ति सूत्रे तृन्नितिवद्द्वयसजिति मात्रचश्चकारेण प्रत्याहारो गृह्रते, तदा दन्घञ्माक्पज्ग्रहणमिहाऽकर्तुं शक्यम्। पञ्चतयीति। पञ्चावयवा अस्याः। "सङ्ख्याया अवयवे तयप्"। आक्षिकीति। "तेन दीव्यती"ति ठक्। लावणिकीति। लवणं पण्यमस्याः। "लवणाट्ठञ्"। ठक्ठञोर्मेदेनोपादानं ठन्निवृत्त्यर्थम्, तेनेह न,--दण्डोऽस्त्यस्याः सा दण्डिका। "अत इनी"ति ठन्। अतएव ञिठन्तेऽपि न ङीप्। काशिषु भवा काशिका। "काश्यादिभ्यष्ठञ्ञिठौ"। यादृशीति। "त्यदादिषु दृश"इति कञ्। "आ सर्वनाम्नः"इत्याकारः। इत्वारीति। एति तच्छीला। "इण्नशजिसर्तिभ्यः क्वरप्"। "ह्यस्वस्य पिति कृति तुक्"। क्वरपोऽन्यतरानुबन्धोपादानं स्पष्टार्थम्। एकेनैव वरचो व्यावृत्तिसिद्धेः। "विन्यस्तमङ्गलमहौषधिरी()आरायाः"इति भारविः। तत्र "स्थेशमासे"ति वरच्। "ई()आरी"ति तु त्रेधा। पुंयोगलक्षणे ङीष्यन्तोदात्त मेकम्, "ईच्चोपधायाः"इत्यनुवृत्तौ "अश्नोतेराशुकर्मणि वर"ङित्यौणादिके वरटि टित्त्वान्ङीपि मध्योदात्तमपरम्, ईशेः क्वनपि वनिपि वा ङीब्राआयोराद्युदात्तदमन्यत्। ताच्छीलिकेति। अयं भावः---"शीलं""छात्रादिभ्यो णः"इति विहितो यो णस्तस्मिन्नण्कार्यं भवति, "कार्मस्ताच्छील्ये"इति ज्ञापकात्। तत्र हि "अ"न्नित्यणि विहितं प्रकृतिभावं बाधितुं टिलोपो निपात्यते, यदि तु णप्रत्यये अण्कार्यं न स्यात्तर्हि किं तेन()। ताच्छीलिके एवाऽण्कार्यज्ञापनान्नेह,---दण्डः प्रहरणमस्यां क्रीडायां दाण्डा। "तदस्यां प्रहरण"मिति णः। "छत्रादिभ्योऽ"णित्येव सूत्रमस्तु किमनया कुसृष्ट()एति तु बहवः। चौरीति। चुरा शीलमस्याः।

नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसख्यानम्। नञ्स्नञ्। वृत्तिकृता त्वत्रात्यख्युन्ग्रहणं सूत्रे प्रक्षिप्य "क्वरप्ख्युना"मिति पठितम्, तच्च भाष्यविरुद्धमित्युत्तरत्र स्फुटीभविष्यति। स्त्रैणी पौंस्नीति। "स्त्रीपुंसाभ्या"मिति नञ्स्नञौ। शाक्तीकीति। शक्तिः प्रहरणमस्याः। "शक्तियष्ट()ओरिकक्"। आढ()ङ्करणीति। अनाढ() आढ्यः क्रियते अनयेत्यर्थे "आढ()सुभगे"त्यादिना कृञः ख्युन्। "युवो"रित्यनादेशः। "अरुर्द्विष"दिति मुम्। तरुणी। तलुनीति। तरुणतलिनयोरुनन्प्रत्ययान्तत्वेन नित्त्वादाद्युदात्तता। सैव ङीपि। ङीषि त्वन्तोदात्ततेति।