पूर्वम्: ४।१।१३९
अनन्तरम्: ४।१।१४१
 
सूत्रम्
अपूर्वपदादन्यतरस्यां यड्ढकञौ॥ ४।१।१४०
काशिका-वृत्तिः
अपूर्वपदादन्यत्रस्यां यङ्ढकञौ ४।१।१४०

कुलादित्येव। अविद्यमानं पूर्वपदं यस्य तदपूर्वपदम्। समाससम्बन्धिपूर्वपदस्य अभावेन कुलशब्दो विशेष्यते। अपूर्वपदात् कुलशब्दातन्यतरस्यां यत् ढकञित्येतौ प्रत्ययौ भवतः। ताभ्यां मुक्ते क्यो ऽपि भवति। कुल्यः, कौलेयकः, कुलीनः। पदग्रहणं किम्? बहुच्पूर्वादपि यथा स्यात्। बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः।
न्यासः
अपूर्वपदादन्यतरस्यां यड्ढकञौ। , ४।१।१४०

ननु पूर्वशब्दोऽवयववचनः; न च कुलशब्दस्य पदान्तरमवयव उपपद्यते; पृथग्भूत्तवात्, अनारम्भकत्वाच्च, ततो व्यपच्छेद्याभावादपूर्वपदादित्युक्तमेतत्कुलशब्दस्य विशेषणम्? इत्याह-- "समाससम्बन्धि" इत्यादि। समासे सत्येतद्भवति-- पूर्वपदम्, उत्तरपदमिति। तस्मात् समाससम्बन्धिनः पूर्वपद्सयाभावेन कुलशब्दो विशेष्यते-- अविद्यमानं समाससम्बन्धि पूर्वपदं यस्येति। कस्य चाविद्यमानम्? यः समासस्यान्तभूतो न भवति केवलः कुलशब्दः,तेन केवलात् कुलशब्दादयं विधिरित्युक्तं भवति। अथ व्यवस्थावाच्येव पूर्वशब्दः कस्मान्नाश्रीयते? अशक्यत्वात्। तत्र ह्राश्रीयमाणेऽविद्यमानं पूर्वपदं यस्मात् कुलशब्दात् सोऽपूर्वपदशब्देनोच्यते। ततश्च देवदत्तः कुल्यो देवदत्तः कौलेयक इति वाक्ये य()ड्ढकञौ न स्याताम्; देवदत्तस्येह पूर्वपदस्य विद्यमानत्वात्। "पदग्रहणं किम्" इति। अपूर्वादित्येवं कस्मान्नोक्तम्, एवमपि हीष्टं सिध्यति, लघु च सूत्रं भवतीति मन्यते। "बहुच्पूर्वपदादपि यथा स्यात्" इति। "अपूर्वात्" इत्युच्यमाने बहुच् पूर्वं यत्प्रतातिपदिकं बहुजस्य पूर्वं इति ततः प्रत्ययो न स्यात्। पदग्रहणे तु सति ततोऽपि भवति; तस्यापूर्वपदत्वात्। "बहुकुल्यः" इति। ईषदसमाप्तं कुलमिति "विभाषा सुपो बहुच् पुरस्तात्तु" ५।३।६८ इति बहुच्। बहुकुलस्यापत्यं बहुकुल्यः॥
बाल-मनोरमा
अपूर्वपदादन्यतरस्यां यड्ढकञौ ११४७, ४।१।१४०

अपूर्वपदादन्यतरस्याम्। कुलादित्येवेति। पूर्वपदरहितात्कुलादपत्ये यड्ढकञौ वा स्त इत्यर्थः। पक्षे ख इति। यड्ढकञोरभावपक्षे इत्यर्थः। बहुकुल्य इति "विभाषा सुपः" इति बहुच्प्रत्ययो न पदम्। अतः पूर्वपदरहितत्वाद्यड्ढकञ्खा भवन्त्येवेत्यर्थः।

तत्त्व-बोधिनी
अपूर्वपदादन्यतरस्यां यड्ढकञौ ९५३, ४।१।१४०

बहुकुल्य इति। "विभाषा सुपः" इति बहुच्प्रत्ययो न पदमिति अपूर्वपदत्वात्प्रत्ययत्रयं भवत्ये"ति भावः।