पूर्वम्: ४।१।१४९
अनन्तरम्: ४।१।१५१
 
सूत्रम्
फाण्टाहृतिमिमताभ्यां णफिञौ॥ ४।१।१५०
काशिका-वृत्तिः
फाण्डाहृतिमिमताभ्यां णफिञौ ४।१।१५०

सौवीरेषु इत्येव। कुत्सने इति निवृत्तम्। फाण्टाहृतिमिमतशब्दाभ्यां सौवीरविषयाभ्याम् अपत्ये णफिञौ प्रत्ययु भवतः। फको ऽपवादः। अल्पाच्तरस्य अपूर्वनिपातो लक्षणव्यभिचारचिह्नं, तेन यथासङ्ख्यम् इह न भवति इति। फाण्टाहृतः, फाण्टाहृतायनिः। मैमतः, मैमतायनिः। सौवीरेषु इत्येव, फाण्टाहृतायनः। मैमतायनः। फाण्टाहृतेः यञिञोश्च ४।१।१०१ इति फक्। मिमतशब्दो ऽपि नडादिषु पठ्यते।
न्यासः
फाण्टाह्मतिमिमताभ्यां मफिञौ। , ४।१।१५०

"आल्पाच्तरस्य" इत्यादि। मिमतशब्दोऽयमल्पाच्तरः, तस्य "अल्पाच्तरम्" २।२।३४ इति पूर्वनिपाते प्राप्ते यः परनिपातः स लक्षमव्यभिचारचिह्नं सूचयति। यथेदं पूर्वनिपातलक्षणं व्यभिचरति = स्वविषये न प्रवत्र्तते, तथा यथासंख्यलक्षणमपीति यथासंख्यं न भवति। अत एवैकैकस्मात् प्रत्ययद्वयं सिद्धं भवति॥
बाल-मनोरमा
फाण्टाह्मतिमिमताभ्याणफिञौ ११५७, ४।१।१५०

फाण्टाह्मति। "सौवीरेष्विति। शेषपूरणमिदम्। सैवीरगोत्रादित्यर्थः। फाण्टाह्मतस्य गोत्रापत्यं फाण्टाह्मतिः, अत इञ्। तस्यापत्यं युवेति विग्रहः। मैमत इति। मिमतस्यापत्यमिति विग्रहः। मिमतशब्दे सौवीरगोत्रादिति न संबध्यते, व्याख्यानाद्गोत्रत्वाऽभावाच्चेति भावः।

तत्त्व-बोधिनी
फाण्टाह्मतिमिमताभ्यांणफिञौ ९५७, ४।१।१५०

फाण्टाह्मति। "कुत्सने"इति निवृत्तम्। वृत्तिमते णित्त्वस्य फलमस्तीति ध्वनयन्नुदाहरति---मैमत इति। न च भाष्यमतेऽपि "फाण्टाह्मताभार्यः"इत्यत्र "वृद्धिनिमित्तस्ये"ति पुंवद्भावनिवृत्तिर्णित्त्वफलमस्तीति वाच्यम्, "अस्त्रिया"मिति युवसंज्ञानिषेधाद्गोत्रसंज्ञासद्भावात् "एको गोत्रे"इति नियमादिञन्तात्फाण्टाह्मतिशब्दादन्यस्यापत्ययस्याऽभावात्फाण्टाह्मताशब्दस्यैवाऽसत्त्वादिति भावः।