पूर्वम्: ४।१।१५१
अनन्तरम्: ४।१।१५३
 
सूत्रम्
सेनान्तलक्षणकारिभ्यश्च॥ ४।१।१५२
काशिका-वृत्तिः
सेनान्तलक्षणकारिभ्यश् च ४।१।१५२

सेनान्तात् प्रातिपदिकात् लक्षणशब्दात् कारिवचनेभ्यश्च अपत्ये ण्यः प्रत्ययो भवति। कारिशब्दः कारूणां तन्तुवायादीनां वाचकः। कारिषेण्यः। हारिषेण्यः। लाक्षण्यः। कारिभ्यः तान्तुवाय्यः। कौम्भकार्यः। नापित्यः।
न्यासः
सेनान्तलक्षमकारिभ्यश्च। , ४।१।१५२

अत्र ग्रहणवता प्रातिपदिकेन तदन्तविधि (व्या।प।८९) प्रतिषेधाल्लक्षणशब्दस्य स्वरूपग्रहणम्। अत एवाह-- "लक्षणशब्दात्" इति। कारीत्यर्थग्रहणम्। तत्रार्थे कार्यस्याभावात् तद्वाचिनः प्रत्ययो विज्ञायत इत्याह-- "कारिवचनेभ्यश्च" इति।यथा लक्षणशब्दस्य स्वरूपग्रहणं तथा कारिशब्दस्य कस्मान्न भवति? शिवादिषु तक्षन्निति पाठात्। अस्य हि कारिलक्षणमिञं बाधितुं तत्र पाठः। यदि च कारिशब्दस्येह स्वरूपग्रहणं स्यात्, तक्षन्शब्दादिभ्यः प्राप्तेरसम्भवादुत्सर्गेणैवाणा भवितव्यमिति तस्य शिवादिषु पाठोऽनर्थकः स्यात्। अर्थग्रहणे त्वनेन प्राप्तस्येञो बाधनार्थस्तत्र पाठो युज्यते॥
बाल-मनोरमा
सेनान्तलक्षणकारिभ्यश्च ११५९, ४।१।१५२

सेनान्त। एभ्य इति। सेनान्तलक्षणकारिभ्य इत्यर्थः। अकुर्वादित्वाद्वचनम्। हारिषेण्य इति। हरिषेणो नाम कश्चित्। "एति संज्ञायां"मिति षत्वम्। तस्याऽसिद्धत्वात्सेनान्तत्वाण्ण्यः। लाक्षण्य इति। लक्षणमस्यास्तीति लक्षणः। अर्शाअद्यच्। तस्यापत्यमिति विग्रहः। कारिपदं व्याचष्टे--कारिः शिल्पीति। तस्मादिति। कारिविशेषवाचिनो ण्ये सतीत्यर्थः। तान्तुवाय्य इति। तन्तुवायस्यापत्यमिति विग्रहः। कौम्भकार्य इति। कुम्भकारस्यापत्यमिति विग्रहः। नापित्य इति। नापितस्यापत्यमिति विग्रहः।

तत्त्व-बोधिनी
सेनान्तलक्षणकारिभ्यश्च ९५९, ४।१।१५२

हारिषेण्य इति। "एति संज्ञाया"मिति षत्वस्याऽसिद्धत्वत्सेनान्तोऽयम्।

ताक्ष्णोऽण उपसङ्ख्यानम्। ताक्ष्ण इति। उदीचामिञोपवादोऽयमण्। अस्मादुपसङ्ख्यानाच्छिवादिषु तक्षन्शब्दपाठोऽनार्षं इति गम्यते। वृत्तिकारस्तु---तक्षन्शब्दं शिवादिषु पठित्वा "कारिलक्षणमुदीचाभिञमयमण्बाधते, णस्य तु बाधो नेष्यते"इत्याह। तदनुरोधेनास्माभिरपि तत्र तथैव व्याख्यातम्। फले विशेषाऽभावात्।