पूर्वम्: ४।१।१५३
अनन्तरम्: ४।१।१५५
 
सूत्रम्
तिकादिभ्यः फिञ्॥ ४।१।१५४
काशिका-वृत्तिः
तिकादिभ्यः फिञ् ४।१।१५४

तिक इत्येवम् आदिभ्यः शब्देभ्यो ऽपत्ये फिञ् प्रत्ययो भवति। तैकायनिः। कैतवायनिः। वृषशब्दो ऽत्र पठ्यते, तस्य प्रत्ययसन्नियोगेन यकारन्तत्वम् इष्यते। वार्ष्यायणिः। कौरव्यशब्दः पठ्यते, स च क्षत्रयवचनः, औरसशब्देन क्ष्त्रियप्रत्ययान्तेन साहचर्यात्। यस् तु कुर्वादिह्यो ण्यः ४।१।१५१ , तदन्तादिञैव भवितव्यम्। तथा च ण्यक्षत्रियार्षञितो यूनि लुगणिञोः २।४।५८ इत्यत्र उदाहृतं कौरव्यः पित, कौरव्यः पुत्रः इति। तिक। कितव। संज्ञा। बाल। शिखा। उरस्। शाट्य। सैन्धव। यमुन्द। रूप्य। ग्राम्य। नील। अमित्र। गौकक्ष्य। कुरु। देवरथ। तैतिल। औरस। कुअरव्य। भैरिकि। भौलिकि। चौपयत। चैतयत। चैटयत। शैकयत। क्षैतयत। ध्वाजवत। चन्द्रमस्। षुभ। गङ्गा। वरेण्य। सुयामन्। आरद। वह्यका। खल्या। वृष। लोमका। उदन्य। यज्ञ।
न्यासः
तिकादिभ्यः फिञ्। , ४।१।१५४

"कौरव्यशब्दः पठ()ते" इत्यादि। कौरव्यशब्दोऽयमस्त्येव क्षत्त्रियगोत्रवचनो यः "कुरुनादिभ्यो ण्यः" ४।१।१७० इति ण्यप्रत्ययान्तः; तयोरिह पूर्वो गृह्रते। कुत एतत्? औरसशब्देन साहचर्यात्। औरसशब्दोऽयं "जनपदशब्दात् क्षत्त्रियादञ्" ४।१।१६६ इत्यञ्प्रत्ययान्तः, तेनासौ क्षत्त्रियवचनः, तत्साहचर्याच्चकौरव्यशब्दो यः क्षत्त्रियप्रत्ययान्तत्वात् क्षत्त्रियवचनः स एव गृह्रते। "यस्तु" इत्यादि। यस्तु "कुर्वादिभ्यो ण्यः" ४।१।१५। इति ण्यप्रत्ययान्तो ब्राआहृणादिगोत्रवचनः, तस्मात् "अत इञ्" ४।१।९५ इदीञैव भवितव्यम्, तत्रैतत् स्यात्? स्वमनीषिकेयं भवत इत्याह-- "तथा च" इत्यादि। यत एवं ब्राआहृणादिगोत्रवचनादिञैव भवितव्यम्। तथा हि ण्यक्षत्त्रियादि २।४।५८ सूत्रे पूर्वेरपि वृत्तिकारैः--- कौरव्यः पिता, कौरव्यः पुत्र इत्युदाह्मतम्। यदि चातः फिञ् स्यात् तदुदाहरणं न युज्येत।न हि ण्यप्रत्ययान्ताद्विहितस्य फिञो यूनि लुगुच्यते, अपि त्वणिञोः॥
बाल-मनोरमा
तिकादिभ्यः फिञ् ११६१, ४।१।१५४

तिकादिभ्य फिञ्। इञोऽपवादः। तैकायनिरिति। फञि आयन्नादेशः।