पूर्वम्: ४।१।१५६
अनन्तरम्: ४।१।१५८
 
सूत्रम्
उदीचां वृद्धादगोत्रात्॥ ४।१।१५७
काशिका-वृत्तिः
उदीचां वृद्धादगोत्रात् ४।१।१५७

वृद्धं यच्छब्दरूपम् अगोत्रं, तस्मादपत्ये फिञ् प्रत्ययो भवति उदीचाम् आचार्याणां मतेन। आम्रगुप्तायनिः। ग्रामरक्षायणिः। कारिशब्दादपि वृद्धादगोत्रात् परत्वादनेन एव भवितव्यम्। नापितायनिः। उदीचाम् इति किम्? आम्रगुप्तिः। वृद्धादिति किम्? याज्ञदत्तिः। अगोत्रादिति किम्? औपगविः।
न्यासः
उदीचां वृद्धादगोत्रात्। , ४।१।१५७

"वृद्धात्" इति। इहैव यत्पारिभाषिकं वृद्धं तद्()गृह्रते, न शास्त्रान्तरप्रसिद्धम्, अगोत्रादिति प्रतिषेधात्। "कारिशब्दात्" इत्यादि। कारिलक्षणस्येञोऽवकाशः-- तान्तुवायिरिति, फिञोऽवकाशः--आम्रगुप्तायनिरिति; इहोभं प्राप्नोति-- नापितायनिरिति, परत्वात् फिञेव भवति॥
बाल-मनोरमा
उदीचां वृद्धादगोत्रात् ११६३, ४।१।१५७

उदीचां वृद्धा। वृद्धसंज्ञकादगोत्रप्रत्ययान्तात्फिञ्स्यादुदीचां मते इत्यर्थः। आम्रगुप्तायनिरिति। आम्रगुप्तस्यापत्यमिति विग्रहः। प्राचां त्विति। "मते" इति शेषः। आम्नगुप्तिः। अत इञ्। औपगविरिति। उपगोर्गोत्रापत्यम् औपगवः, तस्यापत्यं युवा औपगविः। औपगवस्य गोत्रत्वात्ततो यूनि फिञभावे इञेवेति भावः।