पूर्वम्: ४।१।१५९
अनन्तरम्: ४।१।१६१
 
सूत्रम्
प्राचामवृद्धात् फिन् बहुलम्॥ ४।१।१६०
काशिका-वृत्तिः
प्राचाम् अवृद्धात् फिन् बहुलम् ४।१।१६०

अवृद्धाच् छब्दरूपादपत्ये फिन् प्रत्ययो भवति बहुलं प्राचां मतेन। ग्लुचुकायनिः। अहिचुम्बकायनिः। प्राचाम् इति किम्? ग्लौचुकिः। अवृद्धातिति किम्? राजदन्तिः। उदीचां प्राचाम् अन्यतरस्यां बहुलम् इति सर्व एते विकल्पार्थस् तेषाम् एकेन एव सिध्यति। तत्र आचार्यग्रहणं पूजार्थम्। बहुलग्रहणम् वैचित्र्यार्थम्। कव्चिन् न भवत्येव, दाक्षिः। प्लाक्षिः।
न्यासः
प्राचामवृद्धात्फिन्बहुलम्। , ४।१।१६०

"विकल्पार्थः" इति। विकल्पप्रयोजनाय। "एकेनैव सिध्यति" इति। विकल्पार्थत्वादिति।प्रकृतत्वाद्विकल्प इति गम्यते। अत्र च किमर्थं सर्वेषां ग्रहणमित्यध्याहार्यम्। तत्रेत्याद्युत्तरम्। यच्चोदीचांग्रहणं यच्च प्राचांग्रहणम्, तदुभयं पूजार्थम्। "बहुलग्रहणं वैचित्र्यार्थम्" (इति)। पारिशेष्यादन्यतरस्यांग्रहणं विकल्पार्थमित्युक्तं भवति। "क्वचित्" इत्यादिना बहुलग्रहणस्य वैचित्र्यार्थतां दर्शयति॥
बाल-मनोरमा
प्राचामवृद्धात्फिन्बहुलम् ११६६, ४।१।१६०

प्राचामवृद्धात्। अवृद्धसंज्ञकादपत्ये बहुलं फिन् स्यादित्यर्थः। प्राचांग्रहणं पूजार्थम्। ग्लुचुकायनिरिति। ग्लुचुकस्यापत्यमिति विग्रहः। अवृद्धात्किम्। राजदन्तिः। बहुवग्रहणान्नेह--दाक्षिः।

तत्त्व-बोधिनी
प्राचामवृद्धात्फिन्बहुलम् ९६४, ४।१।१६०

प्राचामवृद्धात्। प्राचांग्रहणं पूजार्थम्। अवृद्धादिति किम्()। राजदन्तिः। बहुग्रगणान्नेह---दाक्षिः।