पूर्वम्: ४।१।१६४
अनन्तरम्: ४।१।१६६
 
सूत्रम्
वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति (वृद्धस्य च पूजायाम्) (यूनश्च कुत्सायाम्)॥ ४।१।१६५
काशिका-वृत्तिः
वा अन्यस्मिन् सपिण्डे स्थविरतरे जिवति ४।१।१६५

सप्तमपुरुषावधयः सपिण्डाः स्मर्यन्ते। येषाम् उभयत्र दशाहानि कुलस्यन्नं न भुज्यते इत्येवम् आदिकायां क्रियायाम् अनधिकारः। भ्रातुरन्यस्मिन् सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञम् वा भवति। प्रकृतं जीवतिग्रहणं सपिण्डस्य विशेषणम्, इदं तु संज्ञिनः। तरब्निर्देश उभयोत्कर्षार्थः। स्थानेन वयसा च उत्कृष्टे यथा स्यात् पितृव्ये पितामहे भ्रातरि वयसाधिके जिवति। गर्गस्य अपत्यं गार्ग्यायणः गार्ग्यो वा। वात्स्ययनः वात्स्यो वा। दक्षायणः दाक्षिर्वा। स्थविरतरे इति किम्? स्थानवयोनयूने गार्ग्य एव भवति। जीवति इति किम्? मृते मृतो वा गार्ग्य एव भवति।
काशिका-वृत्तिः
वृद्धस्य च पूजायाम् ४।१।१६६

अपत्यम् अन्तर्हितं वृद्धम् इति शास्त्रान्तरे परिभाषणाद् गोत्रं वृद्धम् इत्युच्यते। वृद्धस्य युवसंज्ञा वा भवति पूजायां गम्यमानायाम्। संज्ञसामर्थ्याद् गोत्रं युवप्रत्ययेन पुनरुच्यते। वृद्धस्य इति षष्ठीनिर्देशो विचित्रा सूत्रस्य कृतिः इति। तत्र भवान् गार्ग्यायणः गार्ग्यो वा। तत्र भवान् वात्स्यायनः वात्स्यो वा। तत्र भवान् दाक्षायणः दाक्षिर्वा। पूजायाम् इति किम्? गार्ग्यः। वात्स्यः।
काशिका-वृत्तिः
यूनश् च कुत्सायाम् ४।१।१६७

कुत्सायां गम्यमनायां यूनो वा युवसंज्ञा भवति। निवृत्तिप्रधानो विकल्पः। युवसंज्ञायां प्रतिषिद्धायां पक्षे गोत्रसंज्ञा एव भवति, प्रतिपक्षाभावात्। गार्ग्यो जाल्मः। गार्ग्यायणो वा। वात्स्यो जाल्मः वात्स्यायनो वा। दाक्षिर् जाल्मः दाक्षायणो वा। कुत्सायाम् इति किम्? गार्ग्यायणः।
न्यासः
वान्यस्मिन् सपिण्डे स्थविरतरे जीवति। , ४।१।१६५

"सप्तमपुरुषावधयः" इति। सप्तमः पुरुषोऽवधिर्येषां सपिण्डानां ते तथोक्ताः समानपिण्डाः,निपातनात् सभावः, "समानस्य" ६।३।८३ इति योगविभागाद्वा। तस्य च योगविभागस्यैतल्लिङ्गम्, तेन सपिण्डाः शास्त्रेष्वा सप्तमात्पुरुषात्। परेण ये ते सपिण्डा नोच्यन्ते। "येषाम्" इत्यत्याधिकार इति परेण सम्बन्धः। "उभयत्र" इति। जन्मनि मरणे च। "इत्येवमादिकायाम्" इति। आदिशब्देन निवृत्त्य्ादिकाः क्रियाश्च गृह्रन्ते। तथा चोक्तम्--- उभयत्र दशाहानि कुलस्यान्नं न भुज्यते। दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवत्र्तते॥ इति॥ "जीवति" इति। सप्तम्येकवचनमेतत्। प्रथमायाश्च स्थाने सुब्व्यत्ययेन सप्तमी विहिता, अत एवाह-- "जीवदेव" इति। "तरब्निर्देशः" इत्यादि। असति हि तरब्निर्देशे स्थविरशब्दाद्वयःप्रकर्षमात्रं गम्यते, तरपा तु स्थानप्रकर्षोऽपि गम्यते। तस्मादुभयोरुत्कर्षार्थस्तरब्निर्देशः कृतः। "पितृव्ये पितामहे भ्रातरि च" इति। द्वावप्येतौ स्थानत उत्कृष्टौ। स्थानशब्देन चेह सम्बन्धविशेष उच्यते; अनेकार्थत्वाद्धातूनाम्। "गाग्र्य एव भवति" इति। न गाग्र्यायणः।युवसंज्ञायामसत्यां युवप्रत्ययस्य फकोऽनुत्पत्तेः। "मृते" इति। स्थविरतरे सपिण्डे। "मृतो वा" इति। पौत्रप्रभृतिरप्यत्र मृतोऽर्थः॥
न्यासः
वृद्धस्य च पूजायाम्। , ४।१।१६५

"अपत्यमन्तर्हितम्" इत्यादिना शास्त्रान्तरेण परिभाषितं यद्()वृद्धं तत्परिगृह्रते, न तु यदिह शास्त्रे परिभाषितं तदिति दर्शयति। कुतः पुनरेतदवगतम्-- शास्त्रान्तरपरिभाषितमिह वृद्धत्वं गृह्रत इति? अपत्याधिकारात्। शब्दात्मकस्य वृद्धस्यापत्त्वासम्भवाद्विज्ञायते। "पूजायां गम्यमानायाम्" इति। का पुनरिह पूजा विवक्षिता? युवत्वमेव। तद्धि लोके सर्वप्राणिनामभिमतम्। ननु च नेह युवशब्दो वयः पदार्थक एवायं युवशब्दो गोत्रे वर्तिष्यते। "संज्ञासामथ्र्यात्" इत्यादिना संज्ञाप्रणयनस्य प्रयोजनं दर्शयति। गोत्रप्रत्ययेनाभिहितमपि गोत्रम्। संज्ञासामथ्र्यात् पुनर्युवप्रत्ययो विधीयते गाग्र्यायण इति। अथ किमर्थं वृद्धस्येति षष्ठ()आ निर्देशः क्रियते, न वृद्धमिति प्रथमान्तं निर्दिश्यते,एवं हि लघु सूत्रं भवति? इत्याह-- "वृद्धस्य" इत्यादि। इतिकरणो हेतौ। यस्माद्विचित्रा सूत्रस्य कृतिः; तस्माद्()वृद्धस्येति षष्ठ()आ निर्देशः। एवं हि सूत्रे कृते वैचित्र्यं सम्भवतीत्यभिप्रायः।"तत्र भवान् गाग्र्यायणः" इति। तत्रभवच्छब्दस्य पूजावचनस्य प्रयोगेण पूजां गमयतीति॥
न्यासः
यूनश्च कुत्सायाम्। , ४।१।१६५

ननु च युवसंज्ञा पूर्वमेवाभिनिर्वृत्ता,यदाह-- "यूनश्च" इति।न ह्रसत्यां तस्यामयं निर्देश उपपद्यते, तदभिनिर्वृत्तायास्तस्याः पुनर्विकल्पेन विधानमनुपपन्नमित्यत आह-- "निवृत्तिप्रधानो विकल्पः" इति। नायं विधिप्रधानो विकल्पः, किं तर्हि? प्रतिषेधप्रतिपादनपर इत्यर्थः। सिद्धायां प्रतिषिद्धायां गोत्रसंज्ञा वक्तव्याः; अन्यथा यूनो गोत्रप्रत्ययेनाभिधानं न स्यात्? इत्यत आह-- "युवसंज्ञायाम्" इत्यादि। गोत्रसंज्ञाया युवसंज्ञा प्रतिपक्षः प्रत्यनीकः। सा चेन्निवृत्ता गोत्रसंज्ञैव प्रवत्र्तते; प्रतिपक्षाभावात्, अतो न वक्तब्गेति भावः। "गाग्र्यो जाल्मः"इति। जाल्मशब्दस् कुत्सावचनस् प्रयोगेण कुत्सां गमयति। कुत्सा पुनरिह यूनो वृद्धतयाभिधानस्यैवानभिमतत्वात्। अत एवाकुत्सिते युवेति वाक्यार्थं पदमन्वाख्यायते। सा च कुत्सा याऽन्या वा ततो वेति विशेषो नाश्रीयते, यथा-- कदन्नादिविषये देवदत्तादीनाम्॥
बाल-मनोरमा
वाऽन्यस्मिन्त्सपिण्डे स्थविरतरे जीवति १०७५, ४।१।१६५

वाऽन्यस्मिन्। शेषपूरणेन सूत्रं व्याचष्टे--पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यादिति। सपिण्डास्तु-स्वयम्, पिता, पितामहः, प्रपितामहः, तस्य पितृपितामहप्रपितामहाश्चेति सप्त पुरुषाः। एवं मातृसंषेऽपीत्यादि धर्मशास्त्रेषु प्रसिद्धम्। स्थविरतरः--अतिवृद्धः। जीवतीति सप्तम्यन्तमनुवृत्तं सपिण्डे इति सप्तम्यन्तेऽन्वेति। अत्रत्यं तु जीवतिपदं तिङन्तम् अपत्येऽन्वेति, यदपत्यं जीवति तद्युवसंज्ञकमिति। ततश्च भ्रातुरन्यस्मिन्वृद्धतमे सपिण्डे जीवति सति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यादिति फलितम्। एकमिति। अत्रत्यमित्यर्थः। द्वितीयमिति। अनुवर्तमानमित्यर्थः। उभयोरिति। हेतुत्वसंबन्धे षष्ठी। उभयहेतुकोत्कर्षवाचकस्तरवित्यर्थः। तदेव विवृणोति-स्थानेन वयसा चेति। स्थानतः उत्कृष्टः-पितृव्यः, तस्य पितृस्थानीयत्वात्। वयसा उत्कृष्टो-मातामहः। भार्तरीति संनिहितत्वान्मातामहभ्रातरीत्यर्थ इति केचित्। पितृव्यपुत्र इत्यन्ये। जीवतीति किमिति। जीवतिद्वयस्य किं प्रयोजनमिति प्रश्नः। मृते मृतो वा गाग्र्य एवेति। मृते सपिण्डे चतुर्थौ गाग्र्य एव, मृतश्च चतुर्थो गाग्र्य एवेत्यर्थः।

वृद्धस्य चेति। वार्तिकमिदम्। तत्र वृद्धपदं विवृणोति-गोत्रस्यैव वृद्धसंज्ञा प्राचामिति। गोत्रमेव "वृद्ध"मिति प्राचीनाचार्या व्यवहरन्तीत्यर्थः। तथा च वार्तिकस्य फलितमर्थमाह--गोत्रस्य युवसंज्ञा पूजायां गम्यमानायामिति। उदाहरति--तत्रभवान्गाग्र्यायण इति। "तत्रभवा"निति पूज्यवाची, युवसंज्ञकानामल्पवयस्कत्वेन वृद्धाधीनत्वेन सुखितया च पूजा। ता गोत्रप्रभृतिस्तृतीयोऽपि मन्यते।

अत्र युवसंज्ञाविधिसामथ्र्यात्स्वार्थे युवप्रत्ययो बोध्यः। गाग्र्यो जाल्म इति। वृद्धाननादृत्य स्वातन्त्र्यं भजते तद्विषयमिदम्।

तत्त्व-बोधिनी
वाऽन्यस्मिन्त्सपिण्डे स्थविरतरे जीवति ९००, ४।१।१६५

युवसंज्ञमेवेति। तेन एकसंज्ञाधिकारबहिर्भूतयोरपि गोत्रयुवसंज्ञयोर्न समावेश इति भावः। नन्वस्तु संज्ञाद्वयस्यट समावेशः, को दोष इति चेत्। मैवम्। शालङ्काः पैलीया इत्यसिद्धिप्रसङ्गात्। तथा हि शलङ्कोरपत्यं शालङ्किः। पैलादिषु पाठादिञ्शलङ्कादेशौ। शालङ्केरपत्यम्। शालङ्केर्युवापत्यं "यञिञिश्चे"ति फक्। तस्य "पैलादिभ्यश्चे"ति लुक्, ततः शालङ्केर्यूनश्छत्रा इत्यर्थविवक्षायाम् "इञस्चे"त्यणि "शालङ्का"इति भवति। तथा पीलाया अपत्यं गोत्रापत्यं वा---"पीलाया वा"इत्यणि --पैलः। तस्या पत्यं युवा, "अमो व्द्यचः"इति फिञ्। तस्य "पैलादिभ्यश्चे"ति लुक्। ततः पैलस्य यूनश्छात्राः पैलीया इति भवति। तत्र गोत्रयूनोः समावेशे तु "गोत्रे लुगची"ति फक्()फिञारलुक् प्रसज्येत। न च परत्वाद्यूनि लुग्भविष्यतीति सिद्धमिष्टमिति वाच्यं, ततोऽपि परत्वात् "फक्फिञोरन्यतरस्या"मिति विकल्पापत्तेः। न च सिद्धान्तेऽपि विकल्पः शङ्क्यः, "फक्फिञो"रित्ययं हि यूनि लुक एवापवादो न तु "पैलादिभ्यश्चे"त्यस्य, "अनन्तरस्ये"ति न्यायात्। यद्यपि यूनि लुगवादोऽपि "फक्फिञो"रिति विकल्पः परत्वात् "पेलादिभ्यश्चे"ति लुकमपि बाधेतेति वक्तुं शक्यन्तथापि परादप्यन्तरङ्गस्य बलीयस्त्वात् "प्लादिभ्यश्चे"ति नित्य एव लुगित्याहुः। भ्रातरि च। अवंश्यार्थोऽमारम्भः। भ्राता तु न वंश्यः, "उत्पादकप्रबन्धो वंशः"इत्यभ्युपगमात्। "अपत्यं पौत्रप्रभृती"त्यनुवर्त्त्य "पौत्रप्रभृते"रिति षष्ठ()आ विपरिणम्य व्याख्यानात्फलिकमाह---चतुर्थादिरिति। अत्रायमर्थः---गर्गादिषु मृतेष्वपि जीवत्यग्रजे अनुजो युवसंज्ञक इति। वान्यस्मिन्। इहत्यं जीवतिपदं तिङन्तं, न तु सप्तम्यन्तमिति व्याचष्टे--जीवदेवेति। यो जीवति स युवसंज्ञकः, मृतस्तु स्थविरतरे जीवत्यपि गाग्र्य एव भवति, न तु गाग्र्यायण इति भावः। एकमिति। इहत्यमित्यर्थः द्वितीयमिति। अनुवर्तमानं सप्तम्यन्तमित्यर्थः। यदुक्तमुभयोरिति, तदेव विवृणोति--स्थानेनवयसा चेति। मतामहेभ्रातरि वेति। संनिहितत्वात् "भ्रातरी"त्यस्य "मातामहभ्रातरी"त्येवार्थ इत्येके। "पितृव्यपुत्रे"इत्यन्ये। वृत्तौ तु ---"पितृव्ये पितामहभ्रातरि वे"ति पाठः। जीवतीति किमिति। जीवतिद्वयं किमर्थमिति प्रश्नः। अतएव "मृते मतो वे"त्यत्तुरं सङ्गच्छते। अन्यस्मिन् किम्()। भ्रातरि जीवति जीवतो विकल्पो मा भूत्। पूर्वसूत्रं तु भ्रातरि जीवति भृतस्य कनीयसो युवसंज्ञार्थमिति सावकशम्।

वृद्धस्य च पूजायामिति वाच्यम्। वृद्धस्य। चेति। वार्कतिकमिदम्। तथा "यूनश्चे"त्यग्रिममपि।