पूर्वम्: ४।१।१६७
अनन्तरम्: ४।१।१६९
 
सूत्रम्
द्व्यञ्मगधकलिङ्गसूरमसादण्॥ ४।१।१६८
काशिका-वृत्तिः
द्व्यञ्मगधकलिङ्गसूरमसादण् ४।१।१७०

जनपदशब्दात् क्षत्रियाभिधायिनो द्व्यचः, मगध कलिङ्ग सूरमस इति एतेभ्यश्च अपत्ये अण् प्रत्ययो भवति। अञो ऽपवादः। आङ्गः। वाङ्गः। अपुण्ड्रः सौह्मः। मगधः। कालिङ्गः। सौरमसः। तस्य राजनि इत्येव, आङ्गो राजा।
न्यासः
द्व्यञ्गमधकलिङ्गसूरमसादण्। , ४।१।१६८

बाल-मनोरमा
द्व्यञ्मगधकलिङ्गसूरमसादण् ११७०, ४।१।१६८

द्व्यञ्मगध। अञोऽपवाद इति। जनपदशब्दादिति विहितस्याऽञोऽपवाद इत्यर्थः। द्व्यजिति। "उदाह्यियते" इति शेषः। अङ्ग, वङ्ग, सुहृ-इत्येते द्व्यचो देशक्षत्रियवाचिनः। अङ्गस्यापत्यमिति विग्रहः। तस्य राजन्यप्येवमिति। अङ्गादिदेशस्य राजेति विग्रहः।