पूर्वम्: ४।१।१६९
अनन्तरम्: ४।१।१७१
 
सूत्रम्
कुरुणादिभ्यो ण्यः॥ ४।१।१७०
काशिका-वृत्तिः
कुरुनादिभ्यो ण्यः ४।१।१७२

जनपदशब्दात् क्षत्रियातित्येव। कुरुशब्दात् नादिभ्यश्च प्रातिपदिकेभ्यो ण्यः प्रत्ययो भवति। अणञोरपवादः। कौरव्यः। नकारादिभ्यः नैषध्यः। नैपथ्यः। तस्य राजनि इत्येव, कौरव्यो राजा।
लघु-सिद्धान्त-कौमुदी
कुरुनादिभ्यो ण्यः १०३२, ४।१।१७०

कौरव्यः। नैषध्यः॥
न्यासः
कुरुनादिभ्यो ण्यः। , ४।१।१७०

अञणोरपवादः। कुरुशब्दस्यतु द्व्यज्लक्षणस्याणः। कुरुशब्दात् "कुर्वादिभ्यो ण्यः" ४।१।१५१ इति पूर्वमपत्ये उक्तः। तस्य यो जनपदशब्द क्षत्त्रियो न भवति सोऽवकाशः, यस्तु जनपदशब्दः क्षत्त्रियस्तस्मात् परत्वादञि तदपवादो द्व्यज्लक्षणोऽण् स्यात्। अतस्तं बाधितुं पुनर्ण्यो विधीयते॥
बाल-मनोरमा
कुरुनादिभ्यो ण्यः ११७२, ४।१।१७०

कुरुनादिभ्यो ण्यः। कुरुशब्दान्नकारादिभ्यश्च जनपदक्षत्रियवाचकेभ्योऽपत्ये राजनि च ण्यः स्यादित्यर्थः। कौरव्य इति। कुरोरपत्यं, कुरूणां राजेति वा विग्रहः। नैषध्य इति। निषधशब्दो देशे राजनि च। शैषिक इति। "तस्येदमित्यनेने"ति शेषः।

तत्त्व-बोधिनी
कुरुनादिभ्यो ण्यः ९६८, ४।१।१७०

कुरुना। नकार आदिर्येषां ते नादयः। कुरुशब्दाद्()व्द्यज्लक्षणे अणि प्राप्ते, नादिभ्यस्त्वञि प्राप्ते[च] वचनम्।