पूर्वम्: ४।१।१७१
अनन्तरम्: ४।१।१७३
 
सूत्रम्
ते तद्राजाः॥ ४।१।१७२
काशिका-वृत्तिः
ते तद्राजाः ४।१।१७४

जन्पदशब्दात् क्षत्रियादञ् ४।१।१६६ इत्येवम् आदयः प्रत्ययाः सर्वनाम्ना प्रत्यवमृश्यन्ते, न तु पूर्वे, गोत्रयुवसंज्ञाकान्डेन व्यवहितत्वात्। ते ऽञादयः तद्राजसंज्ञा भवन्ति। तथा चोदाहृतम्। तद्राजप्रदेशाः तद्राजस्य बहुषु तेन एव अस्त्रियाम् २।४।६२ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
ते तद्राजाः १०३३, ४।१।१७२

अञादयस्तद्राजसंज्ञाः स्युः॥
न्यासः
ते तद्राजाः। , ४।१।१७२

"गोत्रयुवसंज्ञाकाण्डेन व्यवहितत्वात्" इति।गोत्रयुवसंज्ञाप्रकरणं हि यदन्तरा व्यवधायं कृतं तस्यैतदेव प्रयोजनम्। तेन ये व्यवहिताः पूर्वेऽणादयस्तेषां "ते तद्राजाः" इत्यत्र सर्वनाम्ना प्रत्यवमर्शो मा भूदिति। "तथा चैवोदाह्मतम्" (इति)। "तद्राजस्य बहुषु तेनैवास्त्रियाम्" २।४।६२ इत्यत्र कार्याश्रयमुदाह्मतम्। इह तु प्रकरणे रूपाश्रयम्॥
बाल-मनोरमा
ते तद्राजाः ११७४, ४।१।१७२

ते तद्राजाः। ते इत्यनेन जनपदशब्दादित्याद्यारभ्य विहिता अञादयः परामृश्यन्ते। तदाह--अञादय इति।

तत्त्व-बोधिनी
ते तद्राजाः ९७०, ४।१।१७२

ते तद्राजाः। अञादय इति। ततः प्राचीनास्तु त्तच्छब्देन न परामृश्यन्ते, गोत्रयुवसंज्ञाकाण्डेन विच्छेजात्। एतदर्थमेव तत्काण्डं मध्ये कृतमाचार्येणेत्याहुः। वस्तुतस्तु "तद्राजे"त्यधिकृत्य "जनपदशब्दात्क्षत्रियाद"ञित्यादिसूत्राणामारम्भे गोत्रयुवसंज्ञाकाण्डस्य मध्ये पाठाऽभावेऽपि न क्षतिरित्यन्ये।