पूर्वम्: ४।१।१७२
अनन्तरम्: ४।१।१७४
 
सूत्रम्
कम्बोजाल्लुक्॥ ४।१।१७३
काशिका-वृत्तिः
कम्बोजाल् लुक् ४।१।१७५

जनपदशब्दात् क्षत्रियातित्यनेन विहितस्य अञो लुगुच्यते। कम्बोजात् प्रत्ययस्य लुक् भवति। कम्बोजः। कम्बोजादिभ्यो लुग्वचनं चोलाद्यर्थम्। चोलः। केरलः। शकः। यवनः। तस्य राजनि इत्येव, कम्बोजो राजा।
लघु-सिद्धान्त-कौमुदी
कम्बोजाल्लुक् १०३५, ४।१।१७३

अस्मात्तद्राजस्य लुक्। कम्बोजः। कम्बोजौ। (कम्बोजादिभ्य इति वक्तव्यम्)। चोलः। शकः। केरलः। यवनः॥
लघु-सिद्धान्त-कौमुदी
इत्यपत्याधिकारः २ १०३५, ४।१।१७३

लघु-सिद्धान्त-कौमुदी
अथ रक्ताद्यर्थकाः १०३५, ४।१।१७३

न्यासः
कम्बोजाल्लुक्। , ४।१।१७३

"चोलः,शकः" इति। द्व्यञ्मगध ४।१।१६८ लक्षणस्याणो लुक्। केरल इत्यञः॥
बाल-मनोरमा
कम्बोजाल्लुक् ११७६, ४।१।१७३

कम्बोजाल्लुक्। "तद्राजा" इत्यनुवृत्तं षष्ठ()आ विपरिणम्यते। कम्बोजात्परस्य तद्राजस्य लुक् स्यादित्यर्थः। अबहुत्वार्थं सूत्रम्।

तदाह-कम्बोजः कम्बोजाविति। "जनपदशब्दा"दिति विहितस्य अञो लुक्। चोलः शक इति। चोलशकौ देशविशेषौ, राजविशेषौ च द्व्यज्लक्षणस्येति। "द्व्यञ्मगधे"ति विहितस्येत्यर्थः। केरल इति। केरलयवनशब्दौ देशराजोभयवाचिनौ। अञो लुगिति। "जनपदशब्दादिति विहितस्ये"ति शेषः। ननु "काम्बोज" इति कथं, लुक्प्रसङ्गादित्यत आह--कम्बोजाः समरे इति। दीर्घपाठे त्विति। अचां मध्ये आदेरचो दीर्घभूतस्य पाठे त्वित्यर्थः। अभिजन इति। यत्र पूर्वैरुषितं सोऽभिजन इत्यग्रे वक्ष्यति। सिन्धुतक्षेति। सिन्ध्वादौ कम्बोजशब्दस्य पाठादिति भावः।

तत्त्व-बोधिनी
कम्बोजाल्लुक् ९७२, ४।१।१७३

कम्बोजाल्लुक्। "तद्राजस्य बहुषु इति प्रकरण एवेदं न कृतं, द्व्येकार्थवाचकस्याऽञो लुगभावप्रसङ्गात्। यद्यपि लुगधिकारे पुनर्लुग्विधानसामथ्र्यातद्()द्व्येकयोरप्यञो लुग्भविष्यत्येवेति वक्तुं शक्यं, तथाप्यतद्राजस्यापि लुक्प्रसङ्गशङ्कापत्तेर्लाघवाऽभावाच्च चचप्रकरणे न कृतमित्याहुः। न चात्र अपत्ये लक्षणयैव "कम्बोजः कम्बोजौ"इत्यादिरूपसिद्धौ किमनेन सूत्रेणेति शङ्क्यं, "कम्बोज"इत्यादिपाक्षिकाऽनिष्टवारणाय सूत्रस्यावश्यकत्वात्।

कम्बोजादिभ्य इति वक्तव्यम्। सिन्धुतक्षेति। कम्बोजशब्दस्य सिन्ध्वादित्वादण्। तस्य तु तद्राजत्वाऽभावल्लुङ्नेति भावः।