पूर्वम्: ४।१।१७
अनन्तरम्: ४।१।१९
 
सूत्रम्
सर्वत्र लोहितादिकतान्तेभ्यः॥ ४।१।१८
काशिका-वृत्तिः
सर्वत्र लोहितादिकतन्तेभ्यः ४।१।१८

यञः इत्येव। पूर्वेण विकल्पे प्राप्ते नित्यार्थं वचनम्। सर्वत्र लोहितादिभ्यः कतपर्यन्तेभ्यः यञन्तेभ्यः स्त्रियां ष्फः प्रत्ययो भवति। कतशब्दः स्वतन्त्रं यत् प्रातिपदिकं तदवधित्वेन परिगृह्यते कपिशब्दात् परः कपि कत इति , न प्रतिपदिकावयवः कुरुकतेति। लौहित्यायनी। शांसित्यायनी बाभ्रव्यायणी। कण्वात् तु शकलः पूर्वः कतादुत्तर इष्यते। पूर्वोत्तरौ तदन्तादी ष्फाणौ तत्र प्रयोजनम्। प्रातिपदिकेष्वन्यथा पाठः, स एवं व्यवस्थापयितव्यः इति मन्यते। कतन्तेभ्यः इति बहुव्रीहितत्पुरुषयोरेकशेषः, तथा कण्वादिभ्यो गोत्रे ४।२।११० इति। तत्र तत्पुरुषवृत्त्या संगृहीतो मध्यपाती शकलशब्दो यञन्तः प्रत्ययद्वयम् अपि प्रतिपद्यते। शाकल्यायनी। शाकल्यस्य इमे छात्राः शाकलाः।
न्यासः
सर्वत्र लोहितादिकतन्तेभ्यः। , ४।१।१८

"स्वतन्त्रम्" इति। यो ह्रन्यस्यावयवभूतो न भवति केवलः कतशब्दस्तत् स्वतन्त्रं प्रातिपदिकम्। यस्तु कुरुकतशब्दस्यावयवः कतशब्दस्तस्य स्वान्तन्त्र्यं नास्ति; समुदायप्रतिबद्धत्वात्। कः पुनरसौ कतशब्दः स्वतन्त्रं प्रातिपदिकमित्यत आह-- "कपिशब्दात्" इत्यादि। "लौहित्यायनी"। शांसित्यायनी" इति। लोहितशंसितशब्दाभ्यां गर्गादित्वाद्यञ्। "वाभ्रव्यायणी" इति। अत्रापि बभ्रुशब्दात् "मधुबभ्रुवोब्र्राआहृणकौशिकयोः" ४।१।१०६ इति यञ् "ओर्गुणः" ६।४।१४६, "वान्तो यि प्रत्यये" ६।१।७६ इति वान्तादेशः, यञन्तेभ्यः ष्फः। "कण्वात्तु"इत्यादि। कण्वशब्दात् पूर्वः शकलशब्द इष्यते, कतशब्दात्तूत्तरः। किमेवं सति भवतीत्याह-- "पूर्वोत्तरो"इत्यादि। एवं सति पूर्वोत्तरो गणौ तदन्तादी भवतः। तच्छब्देन शकलशब्दः प्रत्यवमृश्यते। शकलशब्दोऽन्त आदिश्च यथाक्रमं ययोः पूर्वोत्तरयोर्गणयोस्तौ तदन्तादी पूर्वोत्तरगणौ। लोहितादिः शकलशब्दान्तो भवति पूर्वो यथः। उत्तर गणः कण्वादिः शकलशब्दादिर्भवति। किं पुनः पूर्वोत्तरयोर्गणयोस्तदन्तादित्वे प्रयोजनमित्याह--"ष्फाणौ तत्र प्रयोजनम्" इति। पूर्वस्य गणस्यशकलान्तत्वे ष्फः प्रयोजनम्। उत्तरस्य शकलादित्वेऽण् प्रयोजनम्। "प्रातिपदिकेष्वन्यथा पाठः"इति। कपिकत, कुरुकत, अनडुह्, कण्व, शकल -- इत्यनयाऽनुपूव्र्या प्रातिपदिकेषु पाठः। "स एवं व्यवस्थापयितव्यः" इति। कण्वात्तु शकलः पूर्वः"इत्यादिना याऽ‌ऽनुपर्वी दर्शिता तया व्यवस्थापयितव्यः। अत एतदुक्तं भवति-- कुरुकत, अनडुह्-- इत्येतावन्यस्मिन् स्थाने पठितव्यौ, शकलशब्दस्तु कतकण्वशब्दयोर्मध्ये पठितव्यः। "मन्यते" इति श्लोवार्त्तिकारः। कथं पुनरेवं पाठे सति शकलशब्दात् ष्फाणौ सिध्यत आह-- "कतन्तेभ्यः" इत्यादि। कतस्यान्तः कतन्त इति तत्पुरुषः "कतन्तेभ्यः"इति निपातनात्पररूपत्वम्। कतशब्दोऽन्ते येषां लोहितादीनां ते कतन्ता इति बहुव्रीहिः। कतन्तश्च शकलशब्दः, कतन्ताश्च लोहितादय इति कतन्तश्च कतन्ताश्चेति सरूपाणामेकशेषः। "तथा" इत्यादिना यथा कतन्तेभ्य इत्यत्र बहुव्रीहितत्पुरुषयोरेकशेषः, तथा कण्वादिभ्य इत्यत्रापीति दर्शयति। कण्वस्यादिः कण्वादिः शकलशब्दः कण्वशब्दः आदिर्येषां गोकक्षादीनां ते कण्वादयः, कण्वादिश्च कण्वादयश्च कण्वादयः, पूर्ववदेकशेषः। "तत्पुरुषवृत्त्यासंगृहीतः"इति। "कतन्तेभ्यः" इत्यत्र "कण्वादिब्यः" ४।२।११० इत्यत्र तत्पुरुषवृत्त्या तत्पुरुषसमासेन। "मध्यापीत" इति। कतकण्वशब्दयोर्गणयोर्वा। "प्रत्ययद्वयम्" इति। ष्फप्रत्ययम्, अण्प्रत्ययञ्च। "प्रतिपद्यते" इति। प्राप्नोति। तत्पुरुषवृत्त्याहि तस्य संग्रहे सत्यस्य सूत्रस्यायमर्थो जायते-- कतन्ताच्छकलशब्दात् तथा यञन्तात् कतन्तेभ्यश्च लोहितादिभ्यो यञन्तेभ्यः स्त्रियां ष्फप्रत्ययो भवतीति। तेन ष्फप्रत्ययं प्रतिपद्यते शकलशब्दः। "शाकल्यायनी" इति। "कण्वादिभ्यो गोत्रे" ४।२।११० इत्यत्रापि तत्पुरुषवृत्त्या शकलशब्दस्य संग्रहे सत्ययमर्थो भवति। कण्वादेः शकलशब्दान्ताद्गोत्रप्रत्ययान्तात् कण्वादिभ्यो गोकक्षान्तेभ्यो गोत्रप्रत्ययान्तेभ्यः शैषिकेष्वर्थेष्वण्प्रत्ययो भवतीति। तेनाण्प्रत्ययमपि शकलशब्दः प्रतिपद्यते-- शाकल्यस्येमे छात्राः शाकला इति॥
बाल-मनोरमा
सर्वत्र लोहितादिकतन्तेभ्यः ४६९, ४।१।१८

सर्वत्र लोहितादिर्गर्गाद्यन्तर्गणः। लोहित आदिर्येषामिति, कतोऽन्तो येषामिति च विग्रहः। "कतन्ते"त्यत्र शकन्ध्वादित्वात्पररूपम्। "यञ" इत्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते। "प्राचां ष्फ तद्धितः" इति सूत्रं "प्राचां"वर्जमनुवर्तते। सर्वत्रेति। सर्वेषु मतेष्वित्यर्थः। नित्यमिति यावत्। तदाह--लोहितादिभ्य इत्यादिना। लौहित्यायनीति। लोहितस्यापत्यं स्त्रीति विग्रहः। लोहितशब्दाद्गर्गादियञन्तात् ष्फः। ष इत्, फकारस्यायन्,"यस्येति चे"ति यकारादकारस्य लोपः, "तद्धितः" इत्यप्यनुवृत्तेः षित्त्वान्ङीषिति भावः। कात्यायनीति। पूर्ववत्प्रक्रिया बोध्या।

तत्त्व-बोधिनी
सर्वत्र लोहितादिकतन्तेभ्यः ४२३, ४।१।१८

सर्वत्र। सर्वषां मत इत्यर्थः। तदेतत्फलितमाह--नित्यं ष्फः स्यादिति। नन्वारम्भसामथ्र्यान्नित्।त्वे सिद्धे सर्वत्रग्रहणं व्यर्थमिति चेत्। अत्राहुः--पूर्वसूत्रे बाधकबाधनोपयुक्तस्येह स्पष्टार्थमभ्युपगमान्न वैयथ्र्यमिति। "यञ"इत्यनुवर्तनादाह--यञन्तेभ्य इति। लोहितादिर्गर्गाद्यन्तर्गण इति भावः। लौहित्यायनीति। "सांशित्यायानी""बाभ्राव्यायणी"त्यदायोऽपि ज्ञेयाः। ननु गर्गादौ कत--कण्व-शकलेति पठ()ते, तथा च "शाकल्यायनी"ति रूपं न सिध्येत्। यदि तु लोहितादिकार्यार्थं कतशब्दात्प्रागेव शकलब्दः पठ()ते, तथा च "शाकल्यायनी"ति रूपं न सिध्येत्। यदि तु लोहितादिकार्यार्थं कतशब्दात्प्रागेव शकलब्दः पठ()ते तर्हि शाकल्यस्य छात्राः शाकला इत्यत्र "कण्वादिभ्यो गोत्रे"इति कण्वादिकार्यमण् न सिध्येत्। उच्यते--कतकण्वशकलेति गणपाधे कण्वशब्दात् पूर्वं शकलशब्दः पठितव्यः।"कतन्तेभ्य"इत्यत्र कतस्याऽन्तः कतन्तः, कतोऽन्तो येषां ते कतन्ताः। शाकन्ध्वादित्वात्पररूपम्। कतन्तश्च कतन्ताश्चेति बहुव्रीहितत्पुरुषयोरेकशेषोऽभ्युपेयः। तथा "कण्वादिभ्य"इत्यत्रापि कण्वस्यादिः कण्वादिः, कण्व आदिर्येषामिति बहुव्रीहितत्पुरुषयोरेकशेषस्तथा च सर्वेष्टसिद्धिरिति।