पूर्वम्: ४।१।२०
अनन्तरम्: ४।१।२२
 
सूत्रम्
द्विगोः॥ ४।१।२१
काशिका-वृत्तिः
द्विगोः ४।१।२१

द्विगुसंज्ञकात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति। पञ्चपूली। दशपूली। कथं त्रिफला? अजादिषु दृश्यते।
न्यासः
द्विगोः। , ४।१।२१

"पञ्चपूली" इति। पञ्चानां पूलानां समाहार इति। "तद्धितार्थोत्तरपदसमाहारे च" २।१।५० इति समाहारद्विगुः। "अकारान्तोदत्तरपदो द्विगुः स्त्रियां भाष्यते" (वा। १५६) इति स्त्रीलिङ्गता। "त्रिफला" इति। त्रयाणां फलानां समाहार इति। पूर्ववद् द्विगुः॥
बाल-मनोरमा
द्विगोः ४७३, ४।१।२१

द्विगोः। "स्त्रिया"मिति "अत" इति "ङी" बिति चानुवर्तते। तदाह-अदन्तादिति। त्रिलोकीति। त्रयाणां लोकानां समाहार इति विग्रहः। "तद्धितार्थोत्तरपदसमाहारे चे"ति द्विगुसमासः। "अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः" इति स्त्रीत्वम्। त्रिलोकशब्दाट्टाबपवादो ङीप्। "यस्येति चे"ति भावः। ननु त्रिफला त्र्यनीका इत्यत्रापि ङीप् प्राप्नोतीत्यत आह--अजादित्वात्रिफला त्र्यनीकेति। "भवती"ति शेषः। त्रयाणां फलानां समाहार इति, त्रयाणामनीकानामिति च विग्रहे "तद्धितार्थ" इति द्विगुः। "अकारान्तोत्तरपदः" इति स्त्रीत्वम्, "द्विगोः" इति ङीपं बाधित्वाऽजादित्वाट्टाबिति भावः। अनीकशब्द ऐन्द्रवायवाग्रत्वे शुकाग्रत्वे आग्रयणाग्रत्वे च वर्तते इति त्र्यनीकाधिकरणे मीमांसकाः। अपरिमाण। "द्विगोः" इति ङीबिति चानुवर्तते। प्रातिपदिकादित्यधिकृतमपरिमाणादिभिर्विशेष्यते। तदन्तविधिः।