पूर्वम्: ४।१।२४
अनन्तरम्: ४।१।२६
 
सूत्रम्
बहुव्रीहेरूधसो ङीष्॥ ४।१।२५
काशिका-वृत्तिः
बहुव्रीहेरूधसो ङीष् ४।१।२५

ऊधस्शब्दान्ताद् बहुव्रीहेः स्त्रियां ङीष् प्रत्ययो भवति। ऊधसो ऽनङ् ५।४।१३१ इति समासान्ते कृते अनो बहुव्रीहेः ४।१।१२ इति डाप्प्रतिषेधयोः प्राप्तयोरिदम् उच्यते। घटोध्नी। कुण्डोध्नी। बहुव्रीहेः इति किम्? प्राप्ता ऊधः प्राप्तोधाः। अन उपधालोपिनो ऽन्यतरस्याम् ४।१।२८ इत्यस्य अपि ङीपो ऽयम् उत्तरत्र अनुवृत्तेर् बाधक इष्यते। समासान्तश्च स्त्रियाम् एव। इह न भवति, महोधाः पर्जन्यः इति।
न्यासः
बहुव्रीहेरूधसो ङीष्। , ४।१।२५

"ऊधसोऽनङिति समासान्ते कृते" इति। अकृत एव समासे बहुव्रीह्रर्थं उत्तरपदे पूर्वं समासान्तेन भवितव्यमिति प्राक् ततः समासान्त एव भवति, ततो बहुव्रीहिः ततः स्त्रीप्रत्ययः-- इत्येवैवानुपूर्वी।"अनो बहुव्रीहेः" इत्यादि। इतिशब्द आद्यर्थे। "अनो बहुव्रीहेः" ४।१।१२ इत्यादिना शास्त्रान्तरेणेत्यर्थः। तत्र "अनो बहुव्रीहेः" इत्यनेन सूत्रेण प्रतिषेधे प्राप्ते "डाबुभाभ्यामन्यतरस्याम्" ४।१।१३ इत्यनेन डाप्। "कुण्डोघ्नी" इति। कुण्डमिवोधोऽस्या इति बहुव्रीहिः,"अल्लोपोऽनः" ६।४।१३४ इत्यकारलोपः। "प्राप्तोधाः" इति। "प्राप्तापन्ने च द्वितीयया" २।२।४ इति तत्पुरुषः, "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः। "अन उपधालोपिनः"इत्यादि। "अन उपधालोपिनोऽन्यतरस्याम्" ४।१।२८ इत्येतेनापि विधीयमानस्य ङीपोऽयं ङीब्बाधक इष्यते। कथं पुनरिहोच्यमानस्तस्य बाधको भवति? उत्तरसूत्रानुवृत्तेः। असत्यानुत्तरत्रानुवृत्तौ "मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते" (व्या।प।१०) इत्येवमयं ङीब्डाप्प्रतिषेधावेव बाधते, नोपधालोपिनो ङीषम्। ततशचोपधालोपिनः परत्वात् स एव पक्षे भवेत्। तस्मात् "अन उपधालोपिनः" ४।१।२८ इत्यत्रास्यानुवृत्तिः कत्र्तव्याः। तेनोपधालोपिनोऽप्यूधसन्तान्ङीषेव भवति। "समासान्तश्च स्त्रियामेव" इति। समासान्तविधेरनित्यत्वात्। अनित्यत्वं तु पुनरूधःशब्देन सकारान्तेनासमासान्तेन विशेषणाद्विज्ञायते। यदि हि नित्यः स्यात् "बहुव्रीहेरूघ्नः" इति निर्देशः स्यात्॥
बाल-मनोरमा
बहुव्रीहेरूधसो ङीष् ४७८, ४।१।२५

बहुव्रीहेः। "ऊधस" इति बहुव्रीहेर्विशेषणम्, तदन्तविधिः, स्त्रियामित्यधिकृतम्। तदाह--ऊधोऽन्तादिति। कुण्डोध्नीति। अनङि कृते ङीषि "अल्लोपोऽनः" इति भावः। "ऊधस्तु क्लीबमापीन"मित्यमरः। ङीष्विधेस्तु स्वरे विशेषः फलम्। स्त्रियां किमिति। ङीष्विधौ स्त्रियामित्यनुवृत्तिः किमर्थेति प्रश्नः। कुण्डोधो धैनुकमिति। कुण्डमिव ऊधोयस्येति विग्रहः। नपुंसकत्वस्फोरणाय "धैनुक"मिति विशेष्यम्। धेनूनां समूह इत्यर्थः। "अचित्तहस्तिधेनोष्ठक्"। "इसुसुक्तान्तात्कः" "आदिवृद्धिः, क्लीबत्वं लोकात्। अत्र स्त्रीत्वाऽभावान्न ङीषित्यर्थः। ननु मास्तु ङीष्, अनङ् तु कुतो न स्यात्, समासान्तप्रकरणस्थे ऊधसोऽनङ्विधौ "स्त्रिया"मित्यभावादित्यत आह--तद्विधाविति। ऊधसोऽनङ्विधौ "स्त्रिया"मित्युपसङ्ख्यानादित्यर्थः। बहुव्रीहेः किम्?। ऊधः प्राप्तेति विग्रहे "प्राप्तापन्ने च द्वितीयये"ति समासे "प्राप्तोधाः"।

तत्त्व-बोधिनी
बहुव्रीहेरूधसो ङीष् ४३१, ४।१।२५

ऊधोन्तस्य बहुव्रीहेरिति। समासान्तप्रकरणस्थत्वेऽप्यनङो न प्रत्ययत्वम्, अन्यथा ङित्त्ववैयथ्र्यापत्तेरिति प्राञ्चः। वस्तुतस्तु ष्यङ इव प्रत्ययत्वेऽप्यादेशत्वमविरुद्धं, "कुण्डोध्नी"त्यत्र ङीषि कृते स्वरेऽपि विशेषाऽभावादिति बोध्यम्। स्त्रियामिति। उपसङ्ख्यानाल्लब्धमेतत्। डाम्ङीन्बिषेधेष्बिति। "डाबुभाभ्या"मिति वैकल्पिको डाप्। "अन उपधालोपिनोऽन्यतरस्या"मिति विकल्पेन ङीप्। "अनो बहुव्रीहे"रित्यनेन "ऋन्नेभ्य"इति प्राप्तस्य ङीपो निषेध इथि विवेकः। ङीष् स्यादिति। पर्कृतो ङीबेव तु न विहितः, स्वरे विशेषात्। कुण्डोन्धीति। कुण्डमिव ऊधो यस्याः सा। बहुव्रीहेः किम्()। प्राप्ता ऊधः--प्राप्तोधाः। "प्राप्तापन्ने चे"ति समासः। धैनुकमिति। "अचित्तहस्ती"ति समूहार्थे ठक्। "इसुसुक्तान्तात्कः"। स्त्रियामित्युपसङ्ख्यानादिति। नन्विहैव लाघवार्थं "बहुव्रीहेरूधसो ङीषे" "नश्चे"ति सूत्र्यताम् "अनङ् चे"ति वा। समासान्तेषु "ऊधसो न"ङिति च त्यक्त्वा "धनुषो न"ङित्येव पठ()ताम्। मैवम्। कबभावे सावकाशस्याऽस्य पक्षे कपा बाधपत्तेः। सिद्धान्ते त्वनङः समासान्ततया शेषत्वमेवेह नास्तीति न कप्।