पूर्वम्: ४।१।३५
अनन्तरम्: ४।१।३७
 
सूत्रम्
पूतक्रतोरै च॥ ४।१।३६
काशिका-वृत्तिः
पूतक्रतोरै च ४।१।३६

पूतक्रतुशब्दस्य स्त्रियाम् ऐकारश्चान्तादेशो भवति, ङीप् प्रत्ययः। पूतक्रतोः स्त्री पूतक्रतायी। त्रय एते योगाः पुंयोगप्रकरने द्रष्टव्याः। यया हि पूताः क्रतवः पूतक्रतुः सा भवति।
न्यासः
पूतक्रतोरै च। , ४।१।३६

"ऐकारश्चान्तादेशो भवति" इति। कुतः पुनरेतदवसितम्-- आदेज्ञोऽयमिति, न पुनः प्रत्ययः? उत्तरसूत्रेऽप्यादेशत्वात्। उत्तरसूत्रे ह्रयमेवैकारोऽनुवत्र्तते, तत्र चास्यादेशत्वम्। अत इहाप्यादेशत्वमवसीयते। उत्तरसूत्रे कुतोऽस्यादेशत्वं निश्चितमिति चेत्? उदात्तवचनात्। यदि हि प्रत्ययः, तस्याद्युदात्तत्वादुदात्तवचनमनर्थकं स्यात्; प्रत्ययस्वरेणैवोदात्तत्वस्य सिद्धत्वात्। "त्रय एते योगाः" इति। अयं चैकः, वक्ष्यमाणौ चानन्तरौ-- द्वौ-- एते त्रयो योगाः पुंयोगप्रकणे "पुंयोगादाख्यायाम्" ४।१।४८ इत्येवमादौ द्रष्टव्याः; तस्मिन्नेषां स्वरितत्वेनानुवृत्तेः। पूतः क्रतुर्येन पुकषेण स पूतक्रतुः, तस्य स्त्री पूतक्रतायी॥
बाल-मनोरमा
पूतक्रतोरै च ४८६, ४।१।३६

पूतक्रतोरै च। "ऐ" इति लुप्तप्रथमाकम्। पूतक्रतुशब्दात्स्त्रियां ङीप्स्यात्, प्रकृतेरैकारोऽन्तादेशश्चेत्यर्थः।

इयं त्रिसूत्रीति। वार्तिकमिदम्। पूतक्रतोरित्यादिसूत्रत्रयं पुंयोगात्स्त्रियां वृत्तावेवेत्यर्थः। पूतक्रतायीति। पूतः क्रतुर्येन स पूतक्रतुः, तस्य स्त्रीत्यर्थे ङीप्, तकारादुकारस्य ऐकारः , तस्य आयादेश इति भावः। पुंयोग इत्यस्य प्रयोजनमाह--ययेति। वृषाकप्यग्नि। "ऐ चे"त्यनुवर्तते। तदाह--एषामिति।

तत्त्व-बोधिनी
पूतक्रतोरै च ४३९, ४।१।३६

पूतक्रतोरै च। ऐकार आदेशो ननु प्रत्ययः, उत्तरसूत्रे उदात्तग्रहणात्। नत्विति। अन्यथा "लाघवन्ते इति मध्योदात्तो वृषाकपिशब्द उदात्तत्वं प्रयोजयति, अग्न्यादिषु त्रिषु "स्थानेऽन्तरतमः"इत्येव सिद्ध"मिति वृत्त्यादिग्रन्था विरुध्येरन्निति भावः।