पूर्वम्: ४।१।३७
अनन्तरम्: ४।१।३९
 
सूत्रम्
मनोरौ वा॥ ४।१।३८
काशिका-वृत्तिः
मनोरौ वा ४।१।३८

ऐ उदात्तः इति वर्तते। मनुशब्दात् स्त्रियां ङीप् प्रत्ययो भवति, औकारश्चान्तादेशः, ऐकारश्च उदात्तः। वाग्रहणेन द्वावपि विकल्प्येते। तेन त्रैरूप्यं भवति। मनोः स्त्री मनायी। मनावी। मनुः। मनुशब्दः आद्युदात्तः।
न्यासः
मनोरौ वा। , ४।१।३८

"वाग्रहणेन द्वावपि विकल्प्येते" इति। प्रत्येकं वाग्रहणेनाभिसम्बन्धात्। यदा चैकारौकारौ न भवतस्तदा ङीबपि न भवति ; तस्य सन्नियोगशिष्टत्वात्। "मनुशब्द आद्युदात्तः" इति। एतेनोदात्तग्रहणमनुवत्र्तयितव्यम्; अन्यथा शेषस्यानुदात्तत्वे स्थानिवद्भावेनादेशस्याप्यनुदात्तत्वं स्यादिति भावः। "मन ज्ञाने" (धा।पा।११७६) "{भृमृशीतृचरित्सरितनिममस्ज्भ्य उः-- द।उ।}भृमृशीतृचरित्सरितनिधनिमिमस्ज्भ्य उः" (द।उ।१।९२) इत्यनुवत्र्ताने "धान्ये नित्" (द।उ।१।९४) इति च "शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमानिभ्यश्च" (द।उ।१।९५) इत्युप्रत्ययः, नित्वात् "ञ्नित्यादिर्नित्यम्" ६।१।१९१ इत्याद्युदात्तत्वं भवति मनुशब्दस्य॥
बाल-मनोरमा
मनोरौ वा ४८८, ४।१।३८

मनोरौ वा। ऐ चेति, उदात्त इति, ङीबिति चानुवर्तते। तदाह--मनुशब्दस्येति। उदात्तैकारश्च वेति। औकारः, उदात्त एकारश्च वा स्यादित्यर्थः। "उदात्तैकार" इति समासनिर्देशादुदात्त इत्यौकारेण न संबध्यत इति सूचितम्, एतच्च वृत्तिपदमञ्जर्योः स्पष्टम्। चकारान्ङीप् एकारौकाराभ्यां समुच्चीयते। तदाह--ताभ्यामिति। एकारौकाराभ्यां समुच्चयेनैव विहित इत्यर्थः। ततश्च तदुभयाऽभावपक्षे ङीबपि नेति लभ्यते, "संनियोगशिष्टानां सह वा प्रवृत्तिः" सह वा निवृत्तिः" इति परिभाषावशादिति भावः। इयं तु परिभाषा "पूतक्रतोरै चे"ति सूत्रभाष्ये स्थिता। मनायीति। "यद्वै किं च मनुरवद"दित्यादौ मनुशब्दः "ञ्नित्यादिनित्यम्" इत्याद्युदात्तः। "धान्ये नित्" इत्यतो निदित्यनुवृत्तौ "शृ()स्वृस्निही"त्यादिना मनेरुप्रत्ययविधेः। ततश्च सिष्टस्वरेण नकारादुकारोऽनुदात्तः। तस्य स्थाने उदात्त ऐकारः, तस्यायादेशो ङीप् चेति भावः। मनावीति। अत्रौकारोऽनुदात्त एव। मनुरिति। ऐकारस्य औकारस्य चाऽभावे तत्संनियोगशिष्टो ङीबपि नेत्युक्तमेव।