पूर्वम्: ४।१।३९
अनन्तरम्: ४।१।४१
 
सूत्रम्
अन्यतो ङीष्॥ ४।१।४०
काशिका-वृत्तिः
अन्यतो ङीष् ४।१।४०

वा इति निवृत्तम्। वर्णादनुदात्तातिति वर्तते, तोपधापेक्षम् अन्यत्वम्। वर्णवाचिनः प्रातिपदिकादनुदात्तान्तात् स्त्रियां ङीष् प्रत्ययो भवति। स्वरे विशेषः। सारङ्गी। कल्माषी। शबली। वर्णातित्येव, खट्वा। अनुदात्तातित्येव, कृष्णा। कपिला।
न्यासः
अन्यतो ङीष्। , ४।१।४०

"सारङ्गी, कल्माषी" इति। "लघावन्ते" (फि।सू।२।४२) इत्यादिना मध्योदात्तौ सारङ्गकल्मावशब्दौ। "शवली" इति। "शप अक्रोशे" (धा।पा।१०००), "कलस्तृपश्च" (द।उ।८।१०७) इति "शपेर्वश्च" (द।उ।८।१०८) इति कलप्रत्ययः, पकारस्य बकारः, प्रत्यायाद्युदात्तत्वेन मध्योदात्तः शबलशब्दः। "खट्वा" इति। "खट काङ्क्षायाम् (धा।पा।३०९), "अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्" (द।उ।८।१२५) इति क्वन्, नित्सर्वेरणाद्युदात्तः खट्वाशब्दाः। "कृष्णा" इति। "कृष विलेखने" (धा।पा।९९०) "{इण्सिञ्दीङुष्यविभ्यो नक्--द।उ।) इण्सिञ्जिदीङुष्यविभ्यो नक्", "कृषेर्वर्णे" (द।उ।५।३५।३७) इति नक्, प्रत्ययस्वरेणान्तोदात्तः कृष्णशब्दः। "कपिला" इति। "कमु कान्तौ" (धा।पा।४४३) "सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्" (पं।उ।१५५), "कमेः पश्च" (पं।उ।१।५६) इति मकारस्य पकारः, चित्स्वरेणाणान्तोदात्तः कपिलाशब्दः॥
बाल-मनोरमा
अन्यतो ङीष् ४९०, ४।१।४०

अन्यतो ङीष्। पञ्चम्यास्तसिः। वर्णादिति, अनुदात्तादिति, तोपधादिति चानुवर्तते। तत्र कस्मादन्यत इत्यपेक्षायां तोपधादिति प्रतियोगित्वेनान्वेति--तोपधापेक्षया अन्यत इति। तदाह--तोपधभिन्नादिति। कल्माषीति। चित्रवर्णेत्यर्थः। "चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे" इत्यमरः। सारङ्गीति। सारङ्गः शबले त्रिषु" इत्यमरः। "फिषोऽन्त उदात्तः" इत्यन्तोदात्तत्वशङ्कां व्युदस्यति--लघाविति। एतत्सूत्रं "वृषाकपी"ति सूत्रव्याख्यावसरे व्याख्यातम्। कृष्णा कपिलेति। फिट्स्वरेणान्तोदात्ताविमाविति भावः।

तत्त्व-बोधिनी
अन्यतो ङीष् ४४१, ४।१।४०

लघा४वन्त इति। अन्ते एकस्मिन् लघौ द्वयोश्च लध्वोः परतो बह्वषो =बह्वच्कस्य गुरुरुदात्तः स्यात्। "अ"षित्यचः प्राचां संज्ञा। कृष्णोत्यादि। "कृषश्चे"ति नक्प्रत्यये "कपेश्चे"ति सौत्राद्धातोरौणादिके इलचि च कृष्णकपिलावन्तोदात्तौ।