पूर्वम्: ४।१।४०
अनन्तरम्: ४।१।४२
 
सूत्रम्
षिद्गौरादिभ्यश्च॥ ४।१।४१
काशिका-वृत्तिः
षिद्गौरादिभ्यश् च ४।१।४१

ङीषनुवर्तते। षिद्भ्यः प्रातिपदिकेभ्यो गौरादिभ्यश्च स्त्रियाम् ङीष् प्रत्ययो भवति। शिल्पिनि ष्वुन् ३।१।१४५ नर्तकी। खनकी। रजकी। गौरादिभ्यः गौरी। मत्सी। गौर। मत्स्य। मनुष्य। शृङ्ग। हय। गवय। मुकय। ऋष्य। पुट। द्रुण। द्रोण। हरिण। कण। पटर। उकण। आमलक। कुवल। बदर। बम्ब। तर्कार। शर्कार। पुष्कर। शिखण्ड। सुषम। सलन्द। गडुज। आनन्द। सृपाट। सृगेठ। आढक। शष्कुल। सूर्म। सुब। सूर्य। पूष। मूष। घातक। सकलूक। सल्लक। मालक। मालत। साल्वक। वेतस। अतस। पृस। मह। मठ। छेद। श्वन्। तक्षन्। अनडुही। अनड्वाही। एषणः करणे। देह। काकादन। गवादन। तेजन। रजन। लवण। पान। मेध। गौतम। आयस्थूण। भौरि। भौलिकि। भौलिङ्गि। औद्गाहमानि। आलिङ्गि। आपिच्छिक। आरट। टोट। नट। नाट। मलाट। शातन। पातन। सवन। आस्तरन। आधिकरण। एत। अधिकार। आग्रहायणी। प्रत्यवरोहिणी। सेवन। सुमङ्गलात् संज्ञायाम्। सुन्दर। मण्डल। पिण्ड। विटक। कुर्द। गूर्द। पट। पाण्ट। लोफाण्ट। कन्दर। कन्दल। तरुण। तलुन। बृहत्। महत्। सौधर्म। रोहिणी नक्षत्रे। रेवती नक्षत्रे। विकल। निष्फल। पुष्कल। कटाच्छ्रोणिवचने। पिप्पल्यादयश्च। पिप्पली। हरीतकी। कोशातकी। शमी। करीरी। पृथिवी। क्रोष्ट्री। मातामह। पितामह। मातामहपितामहयोः मातरि षिच् च ४।२।३५ इति षित्त्वादेव सिद्धे ज्ञापनार्थं वचनम्, अनित्यः षिल्लक्षणो ङीषिति, तेन दंष्ट्रा इत्युपपन्नं भवति।
लघु-सिद्धान्त-कौमुदी
षिद्गौरादिभ्यश्च १२५८, ४।१।४१

षिद्भ्यो गौरादिभ्यश्च स्त्रियां ङीष् स्यात्। गार्ग्यायणी। नर्तकी। गौरी। अनुडुही। अनड्वाही। आकृतिगणोऽयम्॥
लघु-सिद्धान्त-कौमुदी
द्विगोः १२६०, ४।१।४१

अदन्ताद् द्विगोर्ङीप्स्यात्। त्रिलोकी। अजादित्वात्त्रिफला। त्र्यनीका सेना॥
न्यासः
षिद्?गौरादिभ्यश्च। , ४।१।४१

"षिद्भ्यः प्रातिपदिकेभ्यः" इति। षकार इद्येषां तानि। कथं पुनः प्रातिपदिकानि षिन्ति भवन्ति, यावता ध्वुनादेः प्रत्ययस्य षकार इत्संज्ञकः,न तु तेषाम्? नैष दोषः; अवयवगतं हि षित्त्वं समुदायस्य विशेषणं भविष्यति, यथा-- अक्षिगतं काणत्वं पुरुषस्य --काणः पुरुष इति। यद्येवम्, धातुगतमपि षित्त्वं समुदायस्य विशेषणं प्राप्नोति, "त्रपूष् लज्जायाम्" (धा।पा।३४७), अङ, अपत्रपेति? नैतदस्ति; यो ह्रनुबन्धोऽवयवे निष्प्रयोजनः स समुदायार्थो विज्ञायते। धातोस्तु विद्यत एव षित्करणस्य नान्यत् प्रयोजनमस्ति, अतः समुदयार्थमेव तद्विज्ञायते। "रजकी" इति। अत्र "रञ्जेश्च" ६।४।२६ इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वादनुनासिकलोपः। गौरादिषु गौरशब्दस्य सत्यपि वर्णवाचित्वे प्रातिपदिकस्वरेणान्तोदात्तत्वात् पूर्वेण प्राप्नोतीतीह पाठः। मत्स्यादीनां यकारोपधानाम् "अयोपधात्" ४।१।६३ इति जातिलक्षणस्य ङीषः प्रतिषेधे प्राप्ते। शृङ्गशब्दस्य प्राक् ()आञ्शब्दात् पुटादीनाञ्चानन्दवर्ज्जितानां स्त्रीविषयत्वात् शृङ्गशब्दस्य प्राप्ते पुटादीनां चास्त्रीविषया ४।१।६३दिति प्रतिषेधे प्राप्ते। आनन्दशब्दस्याजातिवाचित्वान्ङीष्यप्राप्ते। ()आंस्तक्षन्नित्येतयोः "ऋन्नेभ्यो ङीप्" ४।१।५ इतिङीपि प्राप्ते। अनुडुह्रनड्वाहीत्यनयोरनकारान्तत्वान्ङीप्यप्राप्ते। इकारान्तयोः सप्रत्ययोर्गणे पाठः पुंवद्भावप्रति,#एधार्थः-- अनडुहीभार्यः, अनड्वाहीभार्य इति। एतदेव वचनं ज्ञापकम्-- अनडुहः स्त्रियां विकल्पेनाम्भवतीति। तेन यदुक्तम्-- "अनडुहः {स्त्रियां वेति -- वा।पाठ।} स्त्रियाञ्चेति वक्तव्यम्" (वा८२९) इति, तन्न वक्तव्यमिति भवति। "{एषणः का।वृ।}एषणं करणे" इति। एषणशब्दः करणे कारके ङीषमुत्पादयतीति। इष्यतेऽनयेत्येषणी। करण इति किम्? इष्यतेऽस्यामित्यधिकरणे ङीपि। मेध इत्यस्याजातित्वान्ङीष्यप्राप्ते। गौतमस्य शार्ङ्रगरवादित्वान्ङीनि प्राप्ते। पक्षे च वचनात्सोऽप#इ भवत्येव। आयस्थूणादीनामालिपिशब्दपर्यन्तानां "अणिञोरनार्षयोः" ४।१।७८ इति ष्यङि प्राप्ते। आयस्थूणशब्दः शिवाद्यणन्तः। "{भौरि,भौलिकि-गणपाठः} भौरिक्यादयः "अत इञ्" ४।१।९५ इतीञन्ताः। आपिच्छिकस्य ङीषि प्राप्ते। आपिच्छिकानां राजानः, तेषामपत्यं स्त्री। "जनपदशब्दात् क्षत्रियादञ्" ४।१।१६६ इत्यञ्, तस्य "अतश्च" ४।१।१७५ इति लुकि कृतेप्रत्ययलक्षणेन ङीप्प्राप्नोति। आरटादीनां प्राक् शातनशब्दात् स्त्रीविषयत्वान्ङीष्यप्राप्ते। शातनादीनां ल्युडन्तत्वान्ङीपि प्राप्ते। अधिकरणान्ङीपि। अग्रे हायनमस्य इत्याग्रहायणी। स्वार्थिकोऽण्, णत्वं निपातनात्। अणन्तत्वान्ङीपि प्राप्ते। ईकारान्तस्य पाठः पुंवद्भावप्रतिषेधार्थः-- आग्रहायणीभार्य इति। प्रत्यवरोहणसेवनयोर्ल्युडन्तयोष्टित्वान्ङीपि। केचित्तु पुंद्भावप्रतिषेधार्थं प्रत्यवरोहिणीति पठन्ति--प्रत्यवरोहिणीभार्य इति। "सुमङ्गलात्संज्ञायाम्" (इति)। "नित्यं संज्ञाच्छन्दसोः" ४।१।२९ इति वत्र्तमाने "केवलमामक" ४।१।३० इत्यादिना ङीपि प्राप्ते। पक्षे वचनात् सोऽपि भवति। संज्ञायामिति किम्? सुमङ्गला। सुन्दरादीनां प्राक् तरुणशब्दात् स्त्रीविषयत्वात् ङीष्यप्राप्ते। तरुणतलुनशब्दयोर्वयोलक्षणे ङीपि प्राप्ते। "नञ्स्नञीकक्तरुणतलुनानामुपसंख्यानम्" (वा।३३८) इत्यत्र तु वयोग्रहणम्। बृहन्महच्छब्दयोरुगित्वान्ङीपि प्राप्ते। "रोहिणी नक्षणे" इति। नक्षत्र इति किमर्थम्? रोहिता। "रेवती नक्षत्रे" इति किम्? येषां रेवतशब्दोऽत्राकारान्त इति दर्शनं तेषां प्रत्युदाहरणं टाप्-- रेवतेति। येषां त्विदं वचनम्-- राविद्यतेऽस्या इति रेशब्दान्मतुप्, निपातनाद्वत्वमिति, तेषां प्रत्युदाहरणम् "उगितश्च" ४।१।६ इति ङीप्-- रेवतीति। स्वरे विशेषः। विकलादीनां टापि प्राप्ते। कटशब्दाच्छोण्यभिधाने ङीष्। कटी श्रोणिरित्यर्थः। श्रोणिरिति किम्? कटा। "पिप्पल्यादयश्च" इति। एतावद्गणे पठ()ते। तांस्तु पिप्पस्यादीन् दर्शयितुं पिप्पली हरीतकीत्यादिकं वृत्तिकावचनम्। "पृथिवी" इति। ईकारान्तनिपातनं पुंवद्भावनिवृत्त्यर्थम्-- पृथिवीभार्य इति। क्रोष्टुशब्दस्य "स्त्रियां च" ७।१।९६ इतितृज्वद्भावः। "मातरि षिच्च" इति। "पितृष्यमातुलमातामहपितामहाः" ४।२।३५ इत्यत्र पितृमातृभ्यां पितरि वाच्ये डामहज्निपातयिष्यते। मातरि डामहजेव। तस्यापि षित्त्वम्। "दंष्ट्रा" इति। "{दन्श धा।पा।} दंश दशने" (धा।पा।९८९), "दाम्नीशस्" ३।२।१८२ इत्यादिनाष्ट्रन्। षिल्लक्षणस्यानित्यत्वान् ङीषष्टाब्भवति॥
बाल-मनोरमा
षिद्गौरादिभ्यश्च ४९१, ४।१।४१

षिद्गौरादिभ्यश्च। ष् इत् येषां ते षितः, गौर आदिर्येषां ते गौराभ्यः, षितश्च गौरादयश्चेति द्वन्द्वः। नर्तकीति। "नृती गात्रविक्षेपे" "शिल्पिनि ष्वुन्" "षः प्रत्ययस्य" इति षकार इत्, "हलन्त्य"मिति नकारश्च इत्, "युवोरनाकौ" इति अकादेशः, लघूपधगुणः, रपरत्वम्। नर्तकशब्दात्ङीष्, टापोऽपवादः, "यस्येति चे"त्यकारलोप इति भावः। गौरीति। ()ओतेत्यर्थः। फिट्स्वरेण अन्तोदात्तत्वात्। "अन्यतो ङीष्" इत्यप्राप्तेरिह विधिरिति भावः। संज्ञाशब्दो वाऽयम्। "उमा कात्ययनी गौरी"त्यमरः। "दशवर्षा भवेद्गौरी"ति स्मृतिः।

अनडुही अनड्वाहीति। अनडुहः स्त्रीत्यर्थः। अनो वहतीति यौगिको वा। गौरादिगणे निपातनादेव ङीपि आम्बिकल्पः। एवं च "अनुडुहः स्त्रियामाम् वेचि वक्तव्य"मिति न कर्तव्यमिति भावः

पिप्पल्यादयश्चेति। अत्र-गौर मत्स्य म मनुष्य, श्रृङ्ग, गवयं, हय, मुकय, गौतम, अनड्वाही, अनडुही, तरुण, तलुन ()आन्-इति पठित्वा "पिप्पल्यादयश्चे"त्युक्त्वा-पिप्पली, हरीतकी, कोशातकी, पृथिवी, मातामही इत्यादि पठितम्। पिप्पलीशब्दस्य जातिवाचित्वेऽपि नियतस्त्रीलिङ्गत्वान्ङीषोऽप्राप्तेरिह पाठः। ()आन्()शब्दस्य तु"ऋन्नेभ्यः" इति ङीपि प्राप्ते ङीषर्थ इह पाठः। स्वरे विशेषः। आकृतिगणोऽयमिति। गौरादिरित्यर्थः। पिप्पल्यादेरवान्तरगणत्वे प्रयोजनं चिन्त्यम्।

तत्त्व-बोधिनी
षिद्गौरादिभ्यश्च ४४२, ४।१।४१

षिद्गौरादि। नर्तकीति। नृतुधातोः "शिल्पिनि ष्वुन्"। ष्वुनः षित्त्वमवयवेऽचरितार्थत्वात्तदन्तस्य प्रातिपदिकस्य विशेषणम्। त्रपूषः षित्त्वस्याऽङ्विधौ चरितार्थत्वत्त्रपेत्यत्र तु न ङीष्। मृजेः षित्त्वमनार्षं, भिदादौ भृजेति पाठादित्याहुः। मृजेः षित्त्वादेवाह्, भिदादौ मृजेति पाठस्त्वनार्ष इत्यन्ये। गौरीति। गौरशब्दस्य वर्णवाचित्वेऽपि प्रातिपदिकस्वरेणान्तोदात्तत्वात् "अन्यतो ङीष्िति ङीष् न प्राप्नोतीतिहि गणे पाठः।

आमनडुहःस्त्रियां वा। अनङ्वाही। अनडुहीति। अनकारान्तत्वाज्जातिलक्षणस्य पुंयोगलक्षणस्य वा ङीषोऽप्राप्ततया गणेऽस्मिन्पठ()ते। प्रत्ययसहितपाठस्तु ङीषि परे आम्विकल्पार्थः। गौर मत्स्य मनुष्य श्रृङ्ग गवय हय मुकय[गौतम]अनङ्वाही अनडुही तरुण तलुन ()आन्।

पिप्पल्यादयश्च। पिप्पल्यादयश्च। पिप्पली।हरीतकी। कोशातकी। पृथिवी। मातामहीत्यादि। यत्तु प्राचा "ऋन्नेभ्यो ङीप्ित्यत्र "शुनी"त्युदाह्मतं तत्तु गौरादिगणे ()आन्शब्दपाठाऽदर्शनप्रयुक्तमित्याहुः। अत्र केचित्--नित्यस्त्रीत्वात् "जातेरस्त्रीविषया"दित्यप्राप्ते ङीषि पिप्पल्यादयो गौरादिषु पठ()न्ते, ङीषन्तपाठस्तु चिन्त्यप्रयोजनः। नच पिप्पली भार्या यस्य स पिप्पलीभार्य इत्यादौ पुंवद्भावं बाधित्वा ङीषः श्रवणं यथा स्यादित्येतदर्थः स इति वाच्यम्, भाषितपुंस्कत्वाऽभावादेव पुंवद्भावनिषेधसिद्धेः। किं चाऽवान्तरगणत्वाभ्युपगमोऽपि पिप्पल्यादेव्यर्थ एव। न चैवं जाताधिकारे "चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसङ्ख्यान"मित्यत्र पिप्ल्यादेराकृतिगणत्वात्पुनर्ङिषिति वक्ष्यमाणग्रन्थो विरुध्यत इति वाच्यं, गौरादेराकृतिगणत्वादित्यपि वक्तुं शक्यत्वादित्याहुः।