पूर्वम्: ४।१।४१
अनन्तरम्: ४।१।४३
 
सूत्रम्
जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुक- कबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्य- वर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु॥ ४।१।४२
काशिका-वृत्तिः
जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद् वृत्त्यमत्राऽवपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ४।१।४२

जानपदाऽदिभ्य एकादशभ्यः प्रातिपदिकेभ्य एकादशसु वृत्त्यादिष्वर्थेषु यथासङ्ख्यं ङीष् प्रत्ययो भवति। जानपदी भवति,वृत्तिश्चेत्। जानपदी अन्या। स्वरे विशेसः। उत्सादिपाठादञि कृते ङीपाद्युदात्तत्वं भवति। कुण्डी भवति, अमत्रं चेत्। कुण्डा ऽन्या। गोणी भवति, आवपनं चेत्। गोणा अन्या। स्थली भवति, अकृत्रिमा चेत्। स्थला अन्या। भाजी भवति, श्राणा चेत्। पक्वा इत्यर्थः। भाजा अन्या। नागी भवति, स्थौल्यं चेत्। नागा अन्या। नागशब्दो गुणवचनः स्थौल्ये ङीषमुत्पादयति, अन्यत्र गुण एव टापम्। जातिवचनात्तु जातिलक्षणो ङीषेव भवति। नागी। काली भवति, वर्णश्चेत्। काला अन्या। नीली भवति, अनाच्छादनं चेत्। नीला अन्या। न च सर्वस्मिन्ननाच्छादन इष्यते। किं तर्हि? नीलादोषधौ प्राणिनि च। नीली ओषधिः। नीली गौः। नीली वडवा। संज्ञायां वा। नीली, नीला। कुशी भवति, अयोविकारश्चेत्। कुशा अन्या। कामुकी भवति मैथुनेच्छा चेत्। कामुका अन्या। मैथुनेच्छावती भण्यते, नेच्छामात्रम्। कबरी भवति, केशवेशश्चेत्। कबरा अन्या।
न्यासः
जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनाऽयोविकारमैथुनेच्छाकेशवेशेषु। , ४।१।४२

वत्र्तते यया सा वृत्तिरिति जीवनोपायो वृत्तिशब्देनेहोच्यते। जनपदे भावा वृत्तिर्जानपदी। "उत्सादिभ्योऽञ्" ४।१।८६ इत्यञ्। "जनापद्यन्या" इति।"टिड्ढाणञ्" ४।१।१५ इति ङीबेव भवति। "स्वरे विशेषः" इति। ङीषि सति प्रत्ययस्वरेणान्तोदात्तत्वं भवति। ङीपि तु सत्याद्युदात्तत्वम्; जानपदस्य ञित्स्वरेणाद्युदात्तत्वात्। "अमत्रम्" इति। भाजनम् = पात्रम्। "कुण्डाऽन्या" इति। क्रियाशब्दोऽयमित्याहुः।"कुडि दाहे" (धा।पा।२७०), "गुरोश्च हलः" ३।३।१०३ इत्यकारतप्रत्ययः,"अजाद्यतष्टाप्" ४।१।४। यस्तु द्रव्यवचनः कुण्डशब्दः स नित्यं नुपंसक एव वत्र्तत इति प्रत्युदाहर्त्तुं न युक्त इति। "आवपनम्" इति। भाजनविशेष उच्यते, यत्र धान्यादि प्रक्षिप्य नीयते। "गोणाऽन्या" इति। सा पुनर्यस्या इदं यादृच्छिकं नाम। "अकृत्रिमा" इति। पुरुषव्यापारदिभिर्न निर्वृत्तेत्यर्थः। "स्थलाऽन्या" इति। या पौरुषेयी। "भाजी" इति। "भज विश्राणने" (धा।पा।१७३३) चुरादिणिच्। "ण्यासश्रन्थो युच्" ३।३।१०७ इति युच् प्राप्नोति। अस्मादेव निपातनादङ्, अङन्तान्ङीष्। "श्राणा" इति। "श्रा पाके" (धा।पा।८१०) इत्यस्मात् क्तः। "{संयोगादेरातो धातोर्यण्वतः"इति सूत्रम्"}संयोगादेर्धातोर्यण्वतः" ८।२।४३ इतिनत्वम्, "अट्कुप्वाङनुम्व्यवायेऽपि" ८।४।२ इति णत्वम्। "नागशब्दः" इत्यादि। नागशब्दो द्विविधः-- जातिवचनः, गुणवचनश्च। ततर् स्थौल्यग्रहणादिह न जातिवचनो ङीषमुत्पादयति, न हि जातिवचनस्य स्थौल्यमभिधेयं सम्भवति; नापि गुणान्तरवचनः; न हि गुणान्तरशब्दान्नागवचनान्ङीषन्ताद्गुणान्तरं प्रतीयते, अपि तु स्थौल्यमेव। तस्माद्यदाऽसौ स्थौल्यं गुणमभिधाय द्रव्ये वत्र्तते तदा ङीषमुत्पादयति, नान्यथा। "अन्यत्र" इत्यादि। स्थौल्यादग्यत्र गुण एव दैध्र्यादौ वत्र्तमानो नागशब्दो यदा द्रव्यं विशिनाष्टि तदा टापमुत्पादयति। "जातिवचनात्तु" इत्यादि। हस्तित्वादिजातिवचनात् "जातरेस्त्रीविषयात्" ४।१।६३ इत्यादिना ङीष्भवति। "वर्णश्चेत्" इति। द्रव्ये वत्र्तमानो यदि वर्णस्तस्य प्रयृत्तिनिमित्तं भवतीत्यर्थः। "कालाऽन्या" इति। यस्या यादृटच्छिकसंज्ञा। "नीलाऽन्या" इति। आच्छादनं शाटिकादि। अनाच्छादने, न सर्वत्र। किं तर्हि? "नीलादौषदधौ प्राणिनि च" इति। शब्दशक्तिस्वाभाव्यात्,तत्रैव नीलशब्दस्य वृत्तेः। अथ वा "मनोरौ वा" ४।१।३८ इत्यतो वाग्रहणमिहानुवत्र्तते, सा च व्यवस्थितविभाषा , तेनानयोरेवार्थयोस्ततो भविष्यति, नान्यत्रेति। "संज्ञायामेव" इति। अनाच्छादन एवायं विकल्पः। एषोऽपि तत एव वाग्रहानुवृत्तेर्लभ्यते। "अयोविकारः" इति। विशिष्ट एव "फालः" इति यस्य नामधेयम्। "कुशाऽन्या" इति। तदाकृतिरेव काष्ठादिमयी। "कामुकाऽन्या" इति। सा पुनर्यस्या मैथुनादन्यद्वस्तु कामयितुं शीलम्। "मैथुनेच्छवती भण्यते" इति। मत्वर्थीयाकारान्तस्य मैथुनेच्छाशब्दस्योपादानात्। "केशवेशः"इति। एतदाख्ये विशिष्ट एव। "कवराऽन्या" इति। वर्णोऽस्या" अस्तीति मतुप्, तस्या लोपादभेदोपचाराद्वा द्रव्ये यो वत्र्तते स वेदितव्यः॥
बाल-मनोरमा
जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककवराद्वृत्त्यमत्रावपनाकुत्रिमाश्राणास्थौल्यवर्णानाच्छादनयोविकारमैथुनेच्छाकेशवेशेषु ४९३, ४।१।४२

जानपद। जानपदेत्यादि कबरादित्यन्तमेकं पदम्। समाहारद्वन्द्वात्पञ्चमी। जानपदीति। जनपदे भवेत्यर्थः। वृत्तिश्चेदिति। जीविका गम्या चेदित्यर्थः। ननूत्सादित्वादञि ङीपैव सिद्धे ङीष्विधिव्र्यर्थ इत्यत आह--उत्सादित्वादिति। "अनुदात्तौ सुप्पितौ" इति ङीप्याद्युदात्तत्वम्। ङीषि तु प्रत्ययस्वरेणान्तोदात्तत्वमिति भेद इत्यर्थः। कुण्डीति। पिठरं स्थाल्युखा कुण्डम्" इत्यमरः। "पात्राऽमत्रे च भाजन"मिति च कुण्डशब्दस्य स्त्रीत्वमपि ङीष्विधिसामथ्र्यात्। "पिठरे तु न ना कुण्ड"मिति वि()आः। कुण्डाऽन्येति। दहनीयेत्यर्थः। तदेव विशदयति-कुडि दाहे इति। गुरोश्चेति। गुरुमतो हलन्ताद्धातोरप्रत्ययः स्याद्भावकर्णणोः स्त्रियामिति तदर्थः। ननु "अमृते जारजः कुण्डो मृते भर्तरि गोलकः" इति मनुष्यजातिविशेषवाची कुण्डशब्दोऽपि प्रत्युदाहरणं किं न स्यादित्यत आह--यस्त्विति। जातिलक्षण इति। जातेरस्त्रीविषया"दिति जातिनिमित्तर इत्यर्थः। नन्वमत्रेऽपि वाच्ये कुण्डशब्दाज्जातिलक्षणङीषि सिद्धे तद्वचनं व्यर्थम्। नच अमत्र एव ङीषिति नियमार्थं तदिति वाच्यम्, एवं सति मनुष्यजातिविशेषवाचित्वे ङीषोऽनुत्पत्तेरित्यत आह--अमत्रे हीति। "जातेरस्त्रीविषया"दित्यनित्यस्त्रीलिङ्गान्ङीष् विहितः। अमत्रे कुण्डशब्दो नित्यस्त्रीलिङ्गः, "पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्व"मिति स्वीकारात्। "कुण्डी कमण्डलौ जारात्पतिपत्नीसुते पुमान्" इति मेदिनीकोशाच्च। तथाच कुण्डशब्दाज्जातिलणङीषप्राप्त #एव विधीयते, नतु नियम्यते। अतो मनुष्यजातिवाचित्वेऽपि ङीष् निर्बाध इति भावः। आवपनं चेदिति। ओप्यते निक्षिप्यते अस्मिन्नित्यर्थे आङ्()पूर्वाद्वपेर्ल्युट्। गोणाऽन्येति। कस्याश्चिदिदं नाम। अकृत्रिमा चेदिति। इदामीन्तनपुरुषपरिष्कृता भूमिः कृत्रिमा, तद्भिन्नेत्यर्थः। स्थलाऽन्येति। कृत्रिमेत्यर्थः। "स्थलयोदकं परिगृह्णन्ति" इति यजुर्वेदे। भाजीति। भज्यते सेव्यते इति कर्मणि घञ्। "घञजबन्ताः पुंसि" इति तु प्रायिकम्। श्राणा चेदिति। "यवागूरुष्णिका श्राणा" इत्यमरः। भूजाऽन्येति। अश्राणेत्यर्थ #ः। "श्रा पाके"क्तः। "संयोगादेरातो धातोर्यण्वतः" इति निष्ठानत्वम्, णत्वं च। पक्तेत्यर्थः। नागशब्दस्य स्थौल्ये क्वाप्यप्रसिद्धेराह--गजवाचीति। वर्णश्चेदिति। वर्णः प्रवृत्तिनिमित्तं चेदित्यर्थः। वर्णविशिष्टा चेदिति यावत्। अन्यथा कालशब्दस्य "गुणे शुक्लादयः पुंसि" इति पुंस्त्वापात्तात्। सूत्रे वर्णा इति च्छेदः। अर्शाअद्यजन्तट्टाप्। कालाऽन्येति। क्रौर्ययुक्तेत्यर्थः। संज्ञाशब्दो वा। अनाच्छादनं चेदिति। वस्त्रभिन्नं गवादिकमित्यर्थः। नीलाऽन्येति। नन्वत्राच्छादनस्य विशेष्यत्वे स्त्रीत्वानुपपत्तिः। पटीत्यस्य विशेष्यत्वेऽपि नीलवर्णवती पटीत्यर्थे ङीषोऽप्रसक्तिरेव, "नीलादोषधौ, प्राणिनि चे"ति नियमस्य वक्ष्यमाणत्वादित्यत आह--नील्यारक्तेति। नील्या ओषध्या रागविशेषं प्राप्तेत्यर्थः। ननु कथमयमर्थो लभ्यत इत्यत आह--नील्या अनिति। "तेन रक्तं रागा"दित्यत्रेदं वार्तिकम्। नीलीशब्दादन्प्रत्यये सति "यस्येति चे"ति लोपे नीलशब्दः, तस्य नीलीरक्तवाचकस्य विशेषणांशे ओषधिवाचकत्वसत्त्वात् "नीलादोषधौ प्राणिनि चे"ति नियमे सत्यपि ङीषः प्राप्तेस्तन्निवृत्त्यर्थमनाच्छदानाग्रहणमिति भावः। ननु नीला कुण्डीत्यत्रापि अनाच्छादनत्वान्ङीष् स्यादित्याशङ्क्य आह--अनाच्छादनेऽपीति। "नीवादोषधौ प्राणिनि चे"ति वार्तिकमेतत्। नीलादनाच्छादनेऽपि भवन्ङीष् ओषधौ प्राणिनि चैव स्यात्, न त्वन्यत्रेत्यर्थः। एवं च नीला कुण्डीत्यादौ न ङीषिति भावः। "संज्ञायां वा" इत्यपि वार्तिकम्। संज्ञायामुक्त विषये तदन्यत्रापि ङीष् वा स्यादित्यर्थः। अयोविकारश्चेदिति। फाला इति प्रसिद्धः। कुशाऽन्येति छन्दोगसूत्रे "प्रस्तोता तु कुशाः कारयेद्यज्ञियस्य वृक्षस्य खदिरस्य दीर्घसूत्रेष्वेके प्रादेशमात्रीः कुशपृष्ठास्त्वक्तस्समाभज्जते" इति प्रसिद्धा। कामुकीति। कामयितुं शीलमस्या इति विग्रहे "लषपते"त्यादिना कमेरुकञ्। मैथुनेच्छावती चेदित्यर्थः। अर्शाअद्यजन्ताट्टाप्। कामुकान्येति। धनादीच्छावतीत्यर्थः।

तत्त्व-बोधिनी
जानपदकुण्डगोणस्छलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ४४४, ४।१।४२

जानपदीति। जनपदे भवा। वृत्तिश्चेदिति। वर्ततेऽनयेति वृत्तिर्जीविका।कुण्डीति। "अस्त्री कमण्डलुः कुण्डी"त्यमरः। कुण्डाऽन्येति। क्रियाशब्दोऽयम्। अत एवाह--कुडि दाह इत्यादि। यस्तु घटपर्यायः कुण्डशब्दः स न प्रत्युदाहरणम्। "पठिरः स्थाल्युखा कुण्ड"मिति तस्य नपुंसकत्वात्। अग्न्यालयादिपर्यायोऽपि कुण्डशब्दो नपुंसकलिङ्गे नियतः। "कुण्डमग्न्यालये मानभेदे देवलाशये"इति मेदिनीकोशात्। आवपनं चेदिति। आङ्पूर्वाद्वपेरधिकरणे ल्युट्। ओप्यते निक्षिप्यते धान्यं यस्मिन्। गोणाऽन्येति। यस्या यादृच्छिकं नाम। अकृत्रिमेति। यथा "सैषा स्थली यत्र विचिन्वता त्वा"मिति स्थलाऽन्येति। कृत्रिमा--पुरुषेण संस्कृता। श्राणा--पक्वा।

प्राणिनि च। अयोविकार इति। "फाल"इति प्रसिद्धः। कुशाऽन्येति। छन्दोगाः स्तोत्रीयागणनार्थानौदुम्बरान् शङ्कून् "कुशा"इति व्यवहरन्ति। "अतःकृकमी"ति सूत्रे प्रसिद्ध एवाऽयम्। कामुकाऽन्येति। मैथुनादन्यद्धनादिकं कामयितुं यस्याः शीलं सेत्यर्थः। "लषपते"त्युकञ्।