पूर्वम्: ४।१।४३
अनन्तरम्: ४।१।४५
 
सूत्रम्
वोतो गुणवचनात्॥ ४।१।४४
काशिका-वृत्तिः
वा उतो गुणवचनात् ४।१।४४

गुणम् उक्तवान् गुणवचनः। गुणवचनात् प्रातिपदिकादुकारान्तात् स्त्रियां वा ङीष् प्रत्ययो भवति। पट्वी, पटुः। मृद्वी, मृदुः। उतः इति किम्? शुचिरियं ब्राहमणी। गुणवचनातिति किम्? आखुः। वसुशब्दाद् गुणवचनाद् ङीबाद्युदात्तार्थम्। वस्वी। खरुसंयोगोपधात् प्रतिषेधो वक्तव्यः। खरुरियं ब्राह्मणी। पाण्डुरियं ब्राह्मणी। सत्त्वे निविशते ऽपैति पृथग् जातिषु दृश्यते। आधेयश्च अक्रियाजश्च सो ऽसत्त्वप्रकृतिर् गुणः।
लघु-सिद्धान्त-कौमुदी
वोतो गुणवचनात् १२६२, ४।१।४४

उदन्ताद् गुणवाचिनो वा ङीष् स्यात्। मृद्वी, मृदुः॥
न्यासः
वोतो गुणवचनात्। , ४।१।४४

"गुणमुक्तवान् गुणवचनः" इति। भूते काले ल्युटो विधानात्। स पुनर्यः प्राग् गुणमभिधाय पश्चान्मतुब्लोपादभेदोपचाराद्वा तद्वद्द्रव्यमभिधत्ते स वेदितव्यः। "पट्वी, मृद्वी" इति। अत्र पटुत्वं मृदुत्वञ्च यताक्रमं गुणमभिधाय पटुमृदुशब्दौ तद्वति द्रव्ये वत्र्तेते इति गुणवचनौ भवतः। "शुचिः" इति। शुचिशब्दः शुचित्वे गुणे वर्त्तित्वा द्रव्ये वत्र्तत इति गुणवचनः, न तूकारान्तः। "आखुः" इति। जातिवचनोऽयम्, न गणवचनः। "गुणवचनान्ङीबाद्युदात्तार्थम्" इति। गुणवचनान्ङीब्विधेयः, न ङीष्। स्वरे विशेषः। किमर्थम्? आद्युदात्तार्थम्। अन्तोदात्तेषु "उदात्तयणो हल्पूर्वात्" ६।१।१६८ इत्युदात्तत्वमीकारस्य विधीयत इति नास्ति विशेषो ङीब्ङीषोः। आद्युदात्तेषु तु ङीबनुदात्त एवावतिष्ठते, तस्मात् तदर्थं ङीब्विधेयः। ननु च ङीष् प्रकृतः, तत् कथं ङीप् शक्यते विधातुम्? नैष दोषः; ङीबेव ह्रत्र मण्डूकप्लुतिन्यायेनानुवत्र्तते, न ङीष्; अस्वरितत्वात्। "वस्वी" इति। "वस निवासे" (धा।पा।१९४२) "भृमृशीतृचरित्सरितनि{धनि-नास्ति-द।उ।} धनिमिमस्जिभ्य उः" (द।उ।१।९२) इति वत्र्तमाने "धान्ये नित्" (द।उ।१।९४) इति च शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिवन्धिमनिभ्यश्च" (द।उ।१।९५) इत्युप्रत्ययः, निच्च, नित्त्वादाद्यदात्तत्वं भवति। गुणवचनश्चायं वसुशब्दः, वसुत्वे गुणे वर्त्तित्वा तद्वति द्रव्ये वत्र्तत इति कृत्वा। पटुशब्दोऽप्याद्युदात्तत्वान्ङीपं प्रोजयति। "अट पट गतौ" (धा।पा।२९६,२९७), हेतुमण्णिच्, "फलिपाटिनमिमनिजनां गुक् पटिनाकिधतश्च" (द।उ।१।१०३) इत्युप्रत्ययः, पाटेश्च पटिरादेशः, "धान्ये नित्" (द।उ।१।९४) इत्यनुवृत्तेर्नत्वादाद्युदात्तत्वम्। मृदुशब्दश्च प्रत्ययस्वरेणान्तोदात्त इति, तत्र ङीपो ङीषो वा विशेषो नास्ति। "म्रद मर्दने" (धा।पा।७६७), "कुभ्र्रश्च" (द।उ।१।१०७) इत्यतः कुरित्यनुवत्र्तमाने "प्रथिम्रदिभ्रस्जां सम्प्रसारणं च" (द।उ।१।११३) इति कुप्रत्ययः, सम्प्रसारणं च भवति। "खरुसंयोगोपधप्रतिषेधः" इति। खरुशब्दात् संयोगोपधाश्च प्रतिषेधः। स तु वेत्यस्य व्यवस्थितविभाषाविज्ञानादेव लभ्यत इति वक्तव्यमिति। "उतः" इति तपरकरणं दीर्घनिवृत्त्यर्थम्, तेन पटुरित्यत्र न भवति। पटुमिच्छतीति "सुपः आत्मनः क्यच्" ३।१।८, "अकृत्सार्वधातुकयोः" ७।४।२५ इति दीर्घः। पटू य इति स्थिते क्विप्, "अतो लोपः" ६।४।४८ इत्यकारलोपः, "लोपो व्योर्वलि" ६।१।६४ इति यकारस्य लोपः। इह "उतः" इति विशेषणोपादनादेव शास्त्रीयगुणस्यापरिग्रहः सिद्धः म ह्रेदेङ्गां मध्ये कश्चिदुकारान्तोऽस्ति। लोके तु क्वचिदुपसर्जनं गुण इत्यभिधीयते, यथा-- गुणभूता वयमिति, अप्रधानभूता इति गम्यते। यस्य गुणस्य हि भावात् तद्वति द्रव्यशब्दे निवेशस्तदभिधाने त्वतलावित्यत्र विशेषणमात्रं गुणशब्देनोच्यते, तथा हि, जातावपि भावप्रत्ययो भवति-- इह तु यादृशो गुण इष्यते तादृशं परिभाषितुमाह-- "सत्त्वे निवशतेऽपैति" इत्यादि। व्यवच्छेदफलकत्वात् सर्ववाक्यानां सत्तव एवेत्यवधारणं द्रष्टव्यम्। सत्त्वम् = द्रव्यम्, तत्रैव निविशते, तदेवाश्रयतीत्यर्थः। अपैति = ततः सत्त्वादपगच्छथि, यथा-- आम्रफले श्यामता पूर्वमुपैति, रक्ततायामुपजातायां ततोऽपैति। "पृथग्जातिषु दृश्यते" (इति)। पृथक् = नाना जातयो येषां ते पृथग्जातयः, अतस्तेषु पृथग्जातिषु दृश्यते। न हि गोत्वम()आआदिषु व्यक्तिषु दृश्यते। गोव्यते। गोव्यक्तौ दृष्टः शङ्()खादावपि शुक्लादिर्गुणौ दृश्यते। एतेन सर्वेण जातिर्गुणो न भवतीत्युक्तं भवति। न हि जातिद्र्रव्यमेवाश्रयति। यथा हि सत्ता द्रव्यगुणकर्मसु त्रिष्वपि वत्र्तते, द्रव्यत्वं द्रव्य एव, कर्मत्वं कर्मण्येव, गुणत्वं गुण एव, नापि द्रव्यवर्तिनी जातिः सत्त्वादपैति; जन्मनः प्रभृत्या विनाशात्तस्याधारद्रव्यापरित्यागात् न जातिः पथग्जातिषु दृश्यते। न हि गोत्वम()आआदिव्यक्तिषु दृश्यते, नाप्य()आत्वं गवादिष्विति नास्ति जातेर्गुणत्वप्रसङ्गः। कर्मणस्तु स्यात्; तदपि हि सत्त्व एव निवशिते यदा सक्रियं द्रव्यं भवति, अपैति च ततो यदा तु निष्क्रियं भवति। "पृथग्जातिषु दृश्यते" इति। घटपटादिषु दृश्यते। अतः रक्तता गुणः, स ह्रग्निसन्नियोगेन निष्पाद्यते। "अक्रियाजश्च" इति। क्रिया = व्यापारः, ततो जातः क्रियाजः, न क्रियाजोऽक्रियाजः = नित्यः, यथा-- आकाशादिषु महत्त्वादिर्गुणः। तदेवं गुणस्योत्पाद्यत्वानुत्पाद्यत्वप्रकारद्वयदर्शनेन कर्मणो गुणत्वनिवृत्तिः कृता भवति। तद्ध्युत्पाद्यमेव, नानुत्पाद्यम्। एवमपि द्रव्यस्य गुणत्वं प्राप्नोति,तस्यापि ह्रेते धर्मा विद्यन्ते।तथा हि-- तदपि यदि द्रव्य एवारम्भकेऽवयवभूते निविशते, अपैति च ततः, यथा-- शरीरमवयवीति। तद्धि हस्तपादादिष्ववयवेषु समवैति; तद्विनाशे च विनाशात् ततोऽपैति। पृथग्जातिषु दृश्यते, हस्त्यादिषु दृश्यते। द्रव्यस्यापि पूर्वोक्तं प्रकारद्वयमस्त्येव। अवयविद्रव्यस्योत्पाद्यत्वादाकाशादेस्तद्वदनुत्पाद्यत्वात्? इत्यत आह-- "सोऽसत्त्वप्रकृतिर्गुणः"इति। प्रकृतिः = स्वभावः। सत्त्वं द्रव्यं प्रकृतिर्यस्य स सत्त्वप्रकृतिः, न सत्त्वप्रकृतिरसत्त्वप्रकृतिः। यथोक्तैर्धर्मैर्युक्तो यो द्रव्यस्वभावो न भवति स गुणः। द्रव्यम् = द्रव्यस्वभावम्, अतो गुणो न भवति॥
बाल-मनोरमा
वोतो गुणवचनात् ४९५, ४।१।४४

वोतो गुणवचनात्। प्रातिपदिकादित्यनुवृत्तम्। वा उत इतिच्छेदः। उता गुणवचनस्य प्रातिपदिकस्य विशेषणात्तदन्तविधिः। तदाह--उदन्तादिति। वा ङीबिति। ङीषिति नात्रानुवर्तते। "गुणवचनान्ङीबाद्युदात्तार्थः" इति वार्तिकादिति भावः। मृद्वीति। मृदुशब्दान्ङीपि यण्। अत्र-"सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते। आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः" इति भाष्ये गुणलक्षणमुक्तम्। सत्त्वं द्रव्यं समवायिकारणं, तत्रैव निविशते समवैति यः स गुण इत्यन्वयः। द्रव्यमात्रसमवेत इति यावत्। मात्रपदात्सत्ताजातिव्र्यवच्छिद्यते, तस्या द्रव्यगुणक्रियावृत्तित्वात्। अथ द्रव्यत्वेऽतिव्याप्तिवारणाय आह--अपैतीति। कतिपयद्रव्येभ्योऽपगच्छतीत्यर्थः। द्रव्यत्वस्य सर्वद्रव्यवृत्तित्वान्नातिव्याप्तिरिति भावः। एवमपि क्रियायामतिव्याप्तिवारणाय आह--आधेयश्चाक्रियाजश्चेति। आधीयते उत्पाद्यते इत्याधेयः=उत्पाद्यः, अक्रियाजः=अनुत्पाद्यः। उत्पाद्यत्वाऽनुत्पाद्यत्वाभ्यां द्विविध इति यावत्। गुणोनित्याऽनित्यभेदेन द्विविधो भवति। नित्यगतानां गुणानां नित्यत्वात्, अनित्यगतानामनित्यत्वात्। क्रियायास्तु सर्वस्या अप्युत्प#आद्यत्वान्नातिव्याप्तिरिति भावः। एवमपि द्रव्येऽतिव्याप्तिः, तस्य अवयवद्रव्यसमवेतत्वादसमवायिकारणसंयोगनाशे ततोऽपायात्, विजातीयपार्थिवाद्यवयवेषु सत्त्वात्, नित्याऽनित्यभेदसत्त्वाच्च।?त आह--असत्त्वप्रकृतिरिति। अद्रव्यस्वभाव इत्यर्थः। द्रव्यभिन्न इति यावत्।?त्र मात्रपदेन सत्ताजातेः, अपैतीत्यनेन द्रव्यत्वस्य, पृथग्जातिषु दृश्यते इत्यनेन गोत्वादिजातेश्च निरासत्ताद्भिन्नत्वमिति लब्धम्। "आधेयश्चाक्रियाजश्चे"त्यनेन क्रियानिरासात्क्रियाभिन्नत्वं लब्धम्। असत्वप्रकृतीरित्यनेन द्रव्यस्य निरासाद्द्रव्यभिन्नत्वं लब्धम्। तथाच जातिभिन्नत्वे सति क्रियाभिन्नत्वे सति द्रव्यभिन्नत्वे सति समवेतत्वं गुणलक्षणं निष्कृष्टं वेदितव्यम्। समवेतत्वाऽभावादभावनिरासः। अत्र "नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव" इति तार्किकाभिमतविशेषपदार्थाङ्गीकारे तद्भिन्नत्वमपि निवेश्यम्। "आकडारादेक संज्ञा" इति सूत्रभाष्ये तु "समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दव्यतिरिक्तमर्थवच्छब्दरूपं गुणवचनसंज्ञं भवती"त्युक्तम्। तदिदं प्रकृतसूत्रभाष्यस्थलक्षणस्यास्योक्तस्य प्रपञ्चनपरं वेदितव्यम्। परन्तु आकडारसूत्रभाष्ये संख्याशब्दभिन्नत्वमप्युपात्तम्। तदप्युक्तलक्षणे निवेश्यम्। न चैवमपि मृदुपट्वादिशब्दानां गुणविशिष्टद्रव्यवाचित्वाद्गुणवचनत्वाऽभाव इति वाच्यं, गुणवचनेत्यन्वर्थसंज्ञया गुणोपसर्जनद्रव्यवाचित्वस्यैव विवक्षितत्वात्। एवं च रूपशब्दस्य न गुणवचनता तस्य प्राधान्येन रूपवाचितया रूपवति प्रयोगाऽभावात्। रूपादिशब्दस्यापि गुणवचनशब्देन ग्रहणे "गुणवचनेभ्यो मतुपो लुगिष्टः" इत्यत्रापि रूपादिशब्दानां ग्रहणापत्तौ "रूपो घटः" इत्यादिप्रयोगापत्तेः। प्रपञ्चितं चैदरूणाधिकरणेऽस्माभिरध्वरमीमांसाकुतूहलवृत्तौ। शुचिरिति। शुक्लेत्यर्थः। "शुक्लशुभ्रशुचि()ओतविशदश्येतपाण्डराः" इत्यमरः। नच शुचिधातोः "इगुपधात् कि"दित्यौणादिके इप्रत्यये उत्पन्नस्य शुचिशब्दस्य आकडारसूत्रे भाष्ये कृदन्तस्य गुणवचनत्वपर्युदासादेवात्र ङीष् न भविष्यतीति वाच्यम्, उणादीनामव्युत्पत्तिपक्षाश्रयणात्। आखुरिति। मूषिकेत्यर्थः। आखोस्तु जातिविशिष्टद्रव्यवचनत्वादुक्तगुणवचनत्वाऽभावान्न ङीप्। "खरुसंयोगापधान्ने"ति वार्तिकम्। खरुश्च संयोगापधश्चेति समाहारद्वन्द्वः। खरुशब्दात् संयोगोपधाञ्च "वोतो गुणवचनादि"ति ङीप् नेत्यर्थः। खरुशब्दमप्रसिद्धत्वाद्व्याचष्टे--पतिंवरा कन्येति। पतिलाभोत्कण्ठावतीत्यर्थः। औत्कण्ठ()लक्षणगुणोपसर्जनद्रव्यवाचितया गुणवाचित्वात् प्राप्तिः। पाण्डुरिति। ()ओतेत्यर्थः। संयोगोपधत्वान्न ङीप्।

तत्त्व-बोधिनी
वोतो गुणवचनात् ४४६, ४।१।४४

गुणवचनात्। गुणो नाम नेहादेङ्रूपः, "उतः"इति विशेषणाद्वचनग्रहणाच्च, नापि विशेषणमात्रमिदम्, आखुद्र्रव्यमित्यादावतिप्रसङ्गादिति चेत्। अत्राहुः--"संज्ञाजातिक्रियाशब्दान् हित्वाऽन्ये गुणवाचिनः"। "चतुष्टयीशब्दानां प्रवृत्तिरित्याकरग्रन्थनिष्कर्षादेव निर्णयः" इति। भाष्ये तु "सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते। आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः।"इति स्थितम्। सत्त्वं द्रव्यम्। सत्त्व एव निविशतो इति सावधारणं व्याख्येयम्। एतेनसत्ता व्यावर्त्त्यते। सा हि न केवलं द्रव्ये वर्तते किन्तु द्रव्यगुणकर्मसु। ननु द्रव्य एव द्रत्र्यत्वं वर्तत इति तत्राऽतिव्याप्तिरत आह---अपैतीति। अपगच्छतीत्यर्थः। अर्थात्सत्त्वादेव। यथा पीततायां जातायां फलादेर्नीलताऽपैति, नैवं द्रव्यत्वं द्रव्यादपैति। एवमपि गोत्वं गोषु वर्तते अ()आआदेश्चापैति तत्रातिव्याप्तिरत आह--पृथग्जातिषुदृश्यत इति। गोत्वं हि द्रव्यत्वाऽवान्तरनानाजातिषु न दृश्यते। गुणस्तु दृश्यते। यथा अम्रे दृष्टा नीलता तृणादिष्वपि दृश्यते। एतेन पूर्वार्धेन सकलजातेव्र्यवच्छेदः। एवं तर्हि कर्म द्रव्ये वर्तते ततोऽपैति पृथग्जातिषु दृश्यते चेति तत्रातिव्याप्तिरत आह--आधेयश्चाक्रियाजश्चेति। उत्पाद्योऽनुत्पाद्य इत्यर्थः। उत्पाद्यो--यथा घटादेः पाकजो रूपादिः। अक्रियाजोऽनुत्पाद्यः। स यथा आकाशादेर्महत्त्वादिः। क्रिया तु सर्वाप्युत्पाद्यैव न नित्येति तस्या द्वेविध्याऽभावाद्गुणत्वाऽभावाः। एवमपिल द्रव्यस्य गुणत्वं प्राप्नोति, अवयविद्रव्यं ह्रस्तपादादिषु दृश्यते, द्विविधं च भवति नित्याऽनित्यभेदेन, निरवयवस्याऽत्मपरमाण्वादेर्नित्यात्वादवयविद्रव्यस्य तु घटादेरनित्यत्वादत आह--असत्त्वपर्कृतिरिति। अद्रव्यस्वभाव इत्यर्थः। पतिवरेति। एवं च पाणिग्रहणोत्कण्ठाभिधायित्वाद्गुणवचनोऽयमिति भावः।