पूर्वम्: ४।१।४
अनन्तरम्: ४।१।६
 
सूत्रम्
ऋन्नेभ्यो ङीप्॥ ४।१।५
काशिका-वृत्तिः
ऋन्नेभ्यो ङीप् ४।१।५

ऋकारान्तेभ्यो नकारान्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति ङकारः सामान्यग्रहणार्थः। कर्त्री। हर्त्री। दण्डिनी। छत्रिणी।
लघु-सिद्धान्त-कौमुदी
ऋन्नेभ्यो ङीप् २३३, ४।१।५

ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप्। क्रोष्ट्री गौरीवत्॥ भ्रूः श्रीवत्॥ स्वयम्भूः पुंवत्॥
न्यासः
ऋन्नेभ्यो ङीप्। , ४।१।५

"ङकारः सामान्यग्रहणार्थः" इति। असति हि तस्मिन् "ङ्याप्प्रातिपदिकात्" ४।१।१ इत्यत्र ङीति ङीग्ङीषोरेव ग्रहणं स्यात्। न ङीपः॥
बाल-मनोरमा
ऋन्नेभ्यो ङीप् ३०४, ४।१।५

ऋन्नेभ्यो ङीप्। ऋतस्च नाश्चेति द्वन्द्वः। "स्त्रिया"मित्यधिकृतम्। "ङ्याप्प्रातिपदिकात्" इत्यतः प्रातिपदिकग्रहणमनुवृत्तमृन्नकारैर्विशेष्यते। अतस्तदन्तविधिस्तदाह--ऋदन्तेभ्य इत्यादिना। ङपावितौ। क्रोष्टृ ई इति स्थिते यणि क्रोष्ट्रीशब्दात्सुबुत्पत्तिः। गौरीवद्रूपाणीत्याह--क्रोष्टीत्यादि। इत्युदन्ताः। अथ ऊदन्ताः। वधूर्गौरीवदिति। "वहो धश्चे"त्यूप्रत्ययः, हस्य धश्च। धात्ववयवोवर्णाऽभावान्नोवङ। ऊकारस्य यण्वकार इत्यादिविशेषस्तु सुगम इति भावः। भ्रूः श्रीवदिति। "भ्रमेश्च डूः" इति डूप्रत्ययान्तोऽयम्। "अचि श्नुधातुभ्रुवा"मित्युवङित्यादिविशेषस्तु सुगम इति भावः। सु=शोभना भ्रूर्यस्याः सा सुभ्रूः। अस्त्रीप्रत्ययान्तत्वात् "गोस्त्रियो"रिति ह्यस्वो न भवति। नेयङुवङ्स्थानावस्त्री ति भ्रूशब्दस्य तदन्तस्य च निषेधान्नदीत्वं न। ततश्च "अम्वार्थे"त्यादि नदीकार्यं नेत्यभिप्रेत्याह--हे सुभ्रूरिति॥ कथं तर्हीति। यदि सुभ्रूशब्दे नदीकार्यं न स्यात्तदा "हा पितः क्वासि हे सुभ्रु" इति कथं भट्टिराहेत्यर्थः। रावणेन सीतापहारोत्तरं रामविलापोऽयम्। हे सुभ्रु त्वयाऽहं हापितोऽस्मि विधिनेत्यर्थः। "हापित" इत्यस्य त्याजित इत्यर्थः। प्रमाद इति। "अम्बार्थे"ति ह्यस्वस्य करणादिति भावः। बहव इति कतिपये सामान्ये नपुंसकत्वमाश्रित्य कथं"चित्समादधुः। खलपूः पुंवदिति। खलपवनस्य उत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियां वर्तमानत्वाऽभावेन नित्यस्त्रीत्वाऽभावान्नदीत्वं नेति भावः। पुनर्भूरिति। "पुनर्भूर्दिधिषूरूढाद्विः" इत्यमरः। तस्य "नेयङुवङि"ति नेषेधमाशङ्क्याह-दृन्करेतीति। "अम्शसोःपूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा "दृन्करे"ति यणिति मत्वाह--पुनर्भ्वं पुनर्भ्वाविति। पुनर्भ्वाः। नद्यन्तत्वान्नुटि दीर्घे पुनर्भूनामिति स्थिते रेफान्नकारस्य भिन्नपदस्थत्वात् "अट्कुप्वा"ङित्यप्राप्ते-।

तत्त्व-बोधिनी
ऋन्नेभ्यो ङीप् २६६, ४।१।५

ऋन्नेभ्यो। ऋत्-ऋकारः, नो--नकारः। प्रयोगापेक्षं बहुत्वम्। प्रातिपदिकविश्षणात्तदन्तविधि-। "स्त्रिया"मिति चाधिक्रियते, तदाह-ऋदन्तेभ्ये इत्यादि। क्रोष्ट्रीति। "स्त्रियां चे"त्येतस्ताङ्गत्वादङ्गेन प्रत्ययस्याक्षेपाद्विभक्तौ परत एवेह तृज्वद्भावस्ततो खीबिति बोध्यम्। भ्रूरिति। भ्रमतीति भ्रूः। "भ्रमस्चे डूः"इति भ्रमतेर्ङूप्रत्ययः। डित्त्वाट्टिलोपः। हे सुभ्रूरिति। डूप्रत्ययस्याऽस्त्रीप्रत्ययत्वाद्गोस्त्रियोरिति ह्यस्वो न भवति। "नेयङुवङ्स्थाना"विति नदीसंज्ञानिषेधात्संबुद्धिह्यस्वोऽपि नेति भावः। ह्यस्वोऽत्रानुपपन्न इत्याक्षिपति----कथं तर्हीति। "विमानना सुभ्रु पितुर्गृहे कुतः"इति कालिदासप्रयोदोऽप्यनुपपन्न इति बोध्यम्। बहव इति। केचुत्तु--"नेयहुवं"ङिति सूत्रे"वामी"त्यतो वाग्रहणमपकृष्य व्यवस्थितविभाषां चाश्चित्यसमादधिरे। तदसत्। तथा सतीह "न"ञ्ग्रहणं "वामी"त्युत्तरसूत्रं च व्यर्थं स्यात्, "वेयङुवङ्स्थानौ"इत्येव वक्तुं शक्यत्वात्। अन्ये तु--"सामान्ये नपुंसक"मिति कथञ्चित्समादधुः।