पूर्वम्: ४।१।५०
अनन्तरम्: ४।१।५२
 
सूत्रम्
क्तादल्पाख्यायाम्॥ ४।१।५१
काशिका-वृत्तिः
क्तादल्पाऽख्यायाम् ४।१।५१

करणपूर्वातित्येव। करणपूर्वात् प्रातिपदिकात् क्तान्तादल्पाख्यायां ङीष् प्रत्ययो भव्ति। अल्पाख्यायाम् इति समुदायोपाधिः। अभ्रविलिप्ती ख्यौः। सूपविलिप्ती पात्री। अल्पसूपा इत्यर्थः। अल्पाख्यायाम् इति किम्? चन्दनानुलिप्ता ब्राह्मणी।
न्यासः
क्तादल्पाख्यायाम्। , ४।१।५१

"अभ्रविलिप्ती" इति। "लिप उपदेहे" (धा।पा।१४३३), अस्मात् क्तः। अल्पैरभ्रैर्विलिप्तेत्यस्यामर्थविवक्षायां पूर्ववत्प्राक्सुबुत्पत्तेः समासः। अल्पशब्दस्तु गतार्थत्वान्न प्रयुज्यते। "चन्दनानुलिप्ता" इति। बहुचन्दनानुलिप्तेत्यर्थः॥
बाल-मनोरमा
क्तादल्पाख्यायाम् ५००, ४।१।५१

क्तादल्पाख्यायां। करणादेरिति। करणपूर्वादित्यनुवृत्तेरिति भावः। क्तान्तादिति। क्तान्तान्तादित्यर्थः, प्रत्ययग्रहणपरिभाषालब्धक्तान्तेन प्रातिपदिकस्य विशेषणात्। अदन्तादिति। "अत" इत्यनुवृत्तेरिति भावः। अल्पत्वे द्योत्ये इति। "अल्पाख्याया"मिति समुदायोपाधिः। अल्पत्वं करणगतं क्रियागतं वा। अभ्रलिप्ती द्यौरिति। अभ्रैरल्पैराच्छन्नेत्यर्थः। अभ्रैरीषदाच्छन्नेति वा।

तत्त्व-बोधिनी
क्तादल्पाख्यायाम् ४५१, ४।१।५१

क्तादल्पाख्यायाम्। अत्र व्याचख्युः--"अल्पाख्याय"मिति समुदायोपाधिः। अल्पैरभ्रैर्लिप्ता अब्रालिप्ती। कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहण"मिति समुदायस्यापि क्तान्तत्वान्ङीष्। यद्यपि पूर्वपदार्थस्य अभ्राणमेवाल्पत्वं गम्यते तथापि तदल्पत्वे सति तद्विलेपनस्याप्यल्पत्वमवश्यं भावीति समुदायोपाधित्वमल्पत्वस्य सङ्गच्छत इति।