पूर्वम्: ४।१।५६
अनन्तरम्: ४।१।५८
 
सूत्रम्
सहनञ्विद्यमानपूर्वाच्च॥ ४।१।५७
काशिका-वृत्तिः
सहनञ्विद्यमानपूर्वाच् च ४।१।५७

स्वाङ्गाच् च उपसर्जनातिति, नासिकौदरओष्ठजङ्घादन्तकर्ण। शृग्गाच् च ४।१।५५ इति च प्राप्तो ङीष् प्रतिषिध्यते। सह नञ् विद्यमान एवं पूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति। सकेशा। अकेशा। विद्यमानकेशा। सनासिका। अनासिका। विद्यमाननासिका।
न्यासः
सहनञ्विद्यमानपूर्वाच्च। , ४।१।५७

"सकेशा" इति। सह केशैर्वर्तत इति। "तेन सहेति तुल्योगे" २।२।२८ इति समासः। "वोपसर्जनस्य" ६।३।८१ इति सहस्य सभावः। "अकेशा"इति। अविद्यमानाः केशा अस्येति, "नञोऽस्त्यर्थानां बहुव्रीहिरुत्तरपदलोपश्च" (वा।१०२) इति विद्यमानशब्दलोपः। अथ पूर्वग्रहणं किम्, सहनञ्विद्यमानादित्येवोच्येत, एतया हि पञ्चम्या स्वाङ्गे विशेष्यमाणे सहादिपूर्वता लभ्यत एव? नैतदेवम्; पञ्चमी हि परत्वेन स्वाङ्गं विशेषयेत्-- सहादिभ्यः परं यत् स्वाङ्गमिति। ततश्च सहादिभ्यः परेण स्वाङ्गेनान्यस्यापि कल्याणं विद्यमानमुखमस्या इति विग्रहः। अथ वा-- विद्यमानं मुखं यस्य स विद्यमानमुखः, कल्याणो विद्यमानमुखो यस्या इति विग्रहः। पूर्वग्रहणे सति पूर्वशब्दस्यावयववाचित्वात् सहादिपूर्वत्वेन प्रातिपदिकं विशेष्यत इति सहाद्यवयवं यत् स्वाङ्गान्तं प्रातिपदिकं तस्मादिति विज्ञायमाने नात्र प्रतिषेधो भवति, न ह्रेतत् सहाद्यवयवमेव। किं तर्हि? कल्याणशब्दावयवमिति न भवत्यनिष्टप्रसङ्गः॥
बाल-मनोरमा
सहनञ्विद्यमानपूर्वाच्च ५०६, ४।१।५७

सहनञ्। त्रिकपूर्वादिति। "स्वाङ्गा"दिति शेषः। सकेशेति। सह केशा यस्या इति बहुव्रीहिः। सहशब्दो विद्यमानवचनः। "वोपसर्जनस्ये"ति सभावविकल्पः। "स्वाङ्गाच्चे"ति प्राप्तस्य निषेधः। "नासिकोदर" इति ङीष्विकल्पोऽप्यनेन बाध्यत इत्युक्तं स्मारयितुमुदाहरति --विद्यमाननासिकेति। विद्यमाना नासिका यस्या इति बहुव्रीहिः।

तत्त्व-बोधिनी
सहनञ्विद्यमानपूर्वाच्च ४५६, ४।१।५७

सकेशाष अविद्यमानाः केशा यस्याः सा--अकेशा।