पूर्वम्: ४।१।५८
अनन्तरम्: ४।१।६०
 
सूत्रम्
दीर्घजिह्वी च च्छन्दसि॥ ४।१।५९
काशिका-वृत्तिः
दीर्घजिह्वी च च्छन्दसि ४।१।५९

दीर्घजिह्वी इति छन्दसि विषये निपात्यते। संयोगोपधत्वादप्राप्तो ङीष् विधीयते। दीर्घजिह्वी वै देवानां हव्यमवालेट्। चकारः संज्ञानुकर्षणार्थः। दीर्घजिह्वी इति निपातनं नित्यार्थम्।
न्यासः
दीर्घजिह्वी च च्छन्दसि। , ४।१।५९

अथ किमर्थमीकारान्तनिपातनं क्रियते, न "दीर्घजिह्वा च्छन्दसि" इत्येवोच्येत, एवमुच्यमाने प्रतिषेध प्रकरणात् प्रतिषेधो विज्ञायेतेति चेत्? न; संयोगोपधत्वेन प्राप्त्यभावात्, प्राप्तिपूर्वकत्वाच्च प्रतिषेधानाम्। तस्मात् सामथ्र्याद्विधिरेव विज्ञास्यत इत्याह-- "निपातनं नित्यार्थम्" इति। कल्पितत्वात् प्रकृतस्य ङीष इहापि विकल्पित एवासौ विज्ञायेत, निपातनात् नित्यो भवति॥