पूर्वम्: ४।१।६६
अनन्तरम्: ४।१।६८
 
सूत्रम्
बाह्वन्तात् संज्ञायाम्॥ ४।१।६७
काशिका-वृत्तिः
बाह्वन्तात् संज्ञायाम् ४।१।६७

बाहुशब्दान्तात् प्रातिपदिकात् संज्ञायां विषये स्त्रियां ऊङ् प्रत्ययो भवति। भद्रबाहूः। जालबाहूः। संज्ञायाम् इति किम्? वृत्तौ बाहू अस्याः वृत्तबाहुः।
न्यासः
बाह्वन्तात्संज्ञायाम्। , ४।१।६७

बाल-मनोरमा
बाह्वन्तात्संज्ञायाम् ५१५, ४।१।६७

बाह्वन्तात्संज्ञायाम्। "ऊङुत" इत्यत ऊङित्यनुवर्तते, स्त्रियामित्यधिकृतं, प्रातिपदिकादिति च। तदाह--स्त्रियामूङ् स्यादिति। भद्रबाहूरिति। कस्याश्चित्संज्ञा। संज्ञायां किमिति। संज्ञायामित्येतत्किमर्थमिति प्रश्नः। वृत्तबहुरिति। वृत्तौ बाहू यस्या इति विग्रहः। स्त्रियामपि नोङ्।