पूर्वम्: ४।१।६८
अनन्तरम्: ४।१।७०
 
सूत्रम्
ऊरूत्तरपदादौपम्ये॥ ४।१।६९
काशिका-वृत्तिः
ऊरूत्तरपदादौपम्ये ४।१।६९

ऊरूत्तरपदात् प्रातिपदिकातौपम्ये गम्यमाने स्त्रियाम् ऊङ् प्रत्ययो भवति। कदलीस्तम्भोरूः। नागनासोरूः। करभोरूः। औपम्ये इति किम्? वृत्तोरुः स्त्री।
लघु-सिद्धान्त-कौमुदी
ऊरूत्तरपदादौपम्ये १२७६, ४।१।६९

उपमानवाची पूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात्। करभोरूः॥
न्यासः
ऊरूत्तरपदादौपम्ये। , ४।१।६९

"वृत्तोरुः" इति। वृत्तौ {परिमण्डला ऊरू इति मुद्रितः पाठ।} परिमण्डलाबूरू यस्याः सा वृत्तोरुः। लाघवार्थमूर्वन्तादिति वक्तव्य ऊरूत्तरपदादित्युक्तम्-- यत्र केवल ऊरुब्द उत्तरपदं तत्र यथा स्यादित्येवमर्थम्; अन्यथा हि यद्यर्वन्तादित्युच्येत,तदा स्वामिन ऊरू स्वाम्यूरू, हस्तिन इव स्वम्यूरू यस्याः सा हस्तिस्वम्यूरुरित्यत्रापि स्यात्, भवति ह्रेतदूर्वन्तं प्रातिपदिकम्। उत्तरपदग्रहणे तु न दोषः, न ह्रेतदूरूत्तरपदं प्रातिपदिकम्, किं तर्हि? स्वाम्यूरूत्तरपदम्॥
बाल-मनोरमा
ऊरूत्तरपदादौपम्ये ५१७, ४।१।६९

ऊरुत्तर। ऊरुः-उत्तरपदं यस्येति बहुव्रीहिः। प्रातिपदिकादित्यनुवर्तते। उत्तरपदेत्यनेन पूर्वपदमाक्षिप्तम्, औपम्ये इति तत्रान्वेति। उपमीयते अनयेत्युपमा=उपमानम्, उपमैव औपम्यं, स्वार्थे ष्यञ्। तदाह--उपमानवाचीति। करभोरूरिति। करभाविव ऊरू यस्या इति विग्रहः। "मणिबन्धादाकनिष्ठं करस्य करभो बहिः" इत्यमरः। करभोरुत्वस्याऽजातित्वादप्राप्तौ वचनम्, ऊर्वाकृतेः करभसदृशपुरुषोरुसाधारणत्वेन करभसादृश्यघटितकरभोरुत्वस्य आकृतिग्राह्रत्वाऽभावात्, असर्वलिङ्गत्वाद्यभावाच्च। उपमानवचीति किम्?। वृत्तोरुः। करभोपमोरुरित्यादौ नोङ्, करभशब्दस्य करभसदृशेऽवृत्त्या उपमानवाचित्वाऽभावात्।

तत्त्व-बोधिनी
ऊरूत्तरपदादौपम्ये ४६६, ४।१।६९

ऊरूत्तपदात्। उपमीयतेऽनयेत्युपमा, तस्या भाव औपम्यम्। उत्तरपदेन पूर्वपदमिहाक्षिप्यते। तदेतत्फलितमाह---उपमानवाचिपूर्वपदमिति। करभोरूरिति। "माणिबन्धादाकनिष्ठं करस्य करभो बहिः"। तद्वदूरू यस्याः सा। "धात्री कराभ्यां करभोपमोरु"रित्यत्र तूङ् न, करभशब्दस्योपमानवाचित्वेऽपि पूर्वपदत्वाऽभावात्। औपम्ये किम्()। वृत्तोरुः। "ऊर्वन्ता"दिति वक्तव्ये उत्तरपदग्रहणं "हस्तितस्वाम्यूरु"रित्यत्र माभूदित्येवमर्थम्। अत्र हि हस्तिन इव स्वाम्यूरु अस्या इति विग्रहः। तथा चोर्वन्तत्वेऽपि ऊरुत्तरपदत्वमिह नास्ति। "स्वाम्यूरु"शब्दस्यैवोत्तरपदत्वात्।