पूर्वम्: ४।१।७८
अनन्तरम्: ४।१।८०
 
सूत्रम्
गोत्रावयवात्॥ ४।१।७९
काशिका-वृत्तिः
गोरावयवात् ४।१।७९

अणिञोः इत्येव। गोत्रावयवाः गोत्राभिमताः कुलाख्याः पुणिकभुणिकमुखरप्रभृतयः। ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशो भवति। अगुरूपोत्तमार्थ आरम्भः। पौणिक्या। भौणिक्या। मौखर्या। येषां स्वनन्तरापत्ये ऽपि इष्यते दैवदत्त्या, याज्ञादत्त्या इति , ते क्रौड्यादिषु द्रष्टव्याः।
न्यासः
गोत्रावयवात्। , ४।१।७९

गोत्रञ्च तदवयवञ्चेति गोत्रावयवः। इह त्वभिधानेऽभिधेयोपचारं कृत्वा तदभिधायिप्रातिपदिकं गोत्रावयव शब्देनोक्तम्। ननु चैवं विग्रहे विशेषणत्वादवयवशब्दस्य नीलोत्पल इव नीलशब्दस्य पूर्वनिपातः स्यात्। राजदन्तादेराकृतिगणत्वाद्विशेषणस्य परनिपातो भविष्यति। गोत्रं पुनरिह लौकिकं गृह्रते, न पारिभाषिकम्। लोके च प्रधानभूत आदिपुरुषः स्वप्रभवस्यापत्यसन्तानस्य संज्ञाकारी गोत्रमुच्यते। तथा हि भरतो नाम कश्चिदाद्यः प्रधानः पुरुषोऽभूत्, तेन सर्व एव तत्पूर्वकाः पुत्त्रपौत्त्रादयो भरता इति व्यपदिश्यन्ते। अवयवशब्दोऽयमस्त्येवैकदेशे, तत्सम्बन्धादवयवीति समुदाय उच्यते। अस्ति च पृथग्भावे--अवयुतिः = अवयवः, पृथग्भूत इत्यर्थः। यद्यपि यौतिर्मिश्रणे पठ()ते, तथाप्यनेकार्थत्वाद्धादूनामवपूर्वः पृतघ्भावमाचष्टे। अस्त्यप्रधाने, यथा-- कुलावयवोऽयम्, सङ्घावयवोऽयमिति। कुलसय् सङ्घस्य चाप्रधानभूतोऽयमिति गम्यते। तत्र यदेयकदेशवाची गृह्रते तदुपादानमनर्थकं स्यात्, गोत्रादित्येव वक्तव्यम्। गोत्रादवयवोऽपि हि गोत्रं भवति, यथा-- क्षीरावयवः क्षीरमिति। अथापि पृथग्भावे गोत्रादन्यत्र वत्र्तमानो गृह्रते, एवमपि पुणिकादिभ्यो विहितयोरणिञो विहितौ; अनिष्टञ्चैतत्; तस्यैकदेशवाचिनि पृथग्भाववाचिनि वाक्यशब्दे दोष इत्यत्राप्रधानवाच्येव गृह्रते। "गोत्रावयवाः" इति। पुणिकादिश्रुतीनामेतद्विशेषणम्। अप्रधानगोत्राभिधायिन्य इत्यर्थः। "गोत्रभमताः" इति। गोत्रमित्येवमभिमता गोत्राभिवायिन्य इत्येवं लोके प्रसिद्धाः। न पुनर्गोत्राध्याये पठिता इत्यर्थः। अत एव तासामप्रधान्यम्; गोत्राध्यायेऽपठितत्वात्। "कुलाख्याः" इति। कुलम् = गोत्रम्, आख्यायत आभिरित्याख्याः, गोत्रेणेत्येवमादि। "ततः" इति। यथोक्तविशेषणविशिष्टाभ्यः पुणिकादिश्रुतिभ्यः। यदि तर्हि ततो गोत्रविहितयोरणिञोः ष्यङ् भवत्येवं सत्यपार्थकोऽयं योगः, पूर्वेणैव सिद्धत्वात्? इत्यत आह-- "अगुरुपोत्तमर्थ आरम्भः"इति। "पौणिक्या" इत्यादि। पुणिकभुणिकमुखरशब्देभ्यः "अत इञ्" ४।१।९५ इतीञन्तस्य ष्यङश्चाप्॥
बाल-मनोरमा
गोत्रावयवात् ११८१, ४।१।७९

गोत्रावयवात्। गोत्रावयवशब्दं व्याचष्टे-गोत्रावयवा गोत्राभिमता इति। गोत्र=कुलम्, अभिमतं=प्रख्यातं याभिरिति विग्रहः। कुलप्रख्यातिकृत इत्यर्थः।कुलव्यपदेशकृत इति यावत्। तदाह--कुलाख्या इति। कुलम् आख्यायते व्यपदिश्यते आभिरिति कुलाख्याः। कुलनामानीत्यर्थः। पुणिकादिशब्दैर्हि कुलं व्यपदिश्यते-"पुणिकाः वयं", "भुणिकाः वय"मित्यादि। अवपूर्वकात् "यु मिश्रणे" इति धातोरुपसर्गवशेन प्रख्यात्यर्थकात् पचाद्यचि अवयवशब्दः। कुवस्यावयवः प्रख्यापकशब्दः कुलावयव इति लभ्यत इति भावः। ननु पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह--अगुरूपोत्तमार्थ इति। गोत्रादवयुतं=मिश्रितम्-अनन्तरापत्यं, तदर्थमित्यपि भाष्ये स्पष्टम्। एवञ् पूर्वसूत्रे अपत्याधिकारबहिर्भूतेऽपि पारिभाषिकमेव गोत्र गृह्रत इति भाष्यस्वरसः। पौणिक्येति। पुणिकस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् ष्यङि चाप्। एवं मौणिक्या। मनुष्यनामत्वे तन्नामिकाऽणः ष्यङ्।

तत्त्व-बोधिनी
गोत्रावयवात् ९७७, ४।१।७९

गोत्रावयवात्। अवयवशब्दोऽप्रधानवाची, अवयवश्चासौ गोत्रं चेति कर्मधारयः, निपातनाद्गोत्रशब्दस्य पूर्वनिपातः। गोत्रभिमता इति। "गोत्र मित्येवमभिमताः=गोत्रवाचित्वेन देशविशेषे प्रसिद्धाः, न तु प्रवराध्याये पठिता इत्यर्थः। प्रवराध्यायेऽपाठाच्चाऽप्राधान्यम्। कुलाख्या इति। कुलमाख्यायते यैरिति कुलाख्याः--पुणिकभुणिक मुखरप्रभृतयः। तैर्हि कुलमाख्यायते "पुणिका वयं गोत्रेण" "भुणिका वयं गोत्रेण"इति। तत इचि। गोत्रावयवादित्यर्थः।