दीव्यतः इत्यनेन {तेन दीवति खनति (४।४।२)} इति परिगृह्यते। {तेन दीव्यति खनति॰} इत्येतस्मात् प्राक् अण् प्रत्ययः भवति इति अधिकारः वेदितव्यः। वक्ष्यति {तस्यापत्यम् (४।१।९२)} तत्र अण् प्रत्ययः भवति।
तेन दीव्यति इति वक्ष्यति। तदेकदेशो दीव्यच्छब्दो अवधित्वेन गृह्यते। प्राग् दीव्यत्संशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यमः, अण् प्रत्ययस् तत्र भवति इति वेदितव्यम्। अधिकारः, परिभाषा, चिधिर्वा इति त्रिष्वपि दर्शनेष्वपवादविषयं परिगृत्य अण् प्रवर्तते। वक्ष्यति, तस्य अपत्यम्
४।१।९२ औपगवः। कापटवः।
"प्राग्दीव्यत्" इत्ययुक्तोऽयं निर्देशः , यावता "दीव्यति"
४।४।२ इति वक्ष्यति, न तु दीव्यदिति,
तत्र दीव्यतीशब्दस्यावधित्वेनोपादाने दीव्यतेरिति निर्देशेन भवितव्यम्? इत्यत आह-- "तदेकदेशः"इत्यादि। समस्तस्य दीव्यतिशब्दस्यावधित्वेनोपादाना#ए सति न युज्येतायं निर्देशः, न तु समस्तस्योपादानम्, अपि तु तदेकदेशस्य दीपव्यच्छब्दस्येत्यदोषः। अथ किमर्थं दीव्यद्ग्रहणं प्राग्ग्रहणञ्चत,
नणित्येवाधिकारः क्रियताम्? नैवं शक्यम्ेवं हि क्रियमाणे "स्त्रीभ्यो ढक्"
४।१।१२० इत्येवमादिनाऽधिकारान्तरेण विच्छिननस्याणः "तेन रक्तं रागात्"
४।२।१ इत्येवमादिषु पुनग्र्रहणं कत्र्तव्यं जायेत। अवधिनाधिकारपरिमाण आख्याते तदवधिकेष्वर्थेषु सर्वेष्वयमभ्यनुज्ञायत इतिपुनरण्ग्रहणं कत्र्तव्यं न भवति। तस्मादधिकारपरिमाणज्ञापनार्थं दीव्यद्ग्रहणं तावत्कत्र्तव्यम्। प्राग्ग्रहणमपि कत्र्तव्यमेव तस्यैवावधित्वद्योतनार्थम्। असति हि तस्मिन् "दीव्यतोऽण्" इत्युच्यमाने प्रकृतिरणो दीव्यच्छब्दो विज्ञायेत। "त्रिष्वपि दर्शनेषु" इत्यादि। कथं पुनरियमपवादविषयपरिहारेणाणः प्रवृत्तिर्लभ्यते, यावताधिकारे तस्मिन् सति प्रतियोगमुपस्थानादपवादविषयेऽप्यण् प्राप्नोति-- "अत इञ् अण् च" इति,
अन्यथा हि तस्य तत्रोपादानमनर्थकं स्यात्? परिभाषापक्षेऽपि प्राग्दीव्यतोऽर्थेष्वणित्यविशेषेण परिभाषिते सामान्येन परिभाषा प्रवत्र्तमाना केनापवादविषयं परिहरेत्? विधावपि प्राग्दीव्यतो याः प्रकृतयस्ताः सर्वा इहैकध्यमुपनीयाण् विधीयमानः सर्वतः प्रवत्र्तेत,
अन्यथा सर्वतो विधानमनर्थकं स्यात्? एवं मन्यते-- ज्ञापकादपवादविषये न भविष्यतीति, यदयं क्वचिद्वाग्रहणमन्यतरस्यांग्रहणञ्च करोति-- "पीलाया वा"
४।१।११८, "उद()इआतोऽन्यतरस्याम्
४।२।१८ इति,तज्ज्ञापयति-- नापवादविषयेऽण् भवतीति। विधौ तु भूयान् परीहारः। न हि प्राग्दीव्यतो याः प्रकृतयस्ताभ्योऽण् विधीयते,
किं तर्हि? प्राग्दीव्यतो येऽर्थास्तेषु। तत्र समानार्थे प्रकृतिविशेषादुत्पाद्यमान इञणं बाधिष्यत इति। अथ किमर्थमियानवधिरुपादीयते, न प्राक् ठक इत्येवोच्येत, "प्राग्वहतेष्ठक्" (४।४।
१) इत्येतस्माट्ठकः प्रागित्यर्थः? नैवं शक्यम्; "दध्नष्ठक्"
४।२।१७ इत्येवमादिरपि ठगवधित्वेन विज्ञायते।
"प्राक् कंसीयात्" इत्येवं तर्हि वक्तव्यम्-- "कंसीयपरशब्दयोर्यञञौ लुक् च" (४।३।१६८) इति,
तत्र यः कंसीयशब्दस्ततः प्रागित्यर्थः? एवमप्यशक्यं वक्तुम्; "द्विगोर्लुगनपत्ये"
४।१।८८ इत्येतयापि कंसीयादुत्पद्येत, ततश्च द्वयोः कंसीययोर्विकारो द्विकंस इत्यत्र लुङ्न स्यात्। तस्माद्यथान्यासमेवास्तु॥
प्राग्दिश इतीति। तत उत्तरेषां प्रत्ययानां स्वार्थिकत्वेन "समर्थानां", "प्रथमा"दिति पदयोः प्रयोजनं नेति भावः। ननु "समर्थः पदविधि"रिति परिभाषया गतार्थत्वात् "समर्थाना"मित्येतव्द्यर्थम्। न च पदविधित्वं नेति शङ्क्यं, "घकालतनेषु"इत्यलिग्विधानात् "सुबन्तात्तद्धितोत्पत्ति"रिति सिद्धान्तस्य सकलसंमतत्वादत आह--सामथ्र्यमिति। कृतसन्धिकार्यत्वमिति। अस्य फलं तु "तस्यापत्य"मिति सूत्रे मूल एव स्फुटीभविष्यति। इह "समर्थात्प्रथमाद्वे"ति वक्तुं युक्तम्। महोत्सर्गानाह---प्राग्दीव्यत इत्यादीना। सूत्रे "दीव्य"दित्येकदेशोऽनर्थकोऽप्यवधित्वेनोपात्तः "प्राग्री()आरा"दितिवदित्येके। अन्ये त्वाहुः--"दीव्य"दिति शत्रन्तम्। तेन देवनकर्ता अर्थ एवावधिरिति।