पूर्वम्: ४।१।८५
अनन्तरम्: ४।१।८७
 
सूत्रम्
उत्सादिभ्योऽञ्॥ ४।१।८६
काशिका-वृत्तिः
उत्साऽदिभ्यो ऽञ् ४।१।८६

प्राग्दीव्यतः इत्येव। उत्सादिभ्यः प्राग्दीव्यतीयेषु अर्थेषु अञ् प्रत्ययो भवति। अणस् तदपवादानां च बाधकः। औत्सः। औदपानः। उत्स। उदपान। विकर। विनोद। महानद। महानस। महाप्राण। तरुण। तलुन। बष्कया ऽसे। धेनु। पृथिवी। पङ्क्ति। जगती। तिर्ष्टुप्। अनुष्टुप्। जनपद। भरत। उशीनर। ग्रीष्म। पीलु। कुल। उदस्थानात् देशे। पृषदंशे। भल्लकीय। रथान्तर। मध्यन्दिन। बृहत्। महत्। सत्त्वन्तु। सच्छब्दो मतुबन्त आगतनुङ्को गृह्यते सत्त्वन्तु इति। कुरु। पञ्चाल। इन्द्रावसान। उष्णिक्। ककुब्H। सुवर्ण। देव। ग्रीष्माच्छन्दसि इति वक्तव्यम्। इह मा भूत्। ग्रैष्ंई त्रिष्टुप्। छन्दश्च इह वृत्तं गृह्यते, न वेदः।
लघु-सिद्धान्त-कौमुदी
उत्सादिभ्योऽञ् १००५, ४।१।८६

औत्सः॥
लघु-सिद्धान्त-कौमुदी
इत्यपत्यादिविकारान्तार्थ साधारणप्रत्ययाः १ १००५, ४।१।८६

लघु-सिद्धान्त-कौमुदी
अथापत्याधिकारः १००५, ४।१।८६

न्यासः
उत्सादिभ्योऽञ्। , ४।१।८६

"तदपवादानाञ्च" इति। इञादीनाम्। "वष्कयाऽसे" इति गणे पठ()ते। तस्यायमर्थः- वष्कयशब्दादञ् भवति, असे असमासे इत्यर्थः। पूर्वाचार्यैः समासस्य "स" इत्येषा संज्ञा कृता। वष्कयस्यापत्यं वाष्कयः। अस इति किम्? "गौवष्कयिः"। "अत इञ्" ४।१।९५ इतीञेव भवति। "उदस्थानाद्देशे" इति। उदस्थानशब्दाद्देशे वाच्येऽञ् भवति। उदस्थाने भवो देश औदस्थानः। देश इति किम्? उदस्थानो नाम कश्चित्पुरुषः, तस्यापत्यमौदस्थानिः। "पृषदंशे" इति। पृषच्छब्दादंशेऽभिधेयऽञ् भवति। पृषदोंऽशः पार्षदः। अंश इति किम्? पार्षदोऽन्यः। अणेव भवति। कुरुशब्दोऽत्र पठ()ते, तस्यापत्यविवक्षायां कौरव इति न सिध्यति,यस्मात् "कुर्वादिभ्यो ण्यः" ४।१।१५१ "कुरुनादिभ्यो ण्यः" ४।१।१७० इतिच ण्यप्रत्ययः प्राप्नोति। अञ्प्रत्ययो हि सामान्यविहितः, ण्यप्रत्ययस्तु विशेषविहितः। सामान्यविहितश्च विशेषविहितेन बाध्यते? नैष दोषः; अयं योगस्तयोर्योगयोरनुवर्तिष्यते; तत्राप्यपत्येऽर्थे कुरुशब्दोऽनवकाश इत्यञपि ततो भविष्यति। अपत्यार्थस्य "तस्येदम्" ४।३।१२० इत्यर्थविवक्षायां वा कौरव इति भविष्यति। "ग्रीष्मादच्छन्दसीति वक्तव्यम्" (इति)। ग्रीष्मशब्दादच्छन्दस्यभिदेयेऽञ् भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थमित्याह-- "इह मा भूत्" इत्यादि। छन्दसि त्रिष्टुवादौ वाच्ये सन्धिवेलादिसूत्रेण ४।३।१६ ऋत्वणेव यथा स्यात्, अञ्मा भूदित्येवमर्थम्। तेन ग्रैष्मी त्रिष्टुवित्यञ् न भवति। तत्रेदं व्याख्यानम्-- वेति वत्र्तते, सा च व्यवस्थितविभाषा। तेन ग्रीष्मशब्दाच्छन्दसि वाच्येऽञ् न भवतीति। "वृत्तं गृह्रते" इति। यस्य त्रिष्टुज्जगतीत्यादयो विशेषास्तदिह वृत्तम्; अतश्छन्दो गृह्रते, न वेदः॥
बाल-मनोरमा
उत्सादिभ्योऽञ् १०६१, ४।१।८६

उत्सादिभ्योऽञ्। "प्राग्दीव्यतीये()आर्थेष्वि"ति शेषः। अणिञाद्यपवादः। "दृष्टं सामे"ति सूत्रभाष्ये "सर्वत्राऽग्निकलिभ्यां ढग्वक्तव्यः" इति वार्तिकं पठितम् "दृष्टं सामे"त्यर्थे ततोऽन्येष्वप्यर्थेषु ढग्वक्तव्य इत्यर्थः

"तत्र सर्वत्रे"ति त्यक्त्वा लाघवात्प्राग्दीव्यतीयेष्वेवेदं वार्तिकं पठति--अग्निकलिभ्यामिति। अपत्यादीति। अग्निर्देवता अस्य इत्यादिसङ्ग्रहः। आग्नेयं कालेयमिति। ढकि एयादेशे कित्त्वादादिवृद्धौ "यस्येति च" इति लोपः। इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः।

तत्त्व-बोधिनी
उत्सादिभ्योऽञ् ८८८, ४।१।८६

उत्सादिभ्योऽञ्। अणस्तदपवादानामिञादीना चायमपवादः। इह "बष्कयाऽसे" इति गणसूत्रम्। असे=असमासे। पूर्वाचार्यसंज्ञेयम्। बष्कयस्यापत्यादि बाष्कयः। असे किम्()। गौबष्कयिः। "असे"इति निषेधाल्लिङ्गादिह तदन्तविधिः, तेन धेनुशब्दस्येह पाठाददेनूनां समूह आधेनवमिति सिद्धम्। नन्वेवं धैनुकं गौधेनुकमित्यत्राऽञ्प्रवर्तेत, "अचित्तहस्तिधेनो"रिति सूत्रे धेनुशब्दग्रहणाद्धैनुकमिति सिद्धावपि गौधेनुकं न सिद्ध्येदिति चेन्न, "धेनुरनञ् इकमुत्पादयती"ति विशेषवचनस्य भाष्ये स्थितत्वात्। इकं---ठकमित्यर्थः।

अग्निकलिभ्यां ढग्वक्तव्यः। अग्निकलिभ्यामिति। अयं भावः---"साऽस्य देवता"इत्यधिकारे "अग्रेर्ढ"गिति सूत्रं,"दृष्टं सामे"त्यधिकारे "कलेर्ढ"गिति वार्तिकं चापनीय प्राग्दीव्यतीयेष्विदमेव पठनीयम्। तेनाऽग्नेरपत्यम्, अग्निना दृष्टं साम, अग्निरिदम्, अग्नौ भवम्, अग्नेरागतमाग्नेयमिति सिध्यति। तथा कलेरपत्यमित्याद्यर्थे कालेयमपि सिध्यतीति। एतेन "यदकालयत् तत्कालेयस्य कालेयत्व"मिति श्रुतावर्थान्तरेऽपि ढको दर्शनात् "कलेर्ढ"गिति सूत्रमपार्थकमिति मीमींसकोक्तिः परास्ता। वार्तिके सूत्रत्वोक्तिरप्यवैयाकरणमीमांसकप्रतारणार्थेति दिक्। इत्यपत्यादिबिकारान्तार्थसाधारणाः प्रत्ययाः।