पूर्वम्: ४।१।८८
अनन्तरम्: ४।१।९०
 
सूत्रम्
गोत्रेऽलुगचि॥ ४।१।८९
काशिका-वृत्तिः
गोत्रे ऽलुगचि ४।१।८९

प्राग्दीव्यतः इत्येव। यस्कादिभ्यो गोत्रे २।४।६३। इत्यादिना येषां गोत्रप्रत्ययानां लुगुक्तः, तेषामजादौ प्राग्दीव्यतीये विशयभूते प्रतिषिध्यते। गर्गाणाम् छात्राः गार्गीयाः। वात्सीयाः। आत्रेयीयाः। खारपायणीयाः। गोत्रे इति किम्? कौबलम्। बादरम्। अचि इति किम्? गर्गेभ्य आगतम् गर्गरूप्यम्। गर्गमयम्। प्राग्दीव्यतः इत्येव, गर्गेभ्यो हि तम् गार्गीयम्। गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुक्। बिदानाम् अपत्यं युवा, युवानौ बैदः, बैदौ। वैदशब्दाततः इञ् कृते तस्य च इञः ण्यक्षत्रियाऽर्षञितो यूनि लुगणिञोः २।४।५८ इति लुकि रूपम्। एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि, बैदस्य बैदयोर् वा अपत्यं बहवो माणवकाः बिदाः। नह्यत्राण् बहुषूत्पन्नः।
न्यासः
गोत्रेऽलुगचि। , ४।१।८९

"अचि" इति। यद्येषा परसप्तमी स्याच्छविधावितरेतराश्रयता प्रसज्येत। कथम्? गर्गस्यापत्यानि बहुनि "गर्गादिभ्यो यञ्" ४।१।१०५, तस्य यदि लुक् स्याच्छो न स्यात्। लुप्तेऽपि तस्मिन् "प्रत्ययलोपे प्रत्ययलक्षणम्" (१।१।६२) इति चेत्? "न लुमताङ्गस्य" १।१।६२ इति प्रत्ययलोपप्रतिषेधाद्()वृद्ध्यभावेन वृद्धसंज्ञा न स्यात्, ततश्च वृद्धलक्षणच्छो न स्यात्। तस्माद्()वृद्धत्वं प्रातिपदिकस्य वाञ्छतोऽलुक् पूर्व स्यात्। स चालुक छे परतो यदि भवति ततश्चालुग्विनिमित्तश्छः, तन्निमित्तश्चालुगितिव्यक्तमितरेतराश्रयत्वम्। तदिमं परसप्तम्यां दोषं दृष्ट्वा विषयसप्तमीयमिति दर्शयन्नाह--"अजादौ प्राग्दीव्यतीये विषयभूते" इति। विषयभूते = अनुत्पन्न एव बुद्धिस्थ इत्यर्थः। "गार्गीयाः" इति। गर्गस्यापत्यानि बहूनि। गर्गादित्वाद्यञ् ४।१।१०५। तस्य गर्गाणाञ्छात्रा इत्यर्थविवक्षायामजादावनुत्पन्ने बुद्ध्यभिमुखीकृते विषयभूते "यञिञोश्च" ४।१।१०१ इतियो लुक् प्राप्नोति तस्यानेन प्रतिषेधः क्रियते, ततश्चादिवृद्धौ कृतायां तन्निबन्धनायां च वृद्धसंज्ञायाम् "वृद्धाच्छः" ४।१।११४ इति च्छः, ईयादेशः, "यस्येति च" ६।४।१४८ इत्यकारलोपः, "आपत्यस्य च तद्धितेऽनाति" ६।४।१५१ इत यकारस्य। "वास्तीयाः" इति। पूर्वेण तुल्यम्। "आत्रेयीयाः" इति। अत्त्रेरपत्यानि बहूनि। "इतश्चानिञः" ४।१।१२२ इति ढक्, तस्य "अत्त्रिभृगुकुत्स" २।४।६५ इत्यादिना लुकि प्राप्तेऽत्रीणां छात्रा इति च्छे विषयभूते तस्य प्रतिषेधः। "खारपायणीयाः" इति। खरपस्यापत्यानि बहूनि। "नडादिभ्यः फक्" ४।१।९९, "यस्कादिभ्यो गोत्रे" २।४।६३इति तस्य प्राप्तस्य लुकः खरपाणां छात्रा इति च्छे विषयभूते प्रतिषेधः। "कौबलम्, वादरम्" इति। कुबलीवदरीशब्दौ गौरादिङीषन्तौ प्रत्ययस्वरेणान्तोदात्तौ, तयोः शेषमनुदात्तम्। तेन कुबल्या विकारः फलम्, वदर्या विकारः फलमित्यर्थविवक्षायाम्। "अनुदात्तादेरञ्" ४।२।४३ तस्य "फले लुक्" ४।३।१६१ इति तयोर्लुग् यः प्राप्नोति तस्य कुबलस्येदं वदरस्येदमित्यर्थविवक्षायामजादौ छे विषयभूते प्रतिषेधो न भवति; गोत्रग्रहणात्। गोत्रे यः प्रत्ययो वाचकत्वेन वत्र्तते तस्य लुकः प्रतिषेधेन भवितव्यम्। न चायमञ् गोत्रे वाचकत्वेन वत्र्तते, अपि तु विकारे, तेन तस्य लुग्भवत्येव। तस्मिन् सति "लुक्तद्धितलुकि" १।२।४९ इति स्त्रीप्रत्ययस्यापि लुक्। अञि लुप्ते वृद्ध्यभावाद्()वृद्धत्वं नास्तीत्यणेव भवति, न तु च्छः। "गर्गरूप्यम्, गर्गमयम्" इति। पूर्ववद्रूपमयटौ। यद्यत्रालुक् स्याद्गाग्र्यरूप्यं गाग्र्यमयमिति स्यात्। "गार्गीयम्" इति। "तस्मै हितम्" ५।१।५ इति "प्राक्क्रीताच्छः" ५।१।१ इति च्छः, स च प्राग्दीव्यतीयो न भवति; दीव्यतः परेण विधानात्। "गोत्रस्य" इति। गोत्रप्रत्ययस्य। "बहुषु लोपिनः" इति। बहुष्वर्थेषूत्पन्नस्य यस्य लोपो विधीयते स बहुषु लोपी। "बहुवचनान्तस्य प्रवृत्तौ" इति। प्रवृत्तिः = अर्थान्तरसंक्रान्तिः। एतदुक्तं भवति-- बहुवचनान्तस्यार्थान्तरसंक्रान्ताविति। सा चार्थान्तरसंक्रान्ताविति। सा चार्थान्तरसंक्रान्तिस्तदन्ताद्यदा यूनि प्रत्यय उत्पद्यते तदा भवतीति वेदितव्यम्; तदा गोत्रान्तस्य यूनि प्रवृत्तेः। "द्वयेकयोः" इति। यदा गोत्रप्रत्ययान्तादेकस्मिन्नर्थे यूनि द्वयोर्वा यूनोः उत्पद्यते तदाऽर्थान्तरसंक्रान्तौ सत्यामलुग्भवति। बिदस्यापत्यानिबहुनि। "अनुष्यानन्तर्ये बिदादिभ्योऽञ" ४।१।१०४ इत्यञ्, स च "यञञोश्च" २।४।६४ इति बहुषु लुग्विधानाद्बहुषु लोपी भवति, तदन्ताद्युवविवक्षायामेकस्मिन् यूनि द्वयोर्वा "अत इञ्" (४।१९५), तस्य ण्यक्षत्त्रियादिसूत्रेण (२।४५८) लुकि कृते गोत्रप्रत्ययान्तस्य तस्यार्थान्तरसंक्रान्तौ सत्यां गोत्रप्रत्ययस्याञ इहापि बहुषूत्पन्नस्य लग्न भवति। कथं पुनर्न भवति, यावताऽलुको विषयाभावात् प्राग्दीव्यतीयोऽजातिरिञ् प्रत्यय उपनीतः? प्रत्ययलक्षणम्" (व्या।प।९६) इति च परिभाषा। यथा गवे हितं गोहितमिति चतुर्थीसमासे सुब्लुकि कृते प्रत्ययलक्षणेन चतुर्थीविभक्तिमाश्रित्य गोशब्दस्य "एचोऽयवायावः" इत्यवादेशो न भवति; वर्णाश्रयत्वात्। वर्णाश्रयत्वं तु तस्याचि विधानात्। यथा च "वर्णाश्रये नास्ति प्रत्ययलक्षणम्ट (व्या।प।९६) इति परिभाषा, तथा बैदः, बैदौ-- इत्यत्राप्यलुका वर्णाश्रयतया न भवितव्यम्? नैतदस्ति, न ह्रलुगत्र वर्णाश्रयः, किं तर्हि? तद्धिताश्रयः। अचीत्येतत् त्विह सूत्रे विशेषणत्वेनोक्तम्। अत एव वृत्तावुक्तम्-- अजादौ प्राग्दीव्यतीये प्रत्यय इति। तस्मात् तस्याः परिभाषाया इहोवस्थानेऽसति "गोत्रेऽलुगचि" इति भवतीति, अनेनैवात्रालुक् सिद्धः। स च बहुषु युवसु मा भूदिति द्वयेकयोरेवेत्युपसंख्यानम्। तत्र बिदा इत्येव भवति। "एकवचनद्विवचनान्तस्य" इत्यादि। एकवचनान्ततस्य गोत्रप्रत्ययस्य द्विवचनान्तस्य च बहुष्वर्थेषु युवसंज्ञकेषु प्रवृत्तौ संक्रान्तौ सत्यां लुग्वक्तव्यः। तत्र बैदस्येत्येकवचनान्तं गोत्रम्, बैदयोरिति द्विवचनान्तम्()। अत्र च पूर्ववदञ्, तयोर्युवापत्यबहुत्वविवक्षायाम् "अत इञ्" ४।१।९५। तस्य ण्यक्षत्त्रियादिसूत्रेण २।४।५८ लुकि कृतेऽञोऽपि गोत्रप्रत्ययस्य लुगिष्यते। स च न प्राप्नोति, तस्मादुपसंख्यायते। किं पुनः कारणं न प्राप्नोति? इत्याह-- "न ह्रत्र" इत्यादि। "यञञोश्च" २।४।६४ इति अनेन हि बहुषूत्पन्नोर्लुग्विधीयते, न चाञ् हुहषूत्पन्न,किं तर्हि? एकस्मिन् द्वयोश्च, तस्मान्न प्राप्नोतीति। तदेवं सर्वथा बहुषु बिदा इत्येवं भवितव्यमिति स्थितम्॥
बाल-मनोरमा
गोत्रेऽलुगचि १०६४, ४।१।८९

गोत्रेऽलुगचि। "अलु"गिति च्छेदः। "प्राग्दीव्यत" इत्यनुवृत्तेः, प्रत्ययाधिकाराच्च प्राग्दीव्यतीये प्रत्यये इति लब्धम्। अचीति तद्विशेषणं। तदादिविधिः। विषयसप्तम्येषा, नतु परसप्तमी। तदाह--अजादावित्यादिना। गोत्रप्रत्ययस्येति। गोत्रार्थकप्रत्ययस्येत्यर्थः। लुकः प्रत्ययाऽदर्शनत्वात्प्रत्ययस्येति लब्धम्। गर्गाणां छात्रा इति। वक्ष्यमाणोदाहरणविग्रहप्रदर्शनमिदम्। गर्गस्य गोत्रापत्यं गार्ग्यः। "गर्गादिभ्यो यञ्"। गर्गस्य गोत्रापत्यानीति बहुत्वविवक्षायां यञि कृते तस्य "यञञोश्चे"ति लुकि "गर्गा" इति भवति। वृद्धाच्छ इति। गाग्र्य शब्दादुक्तेऽर्थे छप्रत्यय इत्यर्थः। छस्य ईयादेशः, तस्मिन्भविष्यति अजादौ परे "यञञोश्चे"ति प्राप्तो लुङ् न भवति।

तत्त्व-बोधिनी
गोत्रेऽलुगचि ८९१, ४।१।८९

गोत्रे लुगचि। गोत्रे किम्()। गोत्रार्थकप्रत्ययस्यैवाऽलुग्यथा स्यात्। नेह--कुवलस्येदं कौवलं, बदरस्येदं बादरम्। कुवलीबदरीशब्दौ हि गौरादिङीषन्तौ, ताभायं फलरूरे विकारे "अनुदात्तादेश्चे"त्यञ्। तस्य "फले लु"गिति लुक्। तत इदमर्थे अजादिप्राग्दीव्यतीये विवक्षितेऽनेनाऽलुङ्न भवतीति वृद्धित्वाऽभावाच्छो नेति भावः। विवक्षित इति। अचीति विषयसप्तमी। परसप्तमीत्वे तु अवृद्धत्वाच्छस्याऽप्राप्तौ अणेव स्यादिति भावः।